Daily Archives: December 20, 2021

नववर्षशुभगीतम् – विजयन् वि. पट्टाम्बि।

 

जय जय मङ्गलवर्ष समागत

जय जय हर्षद कालरूपिन्।

(जय जय…..)

नववर्ष संगम सुदिनसमागमे

हृदयप्रकर्षो मे ज्वलति तीव्रम्।

नववर्षसंजात पल्लवजालेन

हृदयं हरतीव बालचूतः।।

(जय जय…)

मधुमत्तकोकिलैः सुमदलगन्धैश्च

जनुवरिमासोयं हृदयहारी।

सुरभिलवायुना मृदुपु्ष्पकेलिभि-

रनुदिनं चित्तमपहरति।।

(जय जय…)

लसतां विलसतामानन्दसागरो

हृदयेषु मानवमन्दिरेषु।

मधुरं च मङ्गलं तावक जीवन-

मनुदिनं वर्षेस्मिन् भवतु मित्र।।

(जय जय…)

हरतु वो दूरितान्यखिलानि सर्वेश

कृपया जगत्रयपालकस्य।

भवतु जगदयं सुखदो निरामयो

नववर्षहर्षेषु मङ्गलेषु।।

(जय जय…)

 

प्रश्नोत्तरम् (भागः २१५) – 25-12-2021

EPISODE – 215

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रकाशः – अम्ब ! मम विद्यालये प्रवासः ——। (क) अस्ति (ख) स्तः  (ग) सन्ति
  2. अहम् अपि ——-वा ? (क) गच्छति  (ख) गच्छसि  (ग) गच्छामि
  3. माता – अहं कथं वदामि ? पिता खलु धनं ——। (क) ददति  (ख) ददाति (ग) ददसि
  4. प्रकाशः – भवती एव —- तातम्। (क) वदसि  (ख) वदन्तु  (ग) वदतु
  5. माता – कति —— गच्छन्ति भोः ? (क) छात्रः  (ख) छात्राः  (ग) छात्रौ
  6. प्रकाशः – मम ——सर्वेsपि  गच्छन्ति।(क) कक्ष्यायां  (ख) कक्ष्या  (ग) कक्ष्यायै
  7. ते सकर्वे धनमपि ———–। (क) दत्तवान्  (ख) दत्तवन्तः  (ग) दत्तवती
  8. माता – श्वः एव तातं ——-धनं नयतु। (क) पृच्छति  (ख) पृच्छसि  (ग) पृष्ट्वा
  9. प्रकाशः – ——–अनुमतिः प्राप्ता।अर्धं कार्यं समाप्तम्। (क) अम्बायाः (ख) अम्बायै  (ग) अम्बायाम्
  10. तातः – वत्स ! सर्वे गच्छन्ति खलु। ——–सह मिलित्वा गच्छतु। (क) सर्वै    (ख) सर्वैः  (ग) सर्वेषाम्

ഈയാഴ്ചയിലെ വിജയി

SATHI M

“അഭിനന്ദനങ്ങൾ”