Monthly Archives: August 2020

“कथं मे श्रावणो भवेत्” (भागः १४६) – 29-08-2020

EPISODE – 146

नूतना समस्या-

“कथं मे श्रावणो भवेत्”

ഒന്നാംസ്ഥാനം

നാഥ! തേ പാദയോർനത്വാ
കഥാസ്തു പ്രോച്യതേ മയാ
വ്യഥാപൂരിതദേശേSസ്മിൻ
കഥം മേ ശ്രാവണോ ഭവേത് ?

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १४६) – 29-08-2020

EPISODE – 146

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सः सिंहः  ——-।(क) गर्जति   (ख) गर्जसि  (ग) गर्जामि
  2. एते मृगाः ——–। (क) धावामः  (ख) धावथ  (ग) धावन्ति 
  3. तौ वानरौ ——–। (क) आरोहथः  (ख) आरोहतः   (ग) आरोहावः
  4. ते बालिके ——–। (क) पश्यतः (ख) पश्यथः  (ग) पश्यावः
  5. सः धनिकः ——-। (क) यच्छामि  (ख) यच्छति  (ग) यच्छसि
  6. ते गायकाः  ——-। (क) गायन्ति (ख) गायामः  (ग) गायथ
  7. तौ युवकौ ——–। (क) तरथः  (ख) तरावः (ग) तरतः
  8. सः छात्रः ——-। (क) लिखति (ख) लिखसि (ग) लिखामि
  9. एतौ मयूरौ ——–। (क) नृत्यथः  (ख) नृत्यावः (ग) नृत्यतः
  10. एते महिले ——–। (क) पचथः  (ख) पचतः  (ग) पचावः

ഈയാഴ്ചയിലെ വിജയി

LEENA K S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • LEENA K S
  • ADITHYA T
  • SREESHA VINOD

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कोविड् व्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणविधेयम भविष्यति इति विश्व-स्वास्थ्य संघटना।

जनीवा- कोविड् रोगव्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणविधेयं भविष्यतीत्येव प्रतीक्षा इति विश्वस्वास्थ्यसंघटना नेता टेड्रोस् अथानों गेब्रियेसस् वर्यः अवदत्। 1918 तमे वर्षे व्यापितं स्पानिष् फ्लू नामकस्य आमयस्य शमनार्थं वर्षद्वयं यावत् प्रतिपालितम् इत्यपि तेन सूचितम्। परन्तु तदानीन्तनाम् अवस्थामपेक्ष्य अधुना तान्त्रिकविद्यायाः प्रभावेण रोगव्यापनम् अल्पेन कालेन रोद्धव्यमासीत् इत्यपि स अवादीत्।

     अधुना जनानां परस्परमेलनस्य साहचर्यम् अधिकं वर्तते इत्यतः विषाणुव्यापनस्य साध्यता अपि अधिका भवति। सममेव एतत् प्रतिरोद्धुं तान्त्रिकतासाध्यता अपि विश्वे वर्तते। राष्ट्रीयैक्यं तथा आगोल-ऐक्यदार्ढ्यस्य प्राधान्यमपि तेन पृथक् सूचितम्।

विद्यालयीयपाठ्यक्रमेषु अस्मिन् वर्षे न्यूनीकरणं न भविष्यति।

तिरुवनन्तपुरम्- २०२०-२१ अध्ययनवर्षे विद्यालयपाठ्यक्रमेषु न किमपि न्यूनीकरणम् आवश्यकमिति सार्वजनीनशिक्षामन्त्री प्रो.सी. रवीन्द्रनाथवर्यस्य आध्यक्ष्ये समुपविष्टस्य पाठ्यचर्या नियन्त्रणसमितेः निर्णयः। अधुना प्रचाल्यमाना अङ्गीयकक्ष्या अधिकफलप्रदरीत्या आयोजयिष्यति।

केन्द्रीय-राज्यसर्वकारयोः निर्णयमनुसृत्य विद्यालयानां पुनःप्रवर्तनसाध्यता परीक्षणीया इत्यपि समितिः निरदिशत्। कोविड्-१९ काले अङ्कीयाध्ययने केरलदेशः विश्वे आदर्शरूपेण वर्तते, अतः राष्ट्रे प्रथमस्थानमावहति इति मन्त्री अवदत्।

