Monthly Archives: August 2018
केरलाय साहाय्यम् आवश्यकम्, केन्द्रसर्वकारः नायपरिवर्तनं कुर्यात् इति केन्द्रमन्त्री अल्फोऩ्स् कण्णन्तानम्।
तिरुवनन्तपुरम्- विदेशसाहाय्यस्वीकारविषये केन्द्रसर्वकारैः नायपरिवर्तनं करणीयमिति केन्द्रमन्त्री अल्फोन्स् कण्णन्तानं वर्यः अभ्यर्थयत्। प्रलयदुरितमनुभूयमानानां केरलानां विदेशसाहाय्यम् आवश्यकमेव। एतद्विषये इतरैः केन्द्रमन्त्रिभिः सह चर्चां विधास्यति इति स अवदत्।
लक्षपरमितानां जनानां पुनरधिवासार्थं प्रभूतं धनमावश्यकम्। विदेशसाहाय्य न स्वीकुर्युः इति नियमः मन्मोहन् सिंह् सर्वकारेण आनीतः। १४ वर्षाणि यावत् अयमेव नियमः अनुवर्तते। परन्तु केरलस्य कृते अस्मिन् नियमे परिवर्तनम् आवश्यकम्। केरलाय साहाय्यविषये प्रधानमन्त्रिणम् अभ्यर्थये इति स अवदत्।
केरलाय ७०० कोटि रूप्यकाणां साहाय्यं विधास्यति इति यु.ए.इ. सर्वकारेण सूचितमासीत्। परन्तु विदेशधनस्वीकारविषये प्रतिबन्धः अस्तीत्यतः केन्द्रसर्वकारेण तन्निरस्तमासीत्। एतद्विषये व्यापकः प्रतिषेधः प्रचलन्नस्ति।
गते शताब्दौ भारतेन अभिमुखीकृतः बृहत्तरः प्रलय एव केरलेषु सञ्जातः इति नासा संस्था।
नवदिल्ली- गते शताब्दौ भारतेन अभिमुखीकृतः महाप्रलय एव केरलेषु सञ्जातः इति नासासंस्था। गते सप्ताहे भारतेषु लब्धायाः वृष्टेः गणनाम् अपग्रथनं कृत्वैव नासायाः निगमनम्। एतत्सम्बन्धीनि उपग्रहे लब्धानि वीडियोचित्राणि नासा बहिरानयत्। जूलै १९तः आगस्त १८ पर्यन्तं लब्धानां वृष्टीनां रेखाङ्गनमेव एषु चलनचित्रेषु विद्यन्ते।
केरलेषु कर्णाटकेषु च प्रलयदृश्यानि व्यञ्जयन्ति उपग्रहचित्राणि। नासायाः जी.पी.एम्. आख्यः उपग्रहः एव एतानि चित्राणि बहिरानयत्। नासायाः तथा जक्सा नाम जपानशून्याकाशसङ्घस्य च संयुक्तसंरम्भ एव जी.पी.एम्.
जूलै २० दिनाङ्के आरब्धा वृष्टिः आगस्त् ८-१६ दिनाङ्केषु अतितीव्रा जाता। जूण् प्रारम्भ एव साधारणात् ४२ प्रतिशतम् अधिका वृष्टिः लब्धा। परम् आगस्त् मासे आद्येषु २० दिनेषु साधारणात् १६४ प्रतिशतम् अधिका वृष्टिः जाता।
४०० पर्यन्तं जनानां मृत्युः लक्षाधिकानां जनानां भवननष्टश्च अनेन प्रलयेन संवृत्तः। तथापि केन्द्रसर्वकारेण राष्ट्रियदुरन्तत्वेन परिगणना न दत्तम्, केवलं गुरुतरदुरन्तः इति रूपेणैव परिगणितम्।
पुण्यभूमौ बलिपेरुन्नाल् आघोषस्य धन्यतायां हज्ज् तीर्थाटकाः।
मक्का- पुण्यभूमौ मक्कादेशे बक्रीद् आघोषेण सह हज्ज् कर्मणः धन्यतायां तीर्थाटकाः। जंरायां प्रथमे दिने अश्मप्रक्षेपकर्मानन्तरं बलितर्पणमपि जातम्। ततः मक्कां प्रविश्य क-अबा प्रदक्षिणं सफा मर्वायां अटनं च समाप्य हज्ज् कर्मणः अर्धविरामो जातः। ततः नूतनवस्त्रं धृत्वा हाजिनः परस्परम् आश्लिष्य बक्रीद् आघोषे निरताः अभवन्। गल्फ् राष्ट्रेषु ह्यस्तने आसीत् बक्रीदाघोषः।
मुसदलिफातः सञ्चितेन प्रस्तरखण्डेन सह प्रातरारभ्य समायाताः तीर्थाटकाः पिशाचस्य प्रतीकरूपायां जंरायां प्रस्तरप्रक्षेपकर्मणि निरताः। प्रतिहोरं लक्षं जनेभ्यः एतदर्थं सुविधा सज्जीकृता आसीत्। तथा प्रतिराष्ट्रं प्रत्येकं सुविधाश्च सज्जीकृताः। अतः जनसम्मर्दः नानुभूतः। २४ लक्षं तीर्थाटकाः हज्ज् कर्म निर्व्यूढाः इति अधिकृताः असूचयन्।
