Daily Archives: July 14, 2021

केरले एस्.एस्.एल्.सी. परीक्षाफलं घोषितम्।

तिरुवनन्तपुरम्- २०२०-२१ अध्ययनवर्षस्य एस्.एस्.एल्.सी., टी.एच्.एस्.एल्.सी., ए.एच्.एस्.एल्. सी. परीक्षाणां परिणामः घोषितः। एस्.एस्.एल्.सी. परीक्षायां ९९.६ प्रतिशतं विजयः अस्ति।

कोविड् महामार्याः पश्चात्तले सर्वान् विघ्नान् अतिजीव्य अस्मिन् वर्षे एप्रिल् ८तः २९ पर्यन्तं परीक्षा प्रचलिता आसीत्। केरले, लक्षद्वीपे, गल्फ् मेघलायां च आहत्य २९४७ परीक्षाकेन्द्रेषु ४२२२६ छात्राः परीक्षार्थं पञ्जीकृताः, ४२१८८७ छात्राः परीक्षामलिखन् च। एषु २०६४३७ बालिकाः २१५४५० बालकाश्च भवन्ति। २००३३८ छात्राः मलयालं माध्यमे २१७९९२ छात्राः आङ्गलमाध्यमे २१५८ छात्राः कन्नटमाध्यमे १३९९ छात्राः तमिल् माध्यमे च परीक्षामलिखन्। निजीयविभागे ९९१ छात्राः सन्ति। कृपाङ्कदानं विनैव अस्मिन् वर्षे परीक्षापरिणामः घोषितः।