Daily Archives: October 6, 2019

अपराधान्वेषणचरित्रे असाधारणा घटना। मुख्यमन्त्री अन्वेषणसंघम् अभ्यनन्दयत्।

कोषिक्कोट्- कोषिक्कोट् जिल्लायां कूटत्तायि देशे दुरूहमरणानां कारणमन्विष्यमाणः आरक्षिदलः शीघ्रमेव आगस्कारिणं प्रक्यभिज्ञाय अपराधम् अावेदयत्। एतस्मिन् विषये मुख्यमन्त्री पिणरायि विजयन् वर्यः आरक्षिदलम् अभ्यनन्दयत्। एतत् अपराधान्वेषणचरिते असाधारणा घटना इति स अब्रवीत्।

कूटत्तायि देशे सञ्जाता एषा घटना वैभवरूपेण बहिरानीता इति व्यवहारविषये फेस्बुक् मध्ये स असूचयत्। अन्वेषणसंघस्थान् सर्वानपि स अभ्यनन्दयच्च।

PRASNOTHARAM – 12-10-2019

EPISODE – 100

 

प्रश्नोत्तरम्।

 

 

  1. आदिकविः ——–। (क) वेदव्यासः (ख) कालिदासः  (ग) वात्मीकिः
  2. महाभारतम् ———।(क) वात्मीकिः (ख) वेदव्यासः (ग) भासः
  3. रघुवंशम् ———। (क) भासः  (ख) भारविः  (ग) कालिदासः
  4. कालिदासः ———-। (क) किरातार्जुनीयम् (ख) कुमारसम्भवम् (ग) कागम्बरी
  5. नैषधीयचरितम् ———। (क) माघः (ख) कालिदासः (ग) श्रीहर्षः
  6. माघः ———। (क) किरातार्जुनीयम् (ख) शिशुपालवधम्  (ग) मेघसन्देशः
  7. किरातार्जुनीयम् ———। (क) भारविः  (ख) वेदव्यासः (ग) भासः
  8. सांख्यदर्शनम् ———–। (क) कणादः  (ख) कपिलः (ग) जैमिनिः
  9. गौतमः ——–। (क) न्यायदर्शनम् (ख) योगदर्शनम् (ग) वैशेषिकदर्शनम्
  10. वैशेषिकदर्शनम् ———-। (क) कपिलः (ख) कणादः (ग) गौतमः

ഈയാഴ്ചയിലെ വിജയി

MAHESH M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Mahesh M
  • Rajani M
  • Anjana M S
  • Maya P R
  • Archana K V
  • Greeshma
  • Sanika P S
  • Divyachithran
  • Sreehari M K

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”