शिक्षकाणां योग्यताविषये निर्णयः।

नवदिल्ली- 2030 वर्षाभ्यन्तरे विद्यालयीयशिक्षकाणां योग्यता अवरतः चतुर्वर्षीयः संयोजितशिक्षास्नातकः भवेत्। सर्वेष्वपि शिक्षकप्रशिक्षणकलालयेषु बहुवैज्ञानिकशिक्षायाः आधाररूपा चतुर्वर्षीया संयोजित बी.ए़ड्.  पाठ्यचर्या अपि भवेत्। तत्तद्विषये शिक्षासिद्धान्ते च द्विमुखबीरुददानरीतिरेव पाठ्यचर्यायां आविष्करणीया। नवीनशिक्षानाये एवेदं प्रतिपादितं वर्तते।

     समर्थानां छात्राणाम् आकर्षणाय धिषणावृत्तिः आविष्करणीया। त्रिवर्षीयबिरुदरीतेः स्थाने चतुर्वर्षीया बाच्चिलर् आफ् लिबरल् आर्ट्स् (बी.एल्.ए) पठनरीतेरपि आविष्करणाय अपि नायः सूचनां ददाति।

     बी.एल्.ए तथा स्नातकोत्तरपरीक्षायां च उत्तीर्णानां कृते एकवर्षीया बी.ए़ड्. पद्धतिरपि आविष्करणीया।

Leave a Reply

Your email address will not be published. Required fields are marked *