Daily Archives: October 5, 2019

राष्ट्रे प्रथमं निजीयरेल्यानं सेवामारभत।

नवदिल्ली- लख्नौ-दिल्ली मार्गे राज्यस्य प्रप्रथमं निजीय रेल् यानं सेवामारभत। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथवर्यः एवास्य उद्घाटनमकरोत्। तेजस् एक्स्प्रस् इति नाम्ना एव निजीयरेल्यानसेवा। ऐ.आर्.सी.टी.सी. इति संस्थायाः निरीक्षणे एवास्य सेवां विधास्यति।

     शताब्दी एक्स्प्रेस् रेल् यानेभ्यः उन्नतश्रेण्यामेव तेजस् एक्स्प्रेस् सेवां करोति। कुजवासरादृते सर्वस्मिन् दिवसे अस्य सेवा भविष्यति। षट् होराः पञ्चदशनिमेषेन कालेन लख्नौतः एतद्यानं नवदिल्लीं प्राप्स्यति। आधुनिकाः सर्वाः सुविधाः अस्मिन् याने आयोजिताः वर्तन्ते। अचिरेण राष्ट्रे सर्वासु दिक्षु अस्य सेवा भविता।