राजस्थाने बृहद्वितानशालायाः भञ्जनेन १४ जनाः मृताः, बहवश्च रुग्णाः।

जयपुरम्- राजस्थाने बार्मर् स्थले बहती वितानशाला प्रभञ्ज्य पतिता। अनेन १४ जनाः मृताः अपघाते बहवो रुग्णाश्च सञ्जाता। रविवासरे मध्याह्नकाले आसीदपघातः।

बार्मरस्थे राणी बाट्टियानि मन्दिरे एकस्मिन् समारोहाभ्यन्तरे तत्समारोहस्य कृते निर्मिता शाला घोरवृष्ट्या वातेन च भूमावपतत्। अपघाते रुग्णानामवस्था गुरुतरा अस्ति। एते बलोत्रायां जोद्पुरे च चिकित्सालयं नीताः।

अपघातवार्तां श्रुत्वा वरिष्ठाः कर्मचारिणः जनप्रतिनिधयश्च तत्रागताः । तेषां नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।

अपघाते प्रधानमन्त्री अनुशोचनसन्देशं प्रैषयत्। रुग्णाः झटित्येव सुखं प्राप्नुयुः इति स आशशंस।

Leave a Reply

Your email address will not be published. Required fields are marked *