Daily Archives: December 8, 2021

तमिल् नाटु राज्ये नीलगिरिमण्डले उदग्रयानं भग्नमभवत्।

उदगमण्डलम्- तमिल् नाटु राज्ये नीलगिरि मण्डले उदगमण्डलसमीपं कूनूर् प्रदेशे अद्य मध्याह्ने सैनिकोदग्रयानापघाते चत्वारः मृतः। उन्नताधिकारिभिः साकं उड्डयिते उदग्रयाने संयुक्तसैनिकाध्यक्षः जनरल् विपिन् रावत् सपरिवारं यात्रिकः आसीत्। स व्रणितः सन् चिकित्सालयं नीतः।

अपघाते जाते उदग्रयानं सम्पूर्णतया अग्निसादभवत्। १४ जनाः उदग्रयाने आसीत्। एषु चत्वारः मृताः दृष्टाःसप्तजनाः व्रणिताः सन्तः चिकित्सालयं नीताः। एषां स्थितिः गुरुतरा इति श्रूयते। त्रयः इतः परं द्रष्टव्याः।

अपघातसंबन्धि औद्योगिकस्थिरीकरणं नागतम्। विपिन् रावत् वर्योपि कालकबलीभूतः

नीलमणि फुक्कन् दामोदर् मौसो च ज्ञानपीठपुरस्कारेण भूषितौ।

नवदिल्ली- असमी कविः नील्मणी फूकन् कोङ्कण आख्यायिकाकारः दामोदर् मौसो च ज्ञानपीठपुरस्कारेण आदृतौ। फूकन् वर्याय गतवर्षीयपुरस्कारः तथा मौसो वर्याय एतद्वर्षीयपुरस्कारश्च प्रददाति। ११ लक्षं रूप्यकाणि काचनिर्मितं सरस्वतीशिल्पं फलकं च पुरस्काररूपेण दीयन्ते।

असमभाषाकवितासु प्रतीकात्मकतां प्रतिनिदधाति फूकन् वर्यस्य कविता। १३ सम्पुटत्वेन कविताः प्रकाशिताः। कोबिता इति कवितासमाहाराय १९८१ तमे वर्षे साहित्य अक्कादमीपुरस्कारः, १९९९ तमे वर्षे पद्मश्रीपुरस्कारश्च अनेन अवाप्तः।
कोङ्कणि भाषायाम् आख्यायिकाः कथाः पटकथाः बालसाहित्यानि च मौसो वर्येण लिखितानि सन्ति।