जालाधारितकक्ष्यायां कला-कायिकाभ्यासस्यापि स्थानं, भिन्नशेषिछात्राणां तथा गिरिवर्गछात्राणां च पठने विशेषपरिगणनां प्रदास्यति। कोविड् काले अनुस्यूतपठनाय प्रवर्तनपद्धतेः आसूत्रणार्थं द्विसप्ताहाभ्यन्तरे आवेदनं समर्पयितुं एस.सी.इ.आर्.टी. निदेशकं डो.जे. प्रसाद् वर्यं निरदिशत्। एतदर्थं विदग्धसमितिः रूपवत्करोति।

विख्यातः हिन्दुस्थानि संगीतज्ञः जस् राज् वर्यः दिवङ्गतः।

नवदिल्ली- हिन्दुस्तानि संगीते निष्णातः पण्डित् जस् राज वर्यः पञ्चत्वं प्राप। अमेरिक्कायां न्यूजेर्सी स्थले आसीत् तस्य अन्त्यम्। अयं पद्मविभूषणपुरस्कारेण आदृतः आसीत्।

     भारते विदेशेष्वपि सहस्रपरिमितेषु संगीतसंवेशनेषु संगीतमालपन् अयं आविश्वम् आराधकानां प्रियङ्करः अभवत्। हिन्दुस्थानि संगीते मेवाति घराना सम्प्रदाये अयं महाप्रतिभ- ासीत्। भारतस्य अन्तः बहिश्च निरवधिकानां संगीतविद्यालयानां स्थापकः अस्त्ययम्। सप्तर्षी चक्रवर्ती, रमेश् नारायण् प्रभृतयः तस्य शिष्यप्रमुखाः सन्ति।

     तबलावादकरूपेण अयं संगीतलोकं प्रव्वेश। अनन्तरं गानरंगे चिरप्रतिष्ठितः। हृदयाघातः एव मृत्युकारणम्। तस्य महाशयस्य वियोगे प्रधानमन्त्री नरेन्द्रमोदी अन्वशोचयत्।

जे.इ.इ. नीट् परीक्षयोः परिवर्तनं नास्ति। परिवरितनीयमिति आवेदनं सर्वोच्चन्यायालयेन निरस्तम्।

नवदिल्ली- अखिलभारतीय वैद्यकप्रवेशकपरीक्ष (नीट्) तथा तान्त्रिककलाशालप्रवेशिका जे.इ.इ इति द्वे परीक्षे परिवर्तनीये इत्यावेदनं सर्वोच्चन्यायालयेन निरस्तम्। छात्राणां भाविजीवनम् अपघाते पातयितुं न शक्यते इति निरीक्ष्यमाणः न्यायाधीशस्य अरुण् मिश्रावर्यस्य आध्यक्ष्ये आयोजितस्य संवेशनस्यैव अयम निर्णयः।

     सेप्तम्बर् मासे एव नीट् जे.इ.इ. परीक्षां सञ्चालयितुं केन्द्रसर्वकारस्य निर्णय आसीत्। कोविड् रोगस्य भूमिकायां परीक्षापरिवर्तनमाववश्यकमिति आवेदयन्तः एकादशछात्राः एव सर्वोच्चन्यायालयं प्रावन्।

     परीक्षा संचालनार्थं सर्वान् प्रयत्नान् जागरूकतया करिष्यति इति सर्वकारस्य प्राड्विवाकः न्यायालयं समवबोधयत्। सुरक्षानिर्देशं परिपाल्य परीक्षासञ्चालनार्थं सन्नद्धाः इत्यपि परीक्षायोगः न्यायालयं प्राबोधयत्।

मिलामि सज्जनैः समम् (भागः १४५) – 22-08-2020

 EPISODE – 145

नूतना समस्या-

“मिलामि सज्जनैः समम्”

ഒന്നാംസ്ഥാനം

“സജ്ജനാനാം തു സാന്നിധ്യം
സൗഭാഗ്യം ചാതിദുർല്ലഭം
തസ്മാദവസരേ തസ്മിൻ
മിളാമി സജ്ജനൈസ്സമം”

Narayanan N

“അഭിന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १४४) – 22-08-2020

EPISODE – 145

 

प्रश्नोत्तरम्।

 

 

 

 

  1. एषा गृहिणी ——। (क) अस्ति (ख) असि  (ग) अस्मि
  2. त्वं वृद्धः ——। (क) अस्मि  (ख) असि   (ग) अस्ति
  3. एताः बालिकाः  ——-। (क) स्मः  (ख) स्थ  (ग) सन्ति
  4. तौ वानरौ ——। (क) स्वः   (ख) स्तः   (ग) स्थः
  5. एतानि फलानि ——-। (क) सन्ति  (ख) स्थ  (ग) स्मः
  6. ——-पुष्पम् अस्ति । (क) एषा   (ख) एषः  (ग) एतत्
  7. —— गृहे स्तः । (क) एते  (ख) एतौ  (ग) तौ
  8. आवां बालिके ——–। (क) स्वः  (ख) स्थः  (ग) स्तः
  9. ——-छात्रौ स्थः । (क) आवाम्  (ख) तौ   (ग) युवाम्
  10. वयम् अत्र ——–।(क) सन्ति   (ख) स्मः   (ग) स्थ

