Daily Archives: August 7, 2018
कलैञ्जर् करुणानिधिः दिवंगतः।
पेरुवनं केरल लक्ष्मी संस्कृतविद्यालय: प्रत्यभिज्ञा प्रतिवार वार्ता।
तृशूर् – विद्यालये क्रियमाणानां पठननैपुणीनां बहिर्लोकप्रसारणय सर्वे अपि विद्यालयाः समुत्सुकाः भवन्ति। परं विघालयविशेषाणां प्रकाशनाय व्यत्यस्तः मार्गः एव स्वीकृतः वर्तते केरल लक्ष्मीविद्यालयेन। विघालयीय कार्यक्रमाणां प्रसरणाय संस्कृत भाषया प्रत्यभिज्ञा इति नाम्ना प्रातिवारवार्ता कार्यक्रमं सवैभव सञ्चालयन् वर्तते अत्रत्यः संस्कृताध्यापकः ओ.एस् राहुल्। प्रतिस्प्ताहं विद्यालये प्रवृत्तान् विशिष्टकार्यक्रमान् संगृहय youtube माध्यमेन प्रतिभप्ताहं प्रकाश्यते। विद्यालयीय छात्राः एव वार्तानां संग्रहणं , प्रकाशनं च निर्वहन्तः सन्ति इति विषयः अस्य श्रेष्ठतां वर्धयति। २०१७ वर्षस्य जुण् मासे एव आसीत् प्रत्यभिज्ञा इति youtube दलस्य समारम्भः। अधुना विद्यालयस्य छात्रा: रक्षाकर्तारश्च कार्यक्रमेणानेन संस्कृतकार्येषु विद्यालयकार्येषु च अत्यधिकम् उत्साहिनः सन्ति। शस्त्राभिवृध्या संस्कृताभिवृद्धिः इति महत्वपूर्णं लक्ष्यं हृदि निधाय एव अस्य संरम्भस्य समायोजनम्।
कालटिदेशे संस्कृतविश्वविद्यालयकुलपतीनां राष्ट्रस्तरीयसम्मेलनस्य शुभारम्भः।
कालटी- राज्यस्थानां संस्कृतविश्वविद्यालयकुलपतीनां पण्डितानां च राष्ट्रस्तरीयं मेलनं कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य मुख्यकेन्द्रे समारभत। सर्वकलाशाला रजतजयन्तीसमारोहस्य भागत्वेनैव द्विदिवसीयं मेलनम्।
संस्कृतपण्डितः तथा ज्ञानपीठविजेता च डो.सत्यव्रतशास्त्री सम्मेलनम् उदघाटयत्। श्रीशङ्कराचार्य-संस्कृतसर्वकलाशाला कुलपतिः डो. धर्मराज् अटाट्ट् वर्यः अध्यक्षः आसीत्। तिरुप्पति राष्ट्रिय-संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफ. वी. मुरलीधरशर्मा, ओडीषा कटक् जगद्गुरु कृपालु विश्वविद्यालयस्य कुलपतिः डो.एच् रामरत्नम्, हरिद्वार् संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफ. पीयूष् कान्त् दीक्षित्, रामटेक् कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य कुलपतिः डो. श्रीनिवास वर्खेटि, नाषनल् मिषन् आफ् मानुस्क्रिप्ट् निदेशकः डो. दीपक् त्रिपाठी, कालटी संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपती डो. एन्.पी. उण्णी, डो.जे. प्रसाद्, केरलकलामण्डलं कुलपतिचरः डो. के.जी. पौलोस् प्रभृतयः अभाषन्त।
कालटी विश्वविद्यालयस्य संगीतविभागच्छात्राणां गीतसपर्यया कार्यक्रमः आरब्धः आसीत्।
तालीपत्ररामायणानां प्रदर्शनं पुरारेखासंसक्षणशाला च।
तिरुवनन्तपुरम्- क्रौञ्चमिथुनयोरेकस्य वियोगे इतरस्य शोक एव रामायणरूपेण आगतः इति कविप्रसिद्धिः। रामस्य अयनमेव रामायणम्। रामस्य जीवितयात्रा प्रथमं काव्यरूपेण आविष्कृतवान् वाल्मीकिमहर्षिः। न केवलं भारते अपि तु समीपस्थानां राष्ट्राणां संस्कृतिषु रामकथायाः प्रबलं स्थानमस्ति। श्रीलंका टिबट्ट् इन्तोनेष्या लावोस् प्रभृतिषु राष्ट्रेषु रामकथायाः प्राभवं द्रष्टुं शक्यते। भारते अपि विभिन्नेषु प्रान्तेषु विभीन्नरूपेण रामायणमस्ति। वंगदेशे कृत्तिवासरीमायणम्, तेलुगु मलयालभाषातययोः अध्यात्मरामायणम्, तमिले कम्परामायणम्, हिन्द्यां तुलसीदासरामायणम् इत्यादीनि तेषु प्रसिद्धानि सन्ति।
केरलेषु प्रचुरप्रचारमस्ति अध्यात्मरामायणस्य। कुलीरमासे गृहेषु तस्यैव पारायणं भवति। तुञ्चत् रामानुजन् एषुत्तच्छन् इति मलयालभाषापितुः भाषानुवादरचनैव पारायणं कुर्वन्ति केरलीयाः। पूर्वस्मिन् काले रामायणस्य बहुस्वरता पालिता आसीत्।
राज्यपुरावस्तुविभागस्य अधीनतायां लब्धानां विविघानां रामायणानां तथा नारायलिखितानाम् अत्यपूर्वाणां ग्रन्थानां च प्रदर्शनं २०१८ आगस्त ८ तमे दिने भविता पुरावस्तु विभागस्य नालन्दाख्ये स्थले स्थितायां सिग्नेच्चर् इति शालायामेव प्रदर्शनमायोजितम्। नियमसभासामाजिक के.मुरलीधरन् वर्यः आध्यक्ष्यं निर्वक्ष्यति। पुरारेखाविभागमन्त्री कटन्नप्पल्लि रीमचन्द्रन् वर्यः प्रदर्शनम् उद्धाटयिष्यति। अस्मिन् समारोहे रामायणस्य कालिकी प्रसक्तिः इति विषये प्रोफ. वी. माधवन् पिल्ला वर्यस्य प्रभाषणमपि आयोजितम् वर्तते।