Monthly Archives: October 2019

PRASNOTHARAM – 19-10-2019 (भागः – १०१)

EPISODE – 101

 

प्रश्नोत्तरम्।

 

 

 

  1. पुराणानां संख्या —–। (क) १६  (ख) १७   (ग) १८
  2.  कविकुलगुरुरिति प्रसिद्धः कः? (क) कालिदासः (ख) वात्मीकिः (ग) वेदव्यासः
  3. अर्थगौरवम् ———। (क) भासः  (ख) भारविः (ग) माघः
  4. पदलालित्यम् ——–। (क) कालिदासः (ख) दण्डी (ग) भारविः
  5. नारायणीयम् ———। (क) मेल्पत्तूर् नारायणभट्टतिरि (ख) श्रीशङ्कराचार्यः (ग) श्रीनारायणगुरुः
  6. ध्वन्यालोकस्य कर्ता कः ? (क) आनन्दवर्धनः  (ख) अप्पय्यदीक्षितः (ग) वररुचिः
  7. नागानन्दं केन विरचितं भवति ? (क) श्रीहर्षेण  (ख) कालिदासेन (ग) माघेन
  8. शूद्रकस्य नाटकम् ———। (क) स्वप्नावासवदत्तम् (ख) मृच्छकटिकम् (ग) अभिज्ञानशाकुन्तलम्
  9. अष्टाध्यायी ———-। (क) पाणिनिः (ख) पतञ्जलिः (ग) भासः
  10. बुद्धचरितम् ———-। (क) अश्वघोषः  (ख) बाणभट्टः  (ग) शूद्रकः

ഈയാഴ്ചയിലെ വിജയി

Aswathy Vidyadharan

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Aswathy Vidhyadharan
  • Sreehar M R
  • Rajani M
  • Sreedurga E V
  • Archana K V
  • Jayalakshmi C R
  • Divyachithran N V
  • Dawn Jose
  • Thrisha N

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

शान्त्यर्थं विहितः नोबल् पुरस्कारः एत्योप्या प्रधानमन्त्रिणे आबि अहमेमद् अलि वर्याय।

स्टोक्होम्- शान्त्यै विहित‌ाय नोबल् पुरस्काराय २०१९ तमे वर्षे एत्योप्यायाः प्रधानमन्त्री आबि अहम्मद् अलि वर्यः अर्हो अभवत्। एरित्रिया राष्ट्रेण सह सीमाबन्धविषये आबि अहम्मद् अलि वर्यस्य निर्णय एव तं पुरस्काराय अर्हमकरोत्।

शान्तिं विश्वसहकारितां च आप्तुं तेन कृतः परिश्रमः, तत्रापि एरित्रिया इति प्रातिवेशिकराष्ट्रेण सह सीमासम्बन्धिनि विषये स्वीकृतः निर्णयश्च पुरस्कारपरिगणनाविषयौ जातौ।

विख्यातः साक्सोफोण् वादकः कद्रि गोपालनाथः दिवंगतः।

मङ्गलूरु- साक्सफोण् इति सङ्गीतोपकरणे निष्णातः कद्रि गोपाल नाथवर्यः दिवंगतः। मंगलूरुस्थे निजीयचिकित्सालये एवास्य वियोगः अभवत्। कानिचन दिनानि यावत् चिकित्सायामासीत्। अस्य पुत्रः मणिकण्ठ कद्रि संगीत निदेशको भवति।

     नागस्वरविद्वान् तानियप्पा  गङ्गाम्मा चास्य पितरौ। १९५० तमे वर्षे मंगलूरु समीपस्थे मित्तिकेरे ग्रामे आसीदस्य जन्म। बाल्ये एव सङ्गीताभ्यासे निरतः अयं मैसूरु प्रासादस्थं पटहसंघं दृष्ट्वा एव साक्सफोण् इति संगीतोपकरणे आकृष्टो जातः। एन् गोपालकृष्ण ऐय्यर् वर्यादेव अनेन साक्सफोण् वादनमभ्यसितम्।

     पाश्चात्य संगीतोपकरणं साक्सोफोण् कर्णाटकसंगीताय योग्यं कर्तुं दशकत्रयं यावद् अयमयतत। पद्मश्री पुरस्कारेण आदृत  आसीदयम्।

साहित्यमण्डले नोबल् पुरस्काराः घोषिताः।

स्टोक् होम्- २०१८, २०१९ वर्षयोः साहित्य नोबल् पुरस्काराः घोषिताः। २०१८ वर्षस्य पुरस्काराय पोलिष् लेखिका ओल्गा टोगार् चुक् तथा २०१९ वर्षस्य कृते ओष्ट्रियन् लेखकः पीट्टर् हान्ड्के च अर्हावभूताम्।

