Daily Archives: August 26, 2018
प्रलयजले कालटी संंस्कृतविश्वविद्यालयस्य सर्वाः प्रमाणरेखाः विनष्टाः
कालटी – जलोपप्लवेन कालटिदेशस्थायाः श्रीशङ्कराचार्य-संस्कृतसर्वकलाशालायाः सर्वाः प्रमाणरेखाः विनष्टाः अभवन्। प्राशासनिक-प्रासादखण्डे जलाप्लावेनैव छात्राणां लब्धाङ्कपत्राणि प्रमाणपत्राणि प्रभृतीनि सर्वाणि प्रमाणानि विनष्टानि जातानि। विश्वविद्यालयस्य सर्वेषु प्रासादखण्डेषु जलोपप्लवः सञ्जातः।
बहूनि प्रमाणानि नष्टानि इत्यतः कोटिशानां संख्यानां नष्टः अभवदिति विश्विद्यालयस्य कुलपतिः डो. धर्मराज् अटाट् वर्यः अवदत्। विश्वविद्यालयस्य निम्नप्रदेशेषु समीपस्थात् केदारादेव जलमागतम्। जलौघप्रवाहवेगात् प्रधानप्रमाणानि प्रासादात् इतरस्थानं नेतुं समयः न लब्धः। रात्रौ जनाप्लावनपर्यन्तः जलसञ्चयः सर्वत्र व्याप्तः। छात्रावासः प्राशासनिकखण्डः तान्त्रिकखण्डः कूत्तम्पलः च जलेन पूरिताः। वाहनानि मुद्रणालयादीनि च जलाप्लावेन नष्टानि जातानि।
तान्त्रिकविभागस्य ग्रन्थालयः पूर्णतया निरुपयोगो जातः। विश्वविद्यालयसमुच्चये नैकोपि प्रासादः जलपूरणभिन्नः अस्ति। विनष्टाः रेखाः कथं पुनःप्राप्तुं शक्यते इत्यालोचनायामेव अधिकारिणः। विश्वविद्यालयस्य प्रवर्तनं पूर्वस्थितिं प्राप्तुं एकमासाधिकः समयः आवश्यकः इति कुलपतिः अवदत्।
धीवराः देवसम्मिताः – 01-09-2018
नूतना समस्या –
“धीवराः देवसम्मिताः”
ഒന്നാംസ്ഥാനം
देवभूमिरियं सत्यम्
के सन्ति तत्र देवताः၊
प्राणरक्षां प्रकुर्वन्तः
धीवरा: देवसम्मिताः၊၊
മുഹമ്മദ് മുസ്തഫ
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM – 01-09-2018
प्रश्नोत्तरम्।
- भवान् कति ————- कर्म कृतवान् ? (क) दुरितक्षेत्रस्य (ख) दुरितक्षेत्रेषु (ग) दुरितक्षेत्राणि
- सः —— दुरितक्षेत्रात् आगतवान् ? (क) किम् (ख) कुत्र (ग) कदा
- धीवराः धैर्येण रक्षाप्रवर्तनम् ———–। (क) अकरोत् (ख) अकुर्वन् (ग) अकुर्मः
- भेदभवनां विना सर्वे जनाः रक्षाप्रवर्तनेषु भागं ———–।(क) स्वीकृतवान् (ख) स्वीकृतवत्यः (ग) स्वीकृतवन्तः
- अस्मिन् वर्षे श्रावणोत्सववेलायां बहवः जनाः दुरिताश्वासकेन्द्रेषु ———-। (क) भवन्ति (ख) भवथ (ग) भवामः
- श्वः श्रावणपौर्णमी भविष्यति अतः संस्कृतदिनम् ————-। (क) आचरति (ख) आचरिष्यति (ग) आचरन्ति
- श्वः प्रभृति अहम् एकं संस्कृतवाक्यं ————। (क) लिखामि (ख) लिखिष्यामि (ग) लेखिष्यामि
- त्वं किम् ——–? (क) अखादः (ख) अखादम् (ग) अखादत्
- यूयं मम गृहे ——–। (क) वसन्तु (ख) वसत (ग) वसामः
- ——– संस्कृतं पठामः। (क) अहं (ख) त्वं (ग) वयं
ഈയാഴ്ചയിലെ വിജയി
ASWIN A.U.P.S MURIYAD
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്
- Abhilash A.U.P.S Muriyad
- Aswin A.U.P.S Muriyad
- Anandan Villupuram
- Lakshmi P S
- Anandhu M S
- Adidev C S
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”