विश्ववाणिज्यसंघात् अपैष्यति इति भीषया सह रोनाल्ड् ट्रम्प् वर्यः।

न्यूयोर्क- विश्ववाणिज्यसंघटनायाः(WTO) अपैष्यति इति अमेरिक्का राष्ट्रपतिः रोनाल्ड् ट्रम्प् वर्यः भीषां प्राकटयत्। अमेरिक्कां प्रति संघस्य असमीचीनम् उपगमं प्रतिषिध्यैव तस्यायमभिप्रायः। उपगमः न परिवर्तितश्चेत् नूनं संघात् बहिरागमिष्यति इति स अवदत्।

     आगोलवाणिज्यार्थं राष्ट्राणां परस्परम् औद्योगिकसमस्या परिहारार्थं च रूपवत्कृतं भवति विश्ववाणिज्यसंघटना। परन्तु अमेरिक्कां प्रति अस्य संघस्य उपगमः न समीचीनः इति ब्लूंवर्ग् न्यूस् इति वार्तामाध्यमस्य कृते दत्ते अभिमुखे ट्रम्प् वर्यः असूचयत्।

     विश्ववाणिज्यसंघस्य समस्यापरिहारन्यायालये प्राड्विवाकानां चयनात् अमेरिक्काराष्ट्रं परावर्तितमभूत्। अनेन विविधव्यवहारेषु विधिप्रख्यापने संघः प्रयासमनुभवति।

Leave a Reply

Your email address will not be published. Required fields are marked *