Monthly Archives: July 2021

जलं दिव्यामृतं खलु (भागः १९२) 17-07-2021

EPISODE – 192

नूतना समस्या –

“जलं दिव्यामृतं खलु”

ഒന്നാംസ്ഥാനം

“അന്നസ്യാപേക്ഷയാ യസ്യ
മഹത്വം കീർത്യതേ ബുധൈഃ
നാമ്നാ ച ജീവനം തത്തു
ജലം ദിവ്യാമൃതം ഖലു ”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः १९२) – 17-07-2021

EPISODE – 192

 

प्रश्नोत्तरम्।

 

 

 

 

  1. एषः बालकः। ——नाम मोहनः। (क) एतस्य (ख) एतयोः (ग) एतेषाम्
  2. एषा बालिका। ——- नाम मोहिनी। (क) एतस्य  (ख) एतेषाम्  (ग) एतस्याः
  3. एतौ छात्रौ। ——- कार्यम् अध्ययनम्। (क) एतेषाम् (ख) एतयोः (ग) एतस्य
  4. एते अध्यापकाः।——-आचरणम् उत्तमम्।(क) एतस्य (ख) एतयोः (ग) एतेषाम्
  5. एताः परिचारिकाः।——– कार्यं सेवा। (क) एतासाम् (ख) एतयोः  (ग) एतस्याः
  6. एताः मधुमक्षिकाः। ——–कार्यं मधुसंग्रहः। (क) एतयोः  (ख) एतासां (ग) एते
  7. एतानि फलानि मधुराणि। ——–रसः मधुरः। (क) एते  (ख) एतयोः  (ग) एतेषाम्
  8. एषः गायकः। ——-नाम येशुदासः। (क) एतस्य (ख) एतेषाम् (ग) एतस्याः
  9. एतत् नगरम्। ——– नाम हरिद्वारम्। (क) एतस्याः  (ख) एतस्य  (ग) एते
  10. एतौ कृषकौ। ——–कार्यं कर्षणम् । (क) एतेषाम् (ख) एतस्य (ग) एतयोः

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങൾ”

भिषग्वरः डो. पी.के. वारियर् वर्यः दिवङ्गतः।

मलप्पुरम्- कोट्टक्कल् आर्यवैद्यशालायाः प्रबन्धकः तथा विख्यातः भिषग्वरश्च डो. पी.के. वारियर् वर्यः ब्रह्मभूयं प्राप। स १०० वयस्कः आसीत्। वार्धक्यसहजेन आमयेन विश्रामजीविते आसीदयम्। पद्मश्रीपुरस्कारेण आदृतश्चायम्।

पुरोहितः स्टान् स्वामीवर्य परलोकमगात्।

मुम्बै- भीमा कोरेगाव् व्यवहारे गृहीत्वा कारागारं नीतः ईशो सभा वैदिकः फा. स्टान् स्वामी वर्यः अस्माल्लोकान्निरगात्। स ८४ वयस्कः आसीत्। अद्य मध्याह्ने मरणं सञ्जातमिति स्टान् स्वामीवर्यस्य अभिभाषकः मुम्बै उच्चन्यायालयं बोधितवान्। तस्य प्रतिभूत्यावेदनं परिगण्यमाने आसीत् मृत्युवृत्तान्तः।

एल्गार् परिषत्तेन सह सम्बन्धमारोप्यैव मनुष्याधिकारप्रवर्तकोयं निगृहीतः। पार्किन्सण् इत्यामयेन पीडितस्य तस्य स्वास्थ्यावस्थां अपरिगणय्यैवासीत् तस्य निग्रहः। २०२० ओक्टूबर् मासतः कारायां बद्धस्यास्य स्वास्थ्यस्थितिः अधिकं सङ्कीर्णा अभवत्।

स्वास्थ्यस्थितिं परिगणय्य मुम्बै उच्चन्यायालयस्य निर्देशानुसारं तं मुम्बैस्थं होलिफामिलि चिकित्सालयं नीतमासीत्। अस्यान्तरे कोविड् बाधा अपि सञ्जाता। चिकित्सामध्ये हृदयाघातेन तस्यावस्था सङ्कीर्णा जाता, अनेन मरणमपि सञ्जातम्।

वर्षामेघा गताः किमु (भागः १९१) – 10-07-2021

EPISODE – 191

नूतना समस्या –

“वर्षामेघा गताः किमु”

ഒന്നാംസ്ഥാനം

“കർഷകാഃ ഭഗ്നചിത്താഃസ്യുഃ
തോഷോ തേഷാം തു നിർഗതഃ
ഹർഷായ ഹേതുഭൂതാസ്തേ
വർഷമേഘാഃ ഗതാഃ കിമു”

Narayanan N

प्रश्नोत्तरम्(भागः १९१)- 10-07-2021

EPISODE – 191

 

प्रश्नोतत्रम्।

 

 

 

 

  1. दिल्ली ——राजधानी। (क) भारते  (ख) भारतस्य (ग) भारतेन
  2. एतानि ——गृहाणि सन्ति। (क) कृषकाः (ख) कृषकेषु (ग) कृषकाणाम्
  3. एतानि ——पात्राणि सन्ति। (क) पाकशालायाः (ख) पाकशालायाम् (ग) पाकशालया
  4. मेघनादः ——पुत्रः। (क) रावणे (ख) रावणस्य (ग) रावणेन
  5. कृष्णः ——प्रियः। (क) पाण्डवानां । (क) पाण्डवैः (ग) पाण्डवेषु
  6. गङ्गा ——-पुण्यनगरी । (क) भारतीयः  (ख) भारतीयैः (ग)भरतीयानाम्
  7. मार्कण्डेयः ——–भक्तः। (क) शिवस्य  (ख) शिवेन (ग) शिवाय
  8. तत् मम ——–गृहम्। (क) मित्रे  (ख) मित्रेण  (ग) मित्रस्य
  9. सः ——-आराधकः। (क) ललितकलायाः (ख) ललितकलायां (ग) ललितकलासु
  10. एषा ——-नेखनी।(क) भगिन्या (ख) भगिन्याः  (ग) भगिन्याम् 

ഈയാഴ്ചയിലെ വിജയി

KRISHNAKUMARAN T S

“അഭിനന്ദനങ്ങൾ”

विश्वे एकमात्रस्य संस्कृतदिनपत्रस्य सम्पादकः के.वी. सम्पत् कुमार् दिवङ्गतः।

मैसूरु- मैसूरु नगरात् प्रकाशमानायाः सुधर्मा नामिकायाः संस्कृतदैनिक्याः सम्पादकः के.वी. सम्पत् कुमार् वर्यः दिवङ्गतः। हृदयाघातकारणात् मैसूरुस्थायां वसत्यामेव तस्यान्त्यं सञ्जातम्। स ६४ वयस्कः आसीत्।

संस्कृपत्रिकासम्पादनं परिगणय्य २०२० तमे वर्षे पद्मश्री पुरस्कारेण अयं समादृतः।

१९७० तमे वर्षे स्वपित्रा पण्डित् वरदराज अय्यङ्कार् वर्येण समारब्धा सुधर्मा विश्वे एकमात्रा संस्कृतदैनिकी भवति।