Monthly Archives: November 2021

पावनं जीवनं तव (भागः २१२) – 04-12-2021

EPISODE – 212

नूतना समस्या –

“पावनं जीवनं तव”

ഒന്നാംസ്ഥാനം

“സേവനേനൈവ മർത്യാണാം
ജീവനേ ശാശ്വതം യശ:
ഭാവനാലോലുപോ മാഭൂ:
പാവനം ജീവനം തവ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

संस्कृतविश्वविद्यालयस्य कुलपतिस्थानात् धर्मराज् अटाट्ट् वर्यः विनिवर्तते।

कालटी-श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य कुलपतिपदवीतः श्रीमान् धर्मराज् अटाट्ट् वर्यः अद्यः विरमते। गतेषु चतृषु वर्षेषु अस्य विश्वविद्यालयस्य अक्कागमिक-प्राशासनिकरंगयोः महाशयस्यास्य नेतृत्वे बहूनि प्रवर्तनानि निर्व्यूढानि। NAAC संस्थायाः A+ श्रेणी स्वायत्तीकृतः केरलस्य प्रथमः विश्वविद्यालयः भवत्ययम्।

सम्पूर्णतया अङ्कीयरूपेण अध्ययनमपि प्रथमम् अत्रैव भवति। अधिगमाधिष्ठिता पाठ्यपद्धतिरपि प्रथमतया अत्रैव आयोजिता।

एवं बहुरूपेण विश्वविद्यालयस्य औन्नत्ये बद्धश्रद्धोयं अद्य व्यरमत्। आङ्गले, मलयाले संस्कृते च आहत्य ४५ ग्रथाः अनेन रचिताः। ३०० परिमितानि लेखनान्यपि अनेन प्रकाशितानि।

अध्यापकः, प्रशासकः, साहित्यकारः, दार्शनिकः, समाजप्रवर्तकः इत्यादिषु रंगेषु अस्य योगदानम् अभवत्। पुनरपि एषु रंगेषु योगदानं विधातुं स शक्नुयात् इत्याशासे।

प्रश्नोत्तरम् (भागः २१२) – 04-12-2021

EPISODE – 212

 

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पुत्री – अम्ब ! —–बुभुक्षा  अस्ति। (क) महान्  (ख) महती  (ग) महत्
  2. माता – सुधे ! ——-त्वरा ? (क) किमर्थम्  (ख) कः  (ग) कुत्र
  3. पुत्री – मम विद्यालये वार्षिकोत्सवः ——-।(क) सन्ति (ख) स्तः (ग) अस्ति
  4. तत्र नाटकं,गीतं ,नृत्यं,भाषणम् इत्यादि कार्यक्रमाः ——। (क) अस्ति (ख) सन्ति (ग) अस्ति
  5. माता – भवती वार्षिकोत्सवे किं ——? (क) करोति  (ख) कुरुतः  (ग) कुर्वन्ति
  6. पुत्री – वृन्दगाने अहम् ——-। (क) अस्ति  (ख)  अस्मि  (ग) सन्ति
  7. बालकाः केवलं नाटके ——। (क) अस्ति  (ख) स्तः  सन्ति
  8. वयं बालिकाः  खो – खो क्रीडायाम् ——-। (क) स्मः  (ख) अस्ति  (ग) स्तः
  9. दौ  बालकौ विनोदनाटके ——-। (क) अस्ति  (ख) स्तः  (ग) सन्ति
  10. माता – —–खलु मम पुत्री । (क) निपुणः  (ख) निपुणौ  (ग) निपुणा

ഈയാഴ്ചയിലെ വിജയി

ADITHYA T

“അഭിനന്ദനങ്ങൾ”

बिच्चु तिरुमल दिवङ्गतः।

तिरुवनन्तपुरम्- प्रशस्तः कविः गानकारश्च बिच्चु तिरुमल वर्यः निर्यातः। स ८० वयस्कः आसीत्। तिरुवनन्तपुरस्थे निजीयचिकित्सालये अद्य प्रात एवास्य मृत्युरभवत्। हृदयाघातकारणात् चिकित्सायामासीत्।

चतुश्शताधिकानां चलच्चित्राणां कृते सहस्राधिकानि गानानि अनेन रचितानि। चलच्चित्रगीतानि भक्तिगीतानि चान्तर्भाव्य पञ्चसहस्राधिकानि गीतानि तस्य तूलिकया आविर्भूतानि। १९७० आरभ्य १९९० पर्यन्तं श्याम्, ए टि उम्मर्, जि देवराजन्, रवीन्द्रन्, इलयराजा इत्यादिभिः संगीतनिदेशकैः साकं बहूनि आस्वाद्यगीतानि अयं केरलीयेभ्यः प्रादात्।

बहवः पुरस्काराः अनेन अवाप्ताः।

मेडीसेप् अभिरक्षायोजनया सर्वकारः अग्रे गच्छति।

तिरुवनन्तपुरम्- सर्वकारीणसेवकानां तथा निवृत्तिवेतनग्राहकाणां च कृते मेडीसेप् नामिकया अभिरक्षायोजनया सह केरलसर्वकारः अग्रे सरति। निवृत्तिवेतनग्राहकाणां तथा सर्वकारीणसेवकानां च सूचनाः जालपुटे निरीक्ष्य संशोधयितुम् अधिकसूचनाः संयोजयितुं च डिसम्बर् २० पर्यन्तम् अवकाशः विहितः अस्ति।

