Monthly Archives: August 2018

अस्मिन् वर्षे सर्वकारीण-श्रावणणोत्सवकार्यक्रमान् प्राजहत् इति मुख्यमन्त्री।

तिरुवनन्तपुरम्- प्रलयदुरन्तस्य भूमिकायाम् अस्मिन् वर्षे सर्वकारस्य श्रावणोत्सवकार्यक्रमान् प्रजहाति इति मुख्यमन्त्री पिणरायि विजयन् वर्यः प्रावोचत्। आघोषार्थं विभिन्नानां विभागानां कृते उद्घोषितं धनं प्रलयदुरिताश्वासनिधौ निक्षिप्यते। दुरितबाधितेभ्य साहाय्यदानार्थं सर्वे दत्तमनस्काः भवेयुरिति स अब्रवीत्।

सर्वकारीण-निजीयसंस्थासु विद्यमानाः कर्मकराः द्विदिवसीयपरिमितं वेतनं दुरिताश्वासनिधये दद्युरित्यपि मुख्यमन्त्री अवोचत्। एवं दीयमानं धनं सेवनशुल्कं विना स्वीकर्तुं वित्तकोशाः निर्दिष्टाः सन्ति। जलेपप्लवेन राज्ये २०००० गृहाणि भग्नानि, १०००० कि.मी.पर्यन्तं रथ्याः विनष्टाः इत्यपि स निजगाद।

पूर्वतनलोकसभाध्यक्षः सोमनाथचाट्टर्जीवर्यः दिवंगतः।

कोल्क्कत्ता – भारतस्य पूर्वतनलोकसभाध्यक्षः सि.पि.एम् दलनेता च सोमनाथचाट्टर्जीवर्यः कोल्क्कत्तायां दिवंगतः। गतचत्वारिशद्दिननि यावत्  श्वासनिरुद्धतया चिकित्सालये तीव्रपरिचरणविभागे प्रविष्टः। असमराज्ये तेजपुरे लब्धजन्मनः अस्य पितरौ निर्मल चाट्टर्जी, बीनापाणीदेबी च। दशवारं लोकसभासदस्यत्वेन कर्मनिरतः आसीदयं जनायत्तवादी २००४ तः २००९ पर्यन्तं यु.पि.ए सर्वकारस्य लोकसभाध्यक्षप्राप्त्या आभारतं प्रसिद्धिमाप्तवान्। अस्य भार्या रेणू, अनुराधा अनुषिला च अपत्ये।

कनकधारा – आलपनम् श्रीविद्या।

स हि जातु गुरोः……

तमवोचत………..

विधिना खलु…….

इति दीनमुदीर…….

स मुनिर्मुरभित्….

अमुना वचनेन…

अमरस्पृहणीय…

नोबेल् पुरस्कृतः साहित्यकारः नेय्पालः दिवंगतः।

लण्टन् – सुप्रसिद्धः आगलेयसाहित्यकारः नोबेल पुरस्कारजेता च वि.एस् नेय्पालः(८५)  दिवंगतः। शनिवासरे लण्टन् नगरस्थायां स्वकीयवसत्यामेवासीदस्य मृतिः। भारजीयवंशजो∫यं  लिपिकारः २००१ तमे वर्षे साहित्यस्य कृते दीयमानेन नोबेलपुरस्कारेण आदृतः  भवति। अनेन त्रिंशदधिकाः ग्रन्था: रचिताः सन्ति। ‘इन् ए फ्री स्टेट्‘ नामकेन नोवल्ग्रन्थेन १९७१ तमे वर्षे बुक्कर् पुरस्कारः अपि अनेन स्वायत्तीकृतः। अयं ग्रन्थः विंशतितमशतकस्य महत्तमेषु १०० ग्रन्थेषु स्थानमवाप। १९९० तमे वर्षे ब्रिट्टीष् सर्वकारेण सर् स्थानमपि पुरस्कृतम्।

एवं रोदिति केरलम् – 25-08-2018

 

नूतना समस्या –

“एवं रोदिति केरलम्”

ഒന്നാംസ്ഥാനം

ദുര്‍ജ്ജനാഃ മത്സരഗ്രസ്താഃ
ജന്മലബ്ധാഃ മമോദരേ
പീഡാം കുുര്‍വന്തി മേ നിത്യ-
മേവം രോദിതി കേരളം

ഹരിപ്രസാദ് വി.ടി. കടമ്പൂര്

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 25-08-2018

 

    प्रश्नोत्तरम्।

 

 

 

  1. ———- सङ्कल्पकम्।(क) मनः (ख) हृदयः (ग) बुद्धिः
  2. कर्मणा यमभिप्रैति स ———–। (क) अपादानम् (ख) सम्प्रदानम् (ग) करणम्
  3. ” जाम्बवतीजयं ” कस्य महाकाव्यं भवति ? (क) व्यासस्य (ख) पाणिनेः (ग) कालिदासस्य
  4. सांख्यकारिकायाः कर्ता कः ? (क) गौतमः (ख) जैमिनिः (ग) ईश्वरकृष्णः
  5. भाष्यकारः कः ?  (क) पाणिनिः (ख) पतञ्जलिः (ग) कात्यायनः
  6. परिहासवचो ———। (क) शमः (ख) नर्मः (ग) विलासः
  7.  ———- पुष्पाणि । (क) तानि (ख) ते (ग) ताः
  8. ताः ———। (क) महिलाः (ख) बालकाः (ग) मित्राणि 
  9. योगशास्त्रे ———अङ्गाः सन्ति। (क) षड् (ख) सप्त  (ग)  अष्ट
  10. रामायणे   ———– काण्डानि सन्ति। (क) षड् (ख) सप्त  (ग)  अष्ट 