आर्थिक अत्याचारेण लैङ्किकारोपणेन च २०१८ वर्षस्य साहित्यपुरस्कारः न घोषितः आसीत्। अत एव वर्षद्वयस्य पुरस्कारौ अधुना घोषितौ।

२०१८ वर्षस्य मान् बुक्कर् पुरस्कारजेत्री भवति ओगा टोगार् चुक्। अस्याः कृतयः बहुषु भाषासु विवर्तिताः वर्तन्ते। पठनकाले एव साहित्यमण्डले अपि विराजितः पीट्टर् हान्ड्के वर्यः बहूनां चलचित्राणां कृते पटकथाः अपि अलिखत्।

एयर् इन्ड्या निगममपि विक्रेतुं यतते। अचिरेण निर्णयः भविष्यति।

दिल्ली- राष्ट्रिय विमाननिगमः एयर् इन्ड्या नामकः अचिरेण निजीयः भविष्यति। निजीयरंगे एनं निगमं विक्रेतुं केेन्द्रसर्वकारः सन्नह्यते। निगमस्य सम्पूर्णाः प्रत्यंशाः एवं विक्रीयन्ते। एतदर्थं निर्णयपत्रम् अचिरेण बहिरानीयते। मन्त्रिसमितेः अनुमतिं प्रतीक्षते इति वित्तमन्त्रालयस्य कर्मकराः अवदन्।

     एयर् इन्ड्या निगमस्य सम्पूर्णं प्रत्यंशं विक्रीणाति चेत् १.०५ लक्षं कोटिरूप्यकाणि सर्वकारसमक्षम् आयान्ति। मार्च ३१ दिनाङ्कात् पूर्वं गतिविगतयः समाप्यते। प्रौद्योगिकसंघानां करन्यूनीकरणेन सर्वकारस्य १.४५ लक्षं कोटि रूप्यकाणां नष्टं समजायत। अस्य समीकरणार्थमेव अधुना एयर् इन्ड्याविक्रयणम् उद्दिष्टं सर्वकारेण।

     एवं विक्रयणार्थं रूपीकृतायाः समित्याः अध्यक्षः केन्द्रीय गृहमन्त्री अमित् षा वर्यः भवति। सेप्तम्बर् १९ दिनाङके आयोजिते समित्याः अधिवेशने एतत् सम्बन्धिनी चर्चा समजायत। धनमन्त्री निर्मला सीतारामन्, आभ्यन्तर विमानयातायातमन्त्री हर्दीप् सिंह् पुरी रेल्वे मन्त्री पीयूष् गोयल् इत्येते अपि समित्याम् अङ्कानि भवन्ति।

पी.टी. कुर्याक्कोस् वर्यस्य 130 तमः जन्मदिनसमारोहः कुजवासरे पावरट्ट्याम्।

पावरट्टी – आजीवं देवभाषामुपासितवान्संस्कृतपण्डितवर्यः तथा राष्ट्रिय-संस्कृत-संस्थानमिति मानितविश्वविद्यालयस्य गुरुवायूर् परिसरस्य स्थापकश्च आसीत् पी.टी. कुर्याक्कोस् मास्टर् वर्यः। तेषां महात्मनां 130 तमं जन्मदिनं मानितविश्वव्द्यालयस्य आभिमुख्ये कुजवासरे पावरट्टी देशे आचर्यते।

     केन्द्रसर्वकारस्याधीनतायां प्रवर्तमानेषु 12 संस्कृतविद्यापीठेषु प्राचीनतायां द्वितीयस्थानमस्ति पावरट्टी संस्कृतविद्यापीठस्य। 110 वर्षात् पूर्वमेव कुर्याक्कोस् वर्यः विद्यापीठमिदं स्थापयामास। पुरनाट्टुकरायां पावरट्ट्यां च प्रवर्तमानम् इदं विद्यापीठं विविधधर्मावलम्बिनां छात्राणां सरस्वतीक्षेत्रं भवति।

     हैन्दवानां वेदभाषारुपं संस्कृतमधीत्य पुनः संस्कृतपाठनार्थं विद्यालयं संस्थाप्य संस्कृतमहाकलालयरूपेणास्य परिवर्तनमपि कृत्वा अनन्तरंस केन्द्रसर्वकाराय अमुं विद्यालयं दानं कृतवानयं महात्मा। महात्मनामेषां हृदयविशालतायै आधुनिकपरम्परा श्रद्धाञ्जलिमर्पयेत्।

