Monthly Archives: June 2021

प्रकृती हितदायिनी (भागः १९०) – 03-07-2021

EPISODE- 190

नूतना समस्या –

“प्रकृती हितदायिनी”

ഒന്നാംസ്ഥാനം

“അവനം പാണിനൈകേന
താഡനം ത്വപരേണ ച
രക്ഷത്യസ്മാൻ സ്വമാതേവ
പ്രകൃതീ ഹിതദായിനീ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम्। (भागः १९०) – 03-07-2021

EPISODE – 190

 

प्रश्नोत्तरम्।

 

 

 

 

  1. स्वागतकारिणी ——–स्वागतं करोति। (क) जनानां  (ख) जनैः  (ग) जनाः
  2. पण्डितः ——–रचनां करोति। (क) ग्रन्थाः  (ख) ग्रन्थैः  (ग) ग्रन्थानाम्
  3. वनपालकः ——–रक्षणं करोति। (क) वृक्षाणाम्  (ख) वृक्षैः  (ग) वृक्षाः
  4. ते  —— सम्मानं कुर्वन्ति। (क) नर्तक्यः  (ख) नर्तकीनाम्  (ग) नर्तक्याम्
  5. भारतीयाः ——-पूजां  कुर्वन्ति। (क) नद्यः  (ख) नद्याम्  (ग) नदीनाम्
  6. संस्कृभाषा ——–जननी। (क) भारतीयभाषाणाम्   (ख) भारतीयभाषा  (ग) भारतीयभाषाणायै
  7. गणेशः ——-अधिपतिः। (क) गणेषु  (ख) गणानाम्  (ग) गणैः
  8. बृहस्पतिः ——–गुरुः । (क) देवाः (ख) देवेषु  (ग) देवानाम्
  9. भवान् ——–वचनम् अनुसरतु। (क) ज्येष्ठानाम्  (ख) ज्येष्ठाः  (ग) ज्येष्ठेषु
  10. भवती ——- प्रक्षालनं करोतु। (क) पात्राणि  (ख) पात्राणाम्  (ग) पात्रेषु

ഈയാഴ്ചയിലെ വിജയി

RETHI SUBRAMANIAN

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Rethi Subramanian
  • Krishnakumaran T S
  • Adidev C S
  • Shaila Surendran

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

ओण्लैन् कक्ष्याणां कार्यक्षमतायै अध्यापकप्रशिक्षणेषु परिवर्तनं विधास्यति – शिक्षामन्त्री।

तिरुवनन्तपुरम्- विद्यालयेषु प्रवर्तमानान् ओण्लैन् अध्ययनकार्यक्रमान् फलप्रदान् कर्तुम् अध्यापकप्रशिक्षणेषु परिवर्तनानि आय़ोजयितुम् उद्दिश्यते इति शिक्षामन्त्री वि.शिवन् कुट्टीवर्यः अवदत्। के.एस्.टी.ए. इति अध्यापकसंघस्य  वूट्टिलोरु विद्यालयम्(गृहे एव विद्यालयः) इति पद्धत्याः राज्यस्तरीयम् उद्घाटनम् अङ्कीयोपकरणानां वितरणोद्घाटनं च विधास्यन् भाषमाणः आसीत् मन्त्रिवर्यः।

    सर्वेषां छात्राणाम् आधिजालिककक्ष्यायां भागं गृहीतुं अङ्कीयोपकरणालां लभ्यतायै यतते। अङ्कीयकक्ष्याणां न्यूनता अवगता। अध्यापकस्य छात्राणां च मध्ये मिथः आशयविनिमयम् आवश्यकं तदनुरूपेण अचिरादेव अङ्कीयकक्ष्या सक्षमा स्यात् इत्यपि मन्त्री अवदत्।

संगीतं हि परं वरम्- (भागः १८९) – 26-06-2021

EPISODE – 189

नूतना समस्या –

 

“संगीतं हि परं वरम्”

ഒന്നാംസ്ഥാനം

“താളമേളമനോരമ്യം
തന്ത്രീലയസമന്വിതം
ലോലരാഗവിലോലം ച
സംഗീതം ഹി പരം വരം”

Narayanan N

PRASNOTHARAM (भागः १८९) – 26-06-2021

EPISODE – 189

 

 

प्रश्नोत्तरम्।

 

 

 