केरलस्य कृते साहाय्यविषये ऐक्यराष्ट्रसभायाः प्रतिकरणम्।
नवदिल्ली- प्रलयदुरन्तम् अनुभूयमानाय केरलाय यु.एन्. साहाय्यविषये केन्द्रसर्वकारस्य सूचनं प्रति स्वाभिप्रायं प्रकटयन् ऐक्यराष्ट्रसभा रङ्गमागता। दुरन्तान् अभिमुखीकर्तुं केरलं शक्तं भवतीति ऐक्यराष्ट्रसंघेन सूचितम्। परन्तु अभ्यर्थितं साहाय्यं दातुं सभा सन्नद्धतां प्राकटयत्। केरलाय साहाय्यं स्वयम् उद्घुष्य ऐक्यराष्ट्रसभा रेड् क्रोस् प्रभृतयः राष्ट्रान्तरसंघटनां प्रत्येव साहाय्यं नावश्यकमिति केन्द्रसर्वकारः स्वाभिप्रायं व्यजिज्ञपत्। राष्ट्रिय दुरन्तनिवारण अधिकृतस्थानानां सूचनानुसारं आगोल संघानां साहाय्यं नावश्यकमिति दिल्ल्यां आशयविनिमये केन्द्रसर्वकारः असूचयत्।
एतस्मिन्नन्तरे ऐक्य अरब् एमिरेट्स् प्रभृतीनि सागरराष्ट्राणि केरलाय साहाय्यं कर्तु सन्नद्धतां प्राकटयत्। यु.ए.इ. ७०० कोटि रूप्यकाणां साहाय्यं प्राख्यापयत्। परन्तु एषां साहाय्यानां स्वीकारविषये केन्द्रसर्वकारस्य अभिप्रायः कः इति न व्यक्तं भवति।
प्रलयदुरितसमाश्वासप्रवर्ततनानां निर्वहणम् – राष्ट्रपतिः केरलराज्यं प्राशंसयत्।
नवदिल्ली- प्रलयदुरिते आप्लाव्यापि रक्षाप्रवर्तनेषु दुरित-समाश्वासप्रवर्तनेषु च केरलराज्येन प्रकटितां धीरतां राष्ट्रपतिः प्राशंसयत्। केन्द्र-राज्यसर्वकारयोः एकीभूय प्रवर्तनेन इदं साध्यमभवत्।
केरलानां कृते आराष्ट्रं जनानां सहयोगः भविष्यति इति स न्यगादीत्। तेन इदमपि निगदितं यत् केरलमुख्यमन्त्रिणं केरलराज्यपालं च दूरवाणीद्वारा असकृदाहूय केरलस्थाः स्थितिगतयः अवगताः इति। वर्षाप्रलयात् तरितुं एकीभूय तिष्ठतां केरलीयानां निश्चयदार्ढ्यं प्रशंसनीयमेव। रक्षाप्रवर्तनानाम् एकोपनं कुर्वद्भ्यः केन्द्रिय-दुरन्तनिवारण-सेनाभ्यः केन्द्र-राज्यस्तरीयेभ्यः कर्मकरेभ्यश्च स आशंसां व्याहरत्।
प्रलयप्रदेशे व्योमनिरीक्षणं कर्तुं प्रथानमन्त्रिणः उद्यमस्य प्रतिबन्धः, व्योमयानम् उड्डीय दशनीमेषाभ्यन्तरे प्रतिनिवृत्तम्।
तिरुवनन्तपुरम्- राज्ये प्रलयबाधितप्रदेशान् साक्षाद् द्रष्टुं ह्यः आगतः प्रथानमन्त्री नरेन्द्रमोदीवर्यः अद्य व्योमनिरीक्षणार्थं कोच्चीं प्रति प्रस्थितः अपि वातावरणक्षोभकारणेन स्वकीयात् दौत्यात् प्रतिनिवृत्तः।
कोच्ची रान्नी, चेङ्ङन्नूर्, आलुवा, पत्तनंतिट्टाप्रभृतिषु क्षेत्रेषु व्योमनिरीक्षणाय प्रातः सप्तवादने प्रधानमन्त्री प्रस्थितः आसीत्। परन्तु झंझावातः घोरवृष्टिश्च यात्रायां प्रतिबन्धत्वेन परिणतौ। केन्द्रमन्त्री अल्फोन्स् कण्णन्तानं, मुख्यमन्त्री पिणरायि विजयः, राजस्वमन्त्री ई. चन्द्रशेखरः मुख्यसचिव प्रभृतयः प्रधानमन्त्रिणम् अनुगच्छन्ति स्म।