     कुजवासरे प्रातः अष्ट्ववादने पावरट्टी तीर्थकेन्द्रस्थे कुर्याक्कोस् समाधिस्थले पुष्पार्चना ततः नववादने पावरट्टी कुर्याक्कोस् स्मृतिभवने अधिवेशनं च आयोजितम् इति विद्यापीठसंरक्षणसमितेः अध्यक्षः तोमस् पावरट्टीवर्यः अवदत्।

समस्या रसनिर्भरा – 12-10-2019 (भागः – १००)

EPISODE – 100

नूतना समस्या –

“समस्या रसनिर्भरा”

ഒന്നാംസ്ഥാനം

का वा निर्धारणे क्लिष्टा
कवीनां प्रियकामिनी।
कीदृशीयं नवा वाणी
समस्या रसनिर्भरा।।

Narayanan Namboothiri

“അഭിനന്ദനങ്ങള്‍”

 

अपराधान्वेषणचरित्रे असाधारणा घटना। मुख्यमन्त्री अन्वेषणसंघम् अभ्यनन्दयत्।

कोषिक्कोट्- कोषिक्कोट् जिल्लायां कूटत्तायि देशे दुरूहमरणानां कारणमन्विष्यमाणः आरक्षिदलः शीघ्रमेव आगस्कारिणं प्रक्यभिज्ञाय अपराधम् अावेदयत्। एतस्मिन् विषये मुख्यमन्त्री पिणरायि विजयन् वर्यः आरक्षिदलम् अभ्यनन्दयत्। एतत् अपराधान्वेषणचरिते असाधारणा घटना इति स अब्रवीत्।

कूटत्तायि देशे सञ्जाता एषा घटना वैभवरूपेण बहिरानीता इति व्यवहारविषये फेस्बुक् मध्ये स असूचयत्। अन्वेषणसंघस्थान् सर्वानपि स अभ्यनन्दयच्च।

PRASNOTHARAM – 12-10-2019

EPISODE – 100

 

प्रश्नोत्तरम्।

 

 

  1. आदिकविः ——–। (क) वेदव्यासः (ख) कालिदासः  (ग) वात्मीकिः
  2. महाभारतम् ———।(क) वात्मीकिः (ख) वेदव्यासः (ग) भासः
  3. रघुवंशम् ———। (क) भासः  (ख) भारविः  (ग) कालिदासः
  4. कालिदासः ———-। (क) किरातार्जुनीयम् (ख) कुमारसम्भवम् (ग) कागम्बरी
  5. नैषधीयचरितम् ———। (क) माघः (ख) कालिदासः (ग) श्रीहर्षः
  6. माघः ———। (क) किरातार्जुनीयम् (ख) शिशुपालवधम्  (ग) मेघसन्देशः
  7. किरातार्जुनीयम् ———। (क) भारविः  (ख) वेदव्यासः (ग) भासः
  8. सांख्यदर्शनम् ———–। (क) कणादः  (ख) कपिलः (ग) जैमिनिः
  9. गौतमः ——–। (क) न्यायदर्शनम् (ख) योगदर्शनम् (ग) वैशेषिकदर्शनम्
  10. वैशेषिकदर्शनम् ———-। (क) कपिलः (ख) कणादः (ग) गौतमः

ഈയാഴ്ചയിലെ വിജയി

MAHESH M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Mahesh M
  • Rajani M
  • Anjana M S
  • Maya P R
  • Archana K V
  • Greeshma
  • Sanika P S
  • Divyachithran
  • Sreehari M K

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

राष्ट्रे प्रथमं निजीयरेल्यानं सेवामारभत।

नवदिल्ली- लख्नौ-दिल्ली मार्गे राज्यस्य प्रप्रथमं निजीय रेल् यानं सेवामारभत। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथवर्यः एवास्य उद्घाटनमकरोत्। तेजस् एक्स्प्रस् इति नाम्ना एव निजीयरेल्यानसेवा। ऐ.आर्.सी.टी.सी. इति संस्थायाः निरीक्षणे एवास्य सेवां विधास्यति।

     शताब्दी एक्स्प्रेस् रेल् यानेभ्यः उन्नतश्रेण्यामेव तेजस् एक्स्प्रेस् सेवां करोति। कुजवासरादृते सर्वस्मिन् दिवसे अस्य सेवा भविष्यति। षट् होराः पञ्चदशनिमेषेन कालेन लख्नौतः एतद्यानं नवदिल्लीं प्राप्स्यति। आधुनिकाः सर्वाः सुविधाः अस्मिन् याने आयोजिताः वर्तन्ते। अचिरेण राष्ट्रे सर्वासु दिक्षु अस्य सेवा भविता।