  1. ———-स्नुषा सीता। (क) दशरथः  (ख) दशरथे  (ग) दशरथस्य
  2. ———श्वशुरः दशरथः। (क) सीतायाः  (ख) सीतायै  (ग) सीतया
  3. ——–जामाता रामः । (क) जनकः (ख) जनकस्य (ग) जनकेन
  4. ——–श्वश्रूः  मेना। (क) शिवः  (ख) शिवेन (ग) शिवस्य
  5. ——–पितामहः दशरथः। (क) लवस्य  (ख) लवे   (ग) लवेन
  6. ——–पितामही देवकी। (क) प्रद्युम्नेन  (ख) प्रद्युम्नस्य  (ग) प्रद्युम्ने
  7. ——–आवुत्तः वसुदेवः। (क) कंसे  (ख) कंसेन  (ग) कंसस्य
  8. ——-मातुलः शकुनिः। (क) दुर्योधनस्य  (ख) दुर्योधनेन (ग) दुर्योधने
  9. ——-विमाता सुरुचिः। (क) ध्रुवे  (ख) ध्रुवस्य  (ग) ध्रुवेन
  10. ——-स्यालः शकुनिः।(क) धृतराष्ट्रे  (ख) धृतराष्ट्राय (ग) धृतराष्ट्रस्य

ഈയാഴ്ചയിലെ വിജയി

Jayasree Subramanian

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Jayasree Subramanian
  • Bhavya N S
  • Adidev C S
  • Sanika Sajeev
  • Dawn Jose

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

कविः एस्. रमेशन् नायर् दिवंगतः।

तिरुवनन्तपुरम्- विख्यातः केरलीयकविः एस्. रमेशन् नायर् वर्यः कालयवनिकान्तर्गतः। स ७१ वयस्कः आसीत्। कोविड् बाधया चिकित्सायां तिष्ठन्नेव स निरगात्।

१९४८ मेय् ३ दिनाङ्के कन्याकुमारि जिल्लायां कुमारपुरे अयं भूजातः अभवत्। सरयूतीर्थं, अलकनन्द स्वातिमेघं, जन्मपुराणं, सूर्यहृदयं, अग्रे पश्यामि, वनमाला इत्यादि कवितासमाहाराः, नैकानि नाटकानि, बालसाहित्यं, तिरुक्कुरल्, चिलप्पतिकारं इत्यादीनां विवर्तनम्, च भवति महाशयस्यास्य रचनाः। शताधिकानां चलचित्राणां कृते गीतानि च असौ अरचयत्।

पुत्तेषन् पुरस्कारः, कवनकौतुकं पुरस्कारः, गुरु चेङ्ङन्नूर् स्मारक साहित्यपुरस्कारं च अयमलभत।
तिरुक्करल् विवर्तनस्य कृते तिरुवनन्तपुरं तमिल् सङ्घस्य उल्लूर् स्मारक पुरस्कारः, तमिल् नाटु सर्वकारस्य विशिष्टसाहित्यपुरस्कारश्च अनेन अवाप्तः।

ओण्लैन् कक्ष्या इतः परम् अनुस्यूता स्यात्, निर्धनानां छात्राणां कृते नूतनया परियोजनया सह मम्मूट्टी।

कोच्ची- पेशलदूरवाण्याः अभावेन अध्ययनं स्थगितानां छात्राणां कृते स्मार्ट-फोण् दानार्थं विख्यातः चलच्चित्रनटः मम्मूट्टीवर्यः काचन परियोदना समारब्धवान्। गृहेषु विना उपयोगं न्यस्ताः पेशलदूरवाण्यः सञ्चय्य इयं समस्या परिहर्तुं शक्यते इति तेन उक्तम्।

स्मार्ट फोण् विना पठितुमशक्ताः बहवः छात्राः भवेयुः। युष्माकं गृहे अधुना अनुपयुज्यमानाः पेशलदूरवाण्यः, टाब्लट्, अंगसंगणकः इत्यादयः तेभ्यः उपकारप्रदाः स्युः। विश्वे यत्र कुत्रापि स्थित्वा तानि प्रत्यर्पयितुं शक्यन्ते। तानि गुणभोकितृभ्यः प्रापयिष्यति नूनम् इति मम्मूटिट अवदत्।
एतानि स्पीड् आन्ट् सेफ् कोरियर् द्वारा प्रेषयितुं शक्यते। एतदर्थं प्रेषणमूल्यं न दातव्यम्। दातारः मोबैल् केयर् आन्ट् शेयर् कार्यालयं प्रति एतानी प्रेषयेयुः। ततः एतानि अवश्यानुसारं छात्रेषु वितरिष्यति।

चिन्ता तु मर्त्यवासना (भागः १८८) – 19-06-2021

EPISODE – 188

नूतना समस्या-

“चिन्ता तु मर्त्यवासना”

