Daily Archives: June 1, 2025
छात्रेभ्यो शुभाशंसाः

आरब्धाः खलु विद्याशाला :
शलभाश्चात्र तु प्राप्ताः ।
नानावर्णै : शोभनगात्राः
विकसितनयनाः बालाः ॥
पुस्तकस्यूतैः नव्यसुवस्त्रैः
छत्रैर्वर्णमनोज्ञैः ।
अङ्कणमध्यं सम्प्राप्तास्ते
पुष्पैः मण्डितमखिलम् ॥
घण्टानादश्रवणमुहूर्ते
विशन्तु कक्ष्यामनघाम् ।
प्रणम्य वदत गुरवरमेव
संस्कृतपठनं कार्यम् ॥
सरसमनोज्ञकथाभिः पूर्णं
तावकसंस्कृतकुसुमम् ।
उपदेशशतैः ललितैः हृद्यै:
पुस्तकमेतत्भरितम् ॥
पठतात् संस्कृतं वदतान्नित्यं
संस्कृतभाषामनघाम् ।
लिखतान्मिन्त्र सुन्दरगात्रां
ललितमनोज्ञां भाषाम् ॥
उत्तमछात्राः भवन्तु सर्वै
सज्जनसेवां कुरुत।
भारतराष्ट्रसमुद्वहनाय
प्रयासमखिलं चरत ॥
Vijayan V Pattambi