प्रलये प्राणरक्षाप्रवर्तनानि अनुवर्तन्ते। अयुतसंख्यकाः जनाः इदानीमपि अभयमलभमानाः विविघेषु स्थलेषु सन्ति। व्योम-नाविक-स्थलसेनासैनिकाः रक्षाप्रवर्तने निरताः सन्ति। सममेव जानपदीयाः सन्नद्धप्रवर्तकाः धीवरसंघाश्च तेषां साहाय्यं कुर्वन्तःसन्ति। वृष्टिप्रलये इतः पर्यन्तं ३२५ जनाः मृताः इति मुख्यमन्त्री पिणरायि विजयः अवदत्।
वर्षाप्रलयमध्ये वल्गुप्रचारणम्- नियमव्यवहारः भवेत् – मुख्यमन्त्री।
तिरुवनन्तपुरम- महावृष्टिपातेन दुरितमनुभूयमानाना जनानां सान्त्वनाया यतमानेषु सत्सु समाजमाध्यमेषु व्याजप्रचारणं कुर्वतः जनान् विरुध्य कठिनान् नियमव्यवहारान् स्वीकरिष्यति इति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। एतादृशानि प्रचारणानि प्रत्यभिज्ञातुं जनाः प्रभवेयुः। यथार्थसूचनाः अनुगन्तुं समाजः सज्जः भवेदित्यपि स न्यगादीत्।
जनान् परिभ्रान्तान् क्रियमाणानि प्रचारणानि गौरवरूपेण पश्यति। मुल्लप्पेरियार् प्रभृतयःजलभन्धाः बलक्षयेन भग्नाः भविष्यन्तीति रूपेण प्रचारणं समाजमाध्यमेषु प्रचलन्ति। परन्तु एतेषां जलबन्धानां कापि हानिः न भवति इति मुख्यमन्त्री अवदत्।
भूतपूर्वप्रधानमन्त्री अटल् बिहारी वाजपेयीवर्यः दिवं गतः
नवदिल्ली- भूतपूर्वः प्रधानमन्त्री तथा भा.ज.पा. दलस्य वरिष्ठः नेता अटल् बिहारी वाजपेयीवर्यः दिवं गतः। स ९४ वयस्कः आसीत्। आमयपीडया कतिपयदिनानि यावत् दिल्ल्यां एयिंस् चिकित्सालये चिकित्सायामासीद् अयं वर्यः। २००४ तमे वर्षे प्रधानमन्त्रीपदवीतः विरमय्य अनारोग्यकारणात् निजीयरंगं त्यक्तवानयम्। ततः स्ववसत्यां विश्रान्तः सन् कालं निनाय।
१९२४ दिसम्बर् २५ तमे दिनाङ्के मध्यप्रदेशे ग्वालियोर् जनपदे अयं भूजातः। पिता कृष्णबिहारी वाजपायी माता कृष्णदेवी च। कान्पूर् विश्वविद्यालयात् राष्ट्रतन्त्रे स्नातकोत्तरबिरुदं सम्पाद्य नियमपठनार्थं प्रविष्टवानयम्। परन्तु पठनसमाप्तेः पूर्वं स्वतन्त्रतासंग्रामेण आकृष्टः। क्विट् इन्ड्या समरकाले अयं कारायां बद्धः आसीत्।
त्रिवारं भरतस्य प्रथानमन्त्रिपदम् अलंचकार अयं महाभागः। किन्तु लोकसभायाः सम्पूर्णे सत्रे एकवारमेव स तत्पदमूढवान्। १९९९-तः २००४ पर्यन्तमासीदयं कालघट्टः। ततः पूर्वं १९९६, १९९८ काले ह्रस्वकालं स प्रधानमन्त्रिपदे स्थितः आसीत्।
भारतरत्न, पद्मविभूषण् इत्यादिभिः राष्ट्रं तं समादरत्। राष्ट्रतन्त्रेण साकं साहित्ये अपि निष्णात आसीदयम्। हिन्दी भाषायां प्रसिद्धः कविरायीदयं महाभागः।
स्वतन्त्रता दिवसस्य शुभाशयाः
जलोपप्लवः- कोच्ची अन्ताराष्ट्रविमानपत्तनं शनिवासरं यावत् पिहितम्।
कोच्ची- मुल्लप्पेरियार्- इटुक्की-चेरुतोणी जलबन्धानाम् अनावरणेन कोच्ची प्रदेशे महान् जलोपप्लवः सञ्जातः। अनेन शनिवासरं यावत् कोच्ची अन्ताराष्ट्रविमानपत्तनं पिहितम्। प्रथानस्थलं जलपूरितमभवदित्यतः पिधातुं निर्णीतः। जलोपप्लवः नियनित्रणातीतः इति अधिकारिभिः निगदितम्। ह्यस्तनीयविज्ञापनानुसारम् अद्य मध्याह्ने द्विवादनपर्यन्तमासीत् नियन्त्रणम्। तत्तु इटुक्की चेरुतोणी जलबन्धौ अनावृतौ इत्यतः जाग्रताकारणादासीत्। अद्य तु विमानपत्तनं जलमयमभवत्। तत्र नियन्त्रकघटना आरब्धा दूरवाणी – ०४८४ – ३०५३५००, २६१००९४.