Daily Archives: December 26, 2021

प्रश्नोत्तरम् (भागः २१६) – 01-01-2022

EPISODE – 216

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सुनीता – चिरात् दर्शनम् ? ——–उपविशतु। (क) आदच्छति  (ख) आगच्छतु (ग) आदच्छन्ति
  2. सुशीला – किं भगिनि ! बहुदिनेभ्यः आगच्छामि इति ——–। (क) चिन्तितवती  (ख) चिन्तितवान् (ग) चिन्तितवत्
  3. सुनीता – वाणी अपि आगतवती किम् ? ——–किं ददामि ? (क) पीत्वा  (ख) पिबति  (ग) पातुम्
  4. सुशीला – मास्तु भगिनि ! ——–आगतवती आहम्। (क) विवाहगृहस्य  (ख) विवाहगृहेण  (ग) विवाहगृहात्
  5. कथमस्ति ——–स्वास्थ्यम्। (क) भवत्याः  (ख) भवती  (ग) भवत्यै
  6. सुनीता – चिन्ता नास्ति।इदानीं किञ्चित्  उत्तमम् —— (क) सन्ति  (ख) अस्ति  (ग) स्तः
  7. रघुवीरः – ——-आगतवती भवती ? (क) किं  (ख) कुत्र  (ग) कदा
  8. सुशीला – ———-पूर्वम्  आगतवती । (क) दशनिमिषेभ्यः  (ख)  दशनिमिषम्  (ग)  दशनिमिषस्य
  9. भवान् ——-आगतवान् ? (क) कति  (ख) कुत्र  (ग) कुतः
  10. रघुवीरः – अद्य अस्माकं ——-कश्चन कार्यक्रमः आसीत्। (क) विद्यालये  (ख) विद्यालयस्य  (ग) विद्यालयाय

ഈയാഴ്ചയിലെ വിജയി

KALIDAS

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Kalidas
  • Sathi M
  • Aditya T

“അഭിനന്ദനങ്ങൾ”

पञ्चदशोर्ध्ववयस्केभ्यो वाक्सिनदानं, षष्टिवयसःऊर्ध्वानां रोगिणां कृते अधिरमात्रावाक्सिनं च ।

नवदिल्ली- राष्ट्रे १५ तः १८ वयःपरिमितेभ्यो बालेभ्यो जनुवरि तृतीयदिनाङ्कादारभ्य कोविड् वाक्सिनं दास्यतीति प्रधानमन्त्री नरेन्द्रमोदीवर्यः। कोविडस्य ओमैक्रोण् भेदव्यापनस्य भूमिकायां राष्ट्रमभिसंबोधयन् भाषमाण आसीत् प्रधानमन्त्री।

स्वास्थ्यकर्मकरेभ्यः षष्टिवयसः ऊर्ध्वानां रोगिणां च कृते अधिकमात्रावाक्सिनं दातुमपि निर्णयोस्ति। एतत् दनुवरि १० दिनाङ्कादारभ्य वैद्यानां निर्देशानुसारं स्यात्।

भारत् बयो टेक् इति संस्थायाः कोवाक्सिन् बालेभ्यो दातुं डी सी जी ऐ अनुमतिमदात्। तदनन्तरमेव बालकेभ्यो वाक्सिनदानस्य प्रख्यापनमभवत्।

ओमैक्रोण् व्यापने परिभ्रान्तिः मास्तु, जागरूकता भवेत्। सर्वे मुखावरणं धृत्वा, हस्तक्षालनादीनि अनुवर्तेरन् इति प्रधानमन्त्री उदबोधयत्।

प्रमाणपत्रवितरणम्।

इरिङ्ङालक्कुटा- नटवरम्प् सर्वकारीय आदर्शोच्चतरविद्यालये २०१९-२० वर्षे प्रचालिते अनौपचारिकसंस्कृतवर्गे भागं गृहीतेभ्यो प्रमाणपत्राणां वितरणं कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य प्राचार्यः तथा केन्द्रीय-रेल् विकास् निगमस्य निदेशकश्च डो एं वी नटेशवर्यः निरवहत्। ब्लोक् पञ्चायत् अध्यक्षा श्रीमती विजयलक्ष्मी विनयचन्द्रवर्या कार्यक्रमम् उदघाटयत्। पी टी ए अधमयक्षः अनिलन् आध्यक्ष्यमवहत्। प्रथमाध्यापिका बिन्दू ओ आर् भूतपूर्वः संस्कृताध्यापकः सुरेष् बाबू, वार्ड् अङ्गं मात्यू पारेक्काटन् प्रभृतयः भागमभजन्।