नववर्षशुभगीतम् – विजयन् वि. पट्टाम्बि।

जय जय मङ्गलवर्ष समागत
जय जय हर्षद कालरूपिन्।
(जय जय…..)
नववर्ष संगम सुदिनसमागमे
हृदयप्रकर्षो मे ज्वलति तीव्रम्।
नववर्षसंजात पल्लवजालेन
हृदयं हरतीव बालचूतः।।
(जय जय…)
मधुमत्तकोकिलैः सुमदलगन्धैश्च
जनुवरिमासोयं हृदयहारी।
सुरभिलवायुना मृदुपु्ष्पकेलिभि-
रनुदिनं चित्तमपहरति।।
(जय जय…)
लसतां विलसतामानन्दसागरो
हृदयेषु मानवमन्दिरेषु।
मधुरं च मङ्गलं तावक जीवन-
मनुदिनं वर्षेस्मिन् भवतु मित्र।।
(जय जय…)
हरतु वो दूरितान्यखिलानि सर्वेश
कृपया जगत्रयपालकस्य।
भवतु जगदयं सुखदो निरामयो
नववर्षहर्षेषु मङ्गलेषु।।
(जय जय…)
Leave a Reply