पञ्च वर्षात् पूर्वम् घोषिता योजना इतः पर्यन्तं समारब्धुं न शशाक। ओरि।न्टल् इन्षूरन्स् इति सङ्घस्यैव अधुना योजनानिर्वहणे अनुमतिः लब्धा। पूर्वम् अनुमितः सङ्घः रिलयन्स् इन्षूरन्स् आसीत्। परन्तु समयालङ्घनकारणेन स सङ्घः उपबन्धसमर्पणात् निरुद्धः अभवत्। निर्णयममुं विरुध्य रिलयन्स् संघः उच्चन्यायालयम् अभ्युपगच्छत्। तथापि उच्चन्यायालयेन योजना न निरुद्धा इत्यतः योजनया सह अग्रे गच्छति।

न्यायालयस्य अन्तिमनिर्णयानुसारं जनुवरिमासे एप्रिल् मासे वा पद्धतिः समारब्धुं शक्यते इति सर्वकाराणां विश्वासः।

भूयात्ते सर्वमङ्गलम् (भागः २११) – 27-11-2021

EPISODE – 211

नूतना समस्या –

“भूयात्ते सर्वमङ्गलम्”

ഒന്നാംസ്ഥാനം

“നിത്യം ത്വം കുരു സത്കർമ
സത്യം ത്വം വദ സർവദാ
ഭദ്രം ത്വം ശ്രുണു കർണേഭ്യോ
ഭൂയാത്തേ സർവ്വമംഗലം”

ATHEETHA

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २११) – 27-11-2021

EPISODE – 211

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रदीपः – अरुण! भवतः गणितपुस्तकं ——-किम् ? (क) ददाति  (ख) ददासि  (ग) दद्मः
  2. अरुणः – भवान् किमर्थं ——नागतवान् ? (क) विद्यालयः  (ख) विद्यालयस्य  (ग) विद्यालयं
  3. प्रदीपः – मम अतीवशिरोवेदना आसीत् ।अतः शयनं ——- (क) कृतवती  (ख) कृतवान्  (ग) कृतवन्तः
  4. अरुणः – इतिहासपुस्तकं भवान् इतोSपि न ——-। (क) दत्तवान् (ख) दत्तवती  (ग) दत्तवन्तः
  5. प्रदीपः – श्वः सायङ्काले भवतः पुस्तकं ——-। (क) ददाति (ख) दत्तः  (ग) दास्यामि
  6. ज्योतिः – प्रदीप ! भवान् असत्यं ——किम् ? (क) वदामि (ख) वदति  (ग) वदामः
  7. श्वः भवान् बन्धुगृहं ———। (क) गमिष्यति (ख) गमिष्यामि  (ग) गमिष्यन्ति
  8. परश्वः  आगमिष्यति। कदा गणितं ——। (क) लेखिष्यामः (ख) लेखिष्यन्ति (ग) लेखिष्यति
  9. प्रदीपः – अहं ——-। (क) विस्मृतवती (ख) विस्मृतवान्  (ग) विस्मृतवन्तः
  10. परश्वः निश्चयेन पुस्तकं ——-। (क) दास्यामः  (ख) दास्यन्ति  (ग) दास्यामि

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”

कार्षिकनियमान् प्रत्याहरिष्यति इति प्रधानमन्त्री।

नवदिल्ली- विवादास्पदान् कार्षिकनियमान् प्रत्याहर्तुं केन्द्रसर्वकारः निरणयत्। राष्ट्रम् अभिसम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदीवर्यः कार्यमिदं सूचितवान्। गुरुनानाक् जयन्तीदिने एव इदं प्रख्यापनमभवत्।

कार्षिकप्रक्षोभे अनुवर्तमाने नियमप्रत्याहरणार्थं विधेयकम् आगामनि संसत्सम्मेलने लोकसभायां प्रस्तोष्यति। पञ्चाब् उत्तरप्रदेश् इत्यादिषु राज्येषु विधानसभानिर्वाचनम् आगम्यमानमस्ति। आस्यां भूमिकायाम् अयं निर्णयः प्राधान्यमर्हति।

च मू कृष्णशास्त्री भारतीयभाषाणाम् उन्नताधिकारसमितेः अध्यक्षः

।नवदिल्ली- भारतीयभाषाणाम् उन्नताधिकारसमितेः अध्यक्षत्वेन विख्यातः संस्कृतपण्डितःडो चमू कृष्णशास्त्रीवर्यः नियुक्तः। महाशयोयं प्रसिद्धः शिक्षाविचक्षणः तथा संस्कृतभाषायाः परिपोषणे निरतश्च भवति।

संस्कृत संवर्धनपरिषदः कार्यदर्शी तथा संस्कृतभारत्याः सह संस्थापकश्चायं महानुभावः संस्कृसम्भाषणप्रोत्साहनाय नितरां प्रवर्तमानो वर्तते।

संस्कृतप्रचाराय स्वस्य योगदानं परिगणयन् २०१७ तमे वर्षे भारतसर्वकारः महाशयमेनं पद्मश्रीपुरस्कारेण बह्वमन्यत।

वृथा मुह्यन्ति मानवाः(भागः २१०) – 20-11-2021

EPISODE – 210

नूतना समस्या –

“वृथा मुह्यन्ति मानवाः”

ഒന്നാംസ്ഥാനം

“അർഥാനാമാർജനം ഹാ ധിക്!
മൂർഖം കരോതി മാനവം
വിത്തസ്യ പൃഷ്‌ടതോ ഗത്വാ
വൃഥാ മുഹ്യന്തി മാനവാ: ”

Atheetha

“അഭിനന്ദനങ്ങൾ”