ഈയാഴ്ചയിലെ വിജയി

HARIKRISHNAN P S

“അഭിനന്ദനങ്ങള്‍”

भारतं जयताच्चिरम् – विजयन् वि पट्टाम्बी।

भारतं जयताच्चिरम्।
——— – – – – – – –
सर्वदेशेषु सम्बुद्धं
सर्वलोकेषु विश्रुतम् ।
सर्वलोकसमाराध्यं
भारतं जयताच्चिरम् ।। 1

स्वरुचिं साधु संवर्ध्य
साधुभावं प्रकाश्य च ।
स्वान्तं शान्तिसंयुक्तं
भारतं जयताच्चिरम् ॥ 2

स्वायत्तं वर्धितं वीर्यं
स्वायत्तं जनमण्डलम् ।
स्वरभेदं विना चैत –
द्भारतं जयताच्चिरम् । । 3

योगविद्यां प्रसार्यात्र
सर्वलोकेषु च पुनः ।
सर्वचित्तानि संयम्य
भारतं जयताच्चिरम् ॥ 4

स्वायत्तीकृत्य तन्त्राणि
संलक्ष्य शत्रुविक्रमान् ।
संसेव्य रणतन्त्राणि
भारतं जयताच्चिरम् ॥ 5

संलक्ष्य साधु व्याधिध्ना –
नौषधानपि सत्वरम् ।
निहत्य व्याधिजालं त –
द्भारतं जयताच्चि२म् ॥ 6

संसेव्य संस्कृतं नित्यं
सर्वलोकोपकारकम् ।
सर्वान् ज्ञानेन सत्कृत्य
भारतं जयताच्चिरम् ॥ 7

स्वाधीनस्य सुखञ्चान्य –
दन्यैषा चात्मनिर्वृतिः ।
स्वाधीनं सर्वतोभद्रं
भारतं जयताच्चिरम् ॥ 8
– – – – – – – – – – – – –

कोविड् योद्धृृृन् प्रति राष्ट्रं विधेयत्वं समर्पयति- राष्ट्रपतिः।

कोविड् योद्धृृृन् प्रति राष्ट्रं विधेयत्वं समर्पयति- राष्ट्रपतिः।

नवदिल्ली- कोविड् महामारी आविश्वं मानवजीवनं क्लेशकरमकरोदिति राष्ट्रपतिः रामनाथ कोविन्द् वर्यः अवदत्। स्वतन्त्रतादिवसमालक्ष्य सन्देशं ददन् भाषमाण आसीत् राष्ट्रपतिः। कोविड् प्रतिरोधाय बद्धकक्षेभ्यः आरोग्यपिरवर्तकेभ्यः स कृतज्ञतां व्याहरत्।

अस्मिन् वर्षे स्वतन्त्रतादिवसस्याचरणं भिन्नया रीत्या वर्तते। मारकः विषाणुः मानवजीवनाय भीषा जातः। जीवनस्य सर्वेषु मण्डलेषु अन्तरायश्च सञ्जातः। अस्मिन् साहचर्ये एव वयं स्वतन्त्रतादिवसम् आचरामः। रोगस्य तीक्ष्णतां न्यूनीकर्तुं बहून् मृत्योर्वक्त्रात् त्रातुं च वयं शक्ताः अभवाम।

वैविध्ययुक्ते भारते असाधारणेन परिश्रमेणैव वयं रोगप्रतिरोधार्थं शक्ताः जाताः। प्रादेश्कं साहचर्यं ज्ञात्वं तदनुसारं प्रवर्तितुं राज्यसर्वकाराश्च सज्जाः अभवन्। वन्दे भरत दौत्यद्वारा विश्वस्य विभिन्नभागेभ्यः प्रवासिभारतीयाः अत्रानीताः।

कोविड् बाधया जीवसन्धारणं स्थगितानां जनानां कृते प्रधानमन्त्री गरीब् कल्याण् योजनाद्वारा साहाय्यमदात्। स्वतन्त्रता संग्रामे महात्मागान्धिनः अनुचरा‌ वयं भाग्यवन्त एव इत्यपि राष्ट्रपतिः अवोचत्।