ഈയാഴ്ചയിലെ വിജയി

RANJITH R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍

  • RANJITH R
  • Sreelakshmi M R
  • Jyothish K A
  • Amrutha Jose
  • Adidev C S
  • Rajesh
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

केरले आपातकालीनघटनाः निरीक्षितुं केन्द्रिय गृहमन्त्री आगच्छति।

तिरुवनन्तपुरम्- केरलराज्ये दिवसान् यावत् अनुवर्तमानां महतीं वृष्टिं तत्सम्बन्धीन् जलोपप्लवांश्च साक्षादवगन्तुं केन्द्रीयगृहमन्त्री राजनाथसिंह् वर्यः केरलानागच्छति। रविवासरे एव राजाथसिंहस्य नेतृत्वे केन्द्रसंघस्य आगमनम्। प्रलयबाधितप्रदेशे संघस्य सन्दर्शनं भविता। आपातकालीनसाहाय्यं केरलाय दातव्यमिति केरलस्थाः सभासदस्याः गृहमन्त्रिणं न्यवेदयन्।

     सममेव केरलस्य कृते अवश्यं साहाय्यं दास्यति इति केन्द्रसर्वकारः समसूचयत्। प्रधानमन्त्री नरेन्द्रमोदीवर्यः दूरवाणीद्वारा मुख्यमन्त्रिणमाहूय स्थितिगतीः अवालेकयत्। अस्माकं प्रातिवेशिकौ तमिल्नाटु-कर्णाटकप्रदेशौ अपि साहाय्यम् उदघोषयताम्।

इटुक्की सेतौ जलसञ्चयः २३९९ पादाः सञ्जाताः। पिधानोन्नयनार्थं ट्रयल् रण् आयोजयितुम् उद्यमः।

तोडुपुषा- ४८ होराः यावत् अनवरतेन वृष्टिपातेन इटुक्की सेतौ जलसञ्चयः २३९९ पादाः जाताः ट्रयल् रण् आयोजयितुम् उन्नततलाधिवेशने निर्णयः। वृष्टिप्रदेशे वृष्टिः अनुवर्तते इत्यतः अद्य मध्याह्नात् पूर्वं जलसञ्चयः सम्भरणशोषीम् अतिगच्छेयुः। अत एव ट्रयल् रण् आयोजयितुं राज्य वौद्युतनिगमः सज्जो भवति। इटमलयार् सोतोः पिधानम् अद्य प्रातः पञ्चवादने उन्नीतमासीत्। अद्य ११ वादने इटुक्की चेरुतोणी सेतोः एकं पिधानम् उन्नीयते। प्रदेशवासिनः जागरूकाः भवेयुः इति वैद्युतविभागमन्त्री एं.एं. मणीवर्यः अवदत्।

कलैञ्जर् करुणानिधिः दिवंगतः।

चेन्नै- द्राविड मुन्नेट्र कषकं दलस्य अध्यक्षः तथा तमिल् नाटु राज्यस्य भूतपूर्वः मुख्यमन्त्री श्रीमान् एम्. करुणानिधिवर्यः दिवंगतः। चलनचित्रमण्डले चिरप्रतिष्ठः अयं विख्यातः पटकथाकारः आसीत्। वार्धक्यसहजेन आमयेन कावेरी चिकित्सालये चिकित्सायामासीत्। अद्य सायं ६.४० वादने आमयः मूर्छितः, तेन अन्यश्च जातः।

पेरुवनं केरल लक्ष्मी संस्कृतविद्यालय: प्रत्यभिज्ञा प्रतिवार वार्ता।

ओ.एस्. राहुल्।

तृशूर् –  विद्यालये क्रियमाणानां पठननैपुणीनां बहिर्लोकप्रसारणय सर्वे अपि विद्यालयाः समुत्सुकाः भवन्ति। परं विघालयविशेषाणां प्रकाशनाय व्यत्यस्तः  मार्गः एव स्वीकृतः वर्तते केरल लक्ष्मीविद्यालयेन। विघालयीय कार्यक्रमाणां प्रसरणाय संस्कृत भाषया प्रत्यभिज्ञा इति नाम्ना प्रातिवारवार्ता कार्यक्रमं सवैभव सञ्चालयन् वर्तते अत्रत्यः संस्कृताध्यापकः ओ.एस् राहुल्। प्रतिस्प्ताहं विद्यालये प्रवृत्तान् विशिष्टकार्यक्रमान् संगृहय youtube माध्यमेन प्रतिभप्ताहं प्रकाश्यते। विद्यालयीय छात्राः एव वार्तानां संग्रहणं , प्रकाशनं च निर्वहन्तः सन्ति इति विषयः अस्य श्रेष्ठतां वर्धयति। २०१७ वर्षस्य जुण् मासे एव आसीत् प्रत्यभिज्ञा इति youtube दलस्य समारम्भः। अधुना विद्यालयस्य छात्रा: रक्षाकर्तारश्च कार्यक्रमेणानेन संस्कृतकार्येषु विद्यालयकार्येषु च अत्यधिकम् उत्‍साहिनः सन्ति। शस्त्राभिवृध्या संस्कृताभिवृद्धिः इति महत्वपूर्णं लक्ष्यं हृदि निधाय एव अस्य संरम्भस्य समायोजनम्।