Daily Archives: October 20, 2019

मातृहस्तेन भोजनम् (भागः१०२) -26-10-2019

EPISODE – 102

नूतना समस्या –

“मातृहस्तेन भोजनम्”

ഒന്നാംസ്ഥാനം

पठनार्थं गतो दूर-
मीहते तनयस्सदा।
एकवारं गृहं प्राप्य
मातृहस्तेन भोजनम्।।

Muraleedhara Sarma A

“അഭിനന്ദനങ്ങള്‍”

 

पाकिस्थानधीनकाश्मीरे चत्वारि भीकरशिबिराणि भारतसैन्येन विशीर्णानि।

कुप्वारा- पाकिस्तानभुशुण्डिप्रयोगेन द्वयोः भारतसैनिकयोः मृत्योरनन्तरं भारतेन प्रतीकारः कृतः। पाकधीनकाश्मीरस्थानि चत्वारि भीकरशिबिराणि भारतसैन्यं व्यदारयत्। भारतं प्रति निलीय प्रवेष्टुं भीकराः प्रायततन्त। तदानीमेव भारतसैन्यस्य प्रत्याक्रमणम्। एवं चत्वारि केन्द्राणि व्यदारयत्।

     तङ्हर् क्षेत्रविपरीतदिशि संस्थितानि भीकरशिबिराणि प्रत्येव भारतसैन्यस्याक्रमणं संजातम्। अनेन पाकिस्ताने महान् नष्टः संजातः इति सैनिकवक्ता अवदत्।भारतस्याक्रमणम् अनुवर्तते इत्यपि सूचनास्ति।

PRASNOTHARAM (भागः १०२) – 26-10-2019

EPISODE – 102

 

प्रश्नोत्तरम्।

 

 

  1. वाग्भटेन विरचितः आयुर्वेदग्रन्थः कः ? (क) अष्टाङ्गहृदयम् (ख)चरकसंहिता  (ग) सुश्रुतसंहिता
  2. ” नभः स्पृशं दीप्तम्  ” कस्य दलस्य ध्येयवाक्यं भवति ? (क) आरक्षदलस्य (ख) जीवन् रक्षा दलस्य (ग) वायुसेनायाः
  3. उद्दण्डशास्त्रिणः प्रसिद्धा कृतिः ? (क) मयूरसन्देशः (ख) कोकिलसन्देशः (ग) मेघसन्देशः
  4. यास्काचार्येण विरचितः ग्रन्थः कः ? (क) ज्योतिषम् (ख) शिक्षा (ग) निरुक्तम्
  5. ” इदानीं त्वं गृहं गच्छ  ” अत्र अव्ययपदं किम् ? (क) इदानीम् (ख) त्वम् (ग) गृहम् 
  6. ‘ अरुन्धती ‘ कस्य पत्नी भवति ?  (क) वसिष्ठस्य (ख) विश्वामित्रस्य (ग) गौतमस्य
  7. ‘ पाञ्चजन्यं ‘ कस्य शङ्खः भवति ? (क) अर्जुनस्य (ख) भीमस्य (ग) श्रीकृष्स्य
  8. कति माहेश्वरसूत्राणि सन्ति ? (क) १२   (ख) १३ (ग) १४
  9. पालकाप्यमुनेः प्रसिद्धः ग्रन्थः कः ? (क) हस्त्यायुर्वेदः  (ख) चिकित्सामञ्जरी (ग) भूतविद्या
  10. वेदस्य हस्तमिति प्रसिद्धं वेदाङ्गं किम्  ? (क) शिक्षा (ख) कल्पम्  (ग) व्याकरणम्

ഈയാഴ്ചയിലെ വിജയി

Dr. Arun

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Dr. Arun
  • Kesavan S P
  • Anaswara Mohan
  • Divyachithran
  • Greeshma Francis
  • Archana K V
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”