भूतपूर्वप्रधानमन्त्री अटल् बिहारी वाजपेयीवर्यः दिवं गतः

नवदिल्ली- भूतपूर्वः प्रधानमन्त्री तथा भा.ज.पा. दलस्य वरिष्ठः नेता अटल् बिहारी वाजपेयीवर्यः दिवं गतः। स ९४ वयस्कः आसीत्। आमयपीडया कतिपयदिनानि यावत् दिल्ल्यां एयिंस् चिकित्सालये चिकित्सायामासीद् अयं वर्यः। २००४ तमे वर्षे प्रधानमन्त्रीपदवीतः विरमय्य अनारोग्यकारणात् निजीयरंगं त्यक्तवानयम्। ततः स्ववसत्यां विश्रान्तः सन् कालं निनाय।

     १९२४ दिसम्बर् २५ तमे दिनाङ्के मध्यप्रदेशे ग्वालियोर् जनपदे अयं भूजातः। पिता कृष्णबिहारी वाजपायी माता कृष्णदेवी च। कान्पूर् विश्वविद्यालयात् राष्ट्रतन्त्रे स्नातकोत्तरबिरुदं सम्पाद्य नियमपठनार्थं प्रविष्टवानयम्। परन्तु पठनसमाप्तेः पूर्वं स्वतन्त्रतासंग्रामेण आकृष्टः। क्विट् इन्ड्या समरकाले अयं कारायां बद्धः आसीत्।

     त्रिवारं भरतस्य प्रथानमन्त्रिपदम् अलंचकार अयं महाभागः। किन्तु लोकसभायाः सम्पूर्णे सत्रे एकवारमेव स तत्पदमूढवान्। १९९९-तः २००४ पर्यन्तमासीदयं कालघट्टः। ततः पूर्वं १९९६, १९९८ काले ह्रस्वकालं स प्रधानमन्त्रिपदे स्थितः आसीत्।

     भारतरत्न, पद्मविभूषण् इत्यादिभिः राष्ट्रं तं समादरत्। राष्ट्रतन्त्रेण साकं साहित्ये अपि निष्णात आसीदयम्। हिन्दी भाषायां प्रसिद्धः कविरायीदयं महाभागः।

Leave a Reply

Your email address will not be published. Required fields are marked *