प्रलयदुरितमधिकृत्य अनुसन्धानं कर्तुं विदग्दसंघः आगच्छति।

तिरुवनन्तपुरम्- केरले संजातं प्रलयदुरितमधिकृत्य विपुलरूपेण अनुसन्धानं कर्तुं राष्ट्रिय-भौमशास्त्रानुसन्धान-केन्द्रात् वरिष्ठसंघः केरलानागच्छति। जलबन्धानाम् अनावरणेन सञ्जातान् प्रत्याघातानधिकृत्य भवेत् मुख्यं पठनम्। वृष्टिव्यापनात् पूर्वम् अनया संस्थया सूचना दत्ता आसीत्। वृष्टिः तथा जलबन्धे स्थितानां जलसञ्चयानां परिमाणमपि परिगणय्य अनुसन्धानं भविष्यति।

     एतदर्थं दशाङ्गयुक्तं संघम् अचिरेण नियोक्ष्यते। संघः आकेरलं पर्यटन् सूचनाः संचेष्यते। बृहती वृष्टिः तथा जलसञ्चयात् समायातःअप्रतीक्षितः जलपातश्च प्रलयस्य कारणमिति प्राथमिकं निगमनम्।

Leave a Reply

Your email address will not be published. Required fields are marked *