Monthly Archives: November 2019

महान् हिमपातः, काश्मीरे मृतानां संख्या नव जाता।

श्रीनगरम्- काश्मीरे महान् हिमपातः अनुवर्तते। द्वयोः घटनयोः एतावता नव जनाः मृताः इत्यावेदयति। सैन्याय सामग्रीं प्रापयन्तौ प्रदेशवासिनौ द्वावपि मृतेषु अन्तर्भवतः। महान् हिमसंघातः स्खलतः सन् एषाम् उपरि फतन् आसीत्। कुप्वुवारा पोस्ट् समीपं गुरुवासरे प्रातः आसीत् एषा घटना।

     वैद्युतिसम्बन्धिषु वृत्तिषु  व्यापृतः ऊर्जविकासविभागस्य परीक्षकः तथा वृक्षपातेन एकः यात्रिकश्च मृतः। द्वौ सैनिकौ यानापघाते मृतौ। मृतानां परिवारेभ्यः समाश्वास धनादेशः सर्वकारेण घोषितः

इन्फोसिस् संस्था अपि दशसहस्रं कर्मकरान् उत्सारयति।

दिल्ली- राष्ट्रे द्वितीयं बृहत् सूचनातान्त्रिकविद्याप्रतिष्ठानम् इन्फोसिस् आख्यं स्वकीयान् कर्मकरान् उत्सारयितुमुद्यते। वरिष्ठ उपवरिष्ठतलयोः स्थितान् दशसहस्रपरिमितं कर्मकरानेव एवं उत्सारयति इति प्रतिष्ठानस्यास्य वृत्तान्तमुद्धृत्य राष्ट्रीयमाध्यमानाम् आवेदनमस्ति।

     वरिष्ठकर्मकरेभ्यः आरभ्य उपवरिष्ठपर्यन्तं दशप्रतिशतं कर्मकराः, तथा सहकारि उपसहकारितलयोः पञ्चप्रतिशतं कर्मकराः अपि एवं उत्सार्यन्ते। अपि च स्वयं वृत्तिं समाप्य गन्तुमपि अन्यान् बहून् कर्मकरान् उपादिशत्।

     राष्ट्रं बृहत्तमं आर्थिकमान्द्यं प्रति गच्छति इति आर्थिकविदग्दानां निरीक्षणानि याथार्थ्यं भवतीति इन्फोसिस् संस्थायाः अयं निर्णयः स्पष्टीकरोति।

राष्ट्रे सर्वेषु विद्यालयेषु विद्यालयपरिसरेषु च तुच्छद्रव्यभोज्यानि(जङ्क् फुड्) निरुद्धानि।

दिल्ली- तुच्छद्रव्यभोज्यानि स्वास्थ्यसमस्यानां कारणभूतानि इत्यवगमस्य पश्चात्तले राष्ट्रे विद्यालयेषु तत्परिसरेषु च एतेषां भोज्यानां निरोधः आयोजितः। इतः परं राष्ट्रे कस्मिन्नपि विद्यालये विद्यालयीयभोजनशालायां वा तुच्चद्रव्यभोज्यं नोपलभ्यते।

     विद्यालयानां 50 मीट्टर् परितः अपि एतेषां विक्रयः निरुद्धः। तुच्छद्रव्यभोज्यानां सूचनाफलकानि अपि विद्यालयानां परिधौ न प्रदर्शनीयीनि। केन्द्रीय-भक्ष्यसुरक्षा-मानक-अधिकृतस्थानम् इति संस्थायाः एवायमादेशः। एतदतिरिच्य गुलाब्, जमून्, चोले बट्टूरे, न्यूडिल्स्, मधुरोपदंशानि अपि न विक्रेतुं शक्नुवन्ति।

     कायिकोत्सवे तुच्छद्रव्यानां स्वतन्त्रविनिमयः तथा एतेषां सूचनाप्रदर्शनं च नानुमन्यते इति आदेशे सूचयति। एतादृशानां भोज्यानाम् उत्पादकसंघस्य सूचनाः विद्यालयाः न स्वीकुर्युः। आगामिनि मासे आदेशानुसारं निरोधस्य प्राबल्यं भविता।

शिक्षकाणां योग्यताविषये निर्णयः।

नवदिल्ली- 2030 वर्षाभ्यन्तरे विद्यालयीयशिक्षकाणां योग्यता अवरतः चतुर्वर्षीयः संयोजितशिक्षास्नातकः भवेत्। सर्वेष्वपि शिक्षकप्रशिक्षणकलालयेषु बहुवैज्ञानिकशिक्षायाः आधाररूपा चतुर्वर्षीया संयोजित बी.ए़ड्.  पाठ्यचर्या अपि भवेत्। तत्तद्विषये शिक्षासिद्धान्ते च द्विमुखबीरुददानरीतिरेव पाठ्यचर्यायां आविष्करणीया। नवीनशिक्षानाये एवेदं प्रतिपादितं वर्तते।