ഒന്നാംസ്ഥാനം

“ചിന്താ വിശേഷബുദ്ധേസ്തു
സഹായേനൈവ ജായതേ
താം വിനാ നരലോകോ ന
ചിന്താ ഹി ജന്മവാസനാ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

तया – इति संस्कृतचलच्चित्रम्।

केरलीय नम्पूतिरुकुलं बहोः कालात् सवर्णतायाः तद्वारा जातायाः सामाजिकसमस्यायाः च मुद्रणत्वेनैव सूचितम् आसीत्। तदानीं हीनाः अवगणिताः वा जीविताः भवन्ति तत्रस्थानां नारीणाम्।

गृहान्तर्भागे हुतं तासां जीवितं बाह्यलोकः नाजानत्।स्त्रीणां जीवनं सुसम्पन्नं भवेत् इति तीव्रया आशया एव वी.टी. भट्टतिरिप्पाट् प्रभृतयः तत्कुलजाः कुलनवीकरणार्थं परिश्रमं कृतवन्तः आसन्। तात्रिक्कुट्टी इति तत्कुलजा महिला स्मार्तविचारा कल्पिता इति इतिहाससम्भव एव।

नाटकं चलच्चित्रं प्रभृतिषु कलारूपेषु तात्रिक्कुट्टीति महिलायाः जीवनम् आविष्कृतं वर्तते। तस्याः जीवने स्वतन्त्रः व्यत्यस्तश्च वीक्षणकोणः तया इति चलच्चित्रे दृश्यवत्कृतः अस्ति। इतः पर्यन्तं श्रुत्वा पठित्वा च ज्ञातात् तात्रिक्कुट्याः जीवनात् भिन्नं भवति तया इति चलच्चित्रे। स्वबुद्धिसामर्थ्येन कुलान्तर्गतान् नीचान् सा पर्यत्यजत्। तस्याः प्रतिकारचिन्ता न केवलं तस्याः कृते अपि च स्वकुलान्तर्गतानां स्त्रीणां कृते आसीत्। समाजे उन्नतान् इति स्वयं अहंकृतं नम्पूतिरिकुलं स्त्रीणां प्रति सूचितं विवेचनं सामाजिकवैरुध्यमेव । तस्य वैरुध्यस्य मौलिकम् आविष्कारं भवति *तया* इति चलच्चित्रम्।

जी. प्रभा महोदयः कथा, पटकथा सम्भाषणं निदेशनं च निर्वहति। गोकुलं गोपालन् वर्यः निर्माता भवति। नेटुमुटि वेणुः, बाबु नम्पूतिरिः, नेल्लियोट् वासुदेवन् नम्पूतिरिः, दिनेश् पणिक्कर्, अनुमोल्, रेवती सुब्ह्मण्यं प्रभृतयः अभिनेतारश्च भवन्ति।

PRASNOTHARAM (भागः १८८) – 19-06-2021

EPISODE – 188

 

प्रश्नोत्तरम्।

 

 

 

 

  1. लक्ष्मणः ——–अनुजः। (क) रामः  (ख) रामे  (ग) रामस्य
  2. देवकी ——जननी । (क) कृष्णस्य  (ख) कृष्णेन (ग) कृष्णः
  3. रामः ——-नृपः। (क) अयोध्यायां  (ख) अयोध्यायाः (ग) अयोध्या
  4. शिवः ——पतिः। (क) पार्वती  (ख) पार्वत्यै  (ग) पार्वत्याः
  5. हस्तः ——अङ्गम्। (क) शरीरस्य  (ख) शरीरेण (ग) शरीरात्
  6. एतत् ——-द्वारम्। (क) गृहे  (ख) गृहस्य  (ग) गृहेण
  7. एतानि ——–चक्राणि। (क) यानस्य  (ख) याने  (ग) यानात्
  8. रावणः——–अग्रजः। (क) शूर्पणखा  (ख) शूर्पणखया (ग) शूर्पणखायाः
  9. एषा ——–लेखनी। (क) सौदामिन्याम्  (ख) सौदामिन्याः  (ग) सौदामिनी
  10. जवाहरः ——-जनकः। (क) इन्दिरायाः  (ख) इन्दिरायां (ग) इन्दिरायै

ഈയാഴ്ചയിലെ വിജയി

SANIKA SAJEEV

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ:

  • Sanika Sajeev
  • Bhavya N S
  • Jayasree SubramanianS

“പങ്കെടുത്തവ‍ർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”