ओलिम्पिक्स् भारोद्वहनस्पर्धायां भारतस्य मीराबाय् चानु रजतपतकम् अवाप।

टोक्यो- १३० कोट्यधिकानां भारतीयानाम् अभिमानरूपेण ओलिम्पिक्स् क्रीडायां वनिता विभागे ४९ कि.ग्रां भारोद्वहने मणिप्पूर् देशीया मीराबाय् चानू रजतपतकमवाप्तवती। अनेन ओलिम्पिक्स् क्रीडायां भारतीयवनितानां श्रेष्टप्रशस्त्यै सा पात्रमभवत्।

क्रीडायाः प्रथमदिने भारतीयानां पतकलाभः इदम्प्रथमतया एव। तद्वत् ओलिम्पिक्स् क्रीडायां रजतपतकं प्राप्ता द्वितीयवनिता अस्ति मीरा। पूर्वं २०१६ रियो ओलिम्पिक्स् क्रीडायां बाट्मिन्टन् क्रीडायां पी.वी. सिन्धू रजतकमलं प्राप्तवती आसीत्। २००० वर्षे सिड्नी ओलिम्पिक्स् क्रीडायां कर्णं मल्लेश्वरी भारोद्वहने काचकमलं चावाप्तवती।

Leave a Reply

Your email address will not be published. Required fields are marked *