     समर्थानां छात्राणाम् आकर्षणाय धिषणावृत्तिः आविष्करणीया। त्रिवर्षीयबिरुदरीतेः स्थाने चतुर्वर्षीया बाच्चिलर् आफ् लिबरल् आर्ट्स् (बी.एल्.ए) पठनरीतेरपि आविष्करणाय अपि नायः सूचनां ददाति।

     बी.एल्.ए तथा स्नातकोत्तरपरीक्षायां च उत्तीर्णानां कृते एकवर्षीया बी.ए़ड्. पद्धतिरपि आविष्करणीया।

सज्जना: खलु वञ्चिताः(भागः १०४) – 09-11-2019

EPISODE – 104

समस्या –

“सज्जना: खलु वञ्चिताः”

ഒന്നാംസ്ഥാനം

കാരാഗൃഹാത് ബഹിർഗത്വാ
ശാസകാനാം തു രക്ഷണേ
ഘാതകാ: വിലസന്തശ്ചേത്
സജ്ജനാ: ഖലു വഞ്ചിതാ:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १०४) – 09-11-2019

EPISODE – 104

 

प्रश्नोत्तरम्।

 

 

 

  1. आर्यशूरेण विरचितं कथासाहित्यग्रन्थः कः ? (क) जातकमाला (ख) पञ्चतन्त्रम् (ग) कथासरित्सागरम्
  2. व्यासमहर्षेः पिता कः ? (क) नारदः  (ख) कृष्णः  (ग) पराशरः 
  3. “ज्ञानादेव तु कैवल्यम् ” कस्याः सर्वकलाशालायाः ध्येयवाक्यम् ? (क) कोषिक्कोट् (ख) कालटी (ग) कण्णूर्
  4. नवभारतस्य कर्ता कः ? (क) भासः (ख) मुतुकुलं श्रीधरः (ग) भरतमुनिः
  5. “अगच्छत् ” इत्यस्य लकारः कः ? (क) लट् (ख) लङ्  (ग) लुङ्
  6. यास्ककृते निरुक्ते कति अध्यायाः सन्ति  ? (क)३   (ख) ४   (ग) ५
  7. गान्धर्ववेदः  कस्य वेदस्य उपवेदः भवति  ? (क) ऋग्वेदस्य (ख) सामवेदस्य  (ग) अथर्ववेदस्य
  8. शिवस्य अवतारवर्णनपरं पुराणं किम्  ? (क) स्कन्धपुराणम्  (ख) गरु़डपुराणम्  (ग) लिङ्गपुराणम् 
  9. हृदयदर्पणस्य कर्ता कः? (क) भट्टनायकः (ख) लोल्लटः (ग) कुन्तकः
  10. मालविकाग्निमित्रे  कति  अङ्गानि सन्ति  ? (क) ४  (ख) ५   (ग) ६

ശരിയുത്തരങ്ങള്‍:

1. ജാതകമാല
2. പരാശര:
3. കാലടി
4. മുതുകുളം ശ്രീധര:
5. ലങ്
6. 3
7. സാമവേദസ്യ
8. ലിംഗപുരാണം
9. ബട്ടനായക:
10. 5

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

9ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SREESHA VINOD
  • Amritha M
  • Noyal Joseph
  • Manormani Gopalan
  • Vineetha Vijayan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

दिल्लीनगरं वातकपूरितमभवत्। एषा अवस्था नूनं श्वासकोशं बाधते। दील्ल्यां स्वास्थ्यापातस्थितिः घोषिता।

नवदिल्ली- सर्वोच्चन्यायालयस्य निर्देशानुसारं रूपीकृतस्य परिस्थिति-मलिनीकरण-नियन्त्रण-प्राधिकरणस्य अनुदेशो/यं यत् सुरक्षापरिधिमतिक्रान्तं मलिनवायुसान्निध्यं जनानां श्वासकोशं प्रत्यक्षतया बाधते इति। अतः दिल्लीनगरे राजधानीप्रदेशेषु च स्वास्थ्यापातस्थितिः घोषिता। कासादयः रोगाः जनाने बाधेरन् इति स्वास्थ्याधिकारिणः असूचयन्।

राजधान्यां ३७ वायुनिरीक्षणकेन्द्राणि सन्ति। सर्वेष्वपि अन्तरिक्षावस्था भीतिदा अस्ति।

दिल्ली वायुप्रकोष्ठा जाता इति दिल्ली मुख्यमन्त्री अरविन्द् केजरिवाल् वर्यः अवदत्।

केरलोत्पत्तिदिने मलयालभाषायां प्रधानमन्त्रिणः आशंसा।

नवदिल्ली- नवम्बर् मासस्य प्रथमदिवसः केरलस्य जन्मदिनं भवति। दिनेस्मिन् मलयाले आङ्गले च प्रधानमन्त्री केरलान् आशशंस। एवं हरियाणा, मध्यप्रदेशः, छत्तास्गढ् कर्णाटकम् इत्येतेषु राज्येषु अधिवसतः जनानपि प्रधानमन्त्री स्वकीयाम् आशंसां न्यवेदयत्।

केरलान् कर्णाटकान् च आङ्गले प्रान्तीयभाषायामपि आशशंस। इतरान् तत्तत् प्रान्तीयभाषायमेव तोषितवान् मोदीवर्यः।