धीवराः देवसम्मिताः – 01-09-2018

 

नूतना समस्या –

“धीवराः देवसम्मिताः”

ഒന്നാംസ്ഥാനം

देवभूमिरियं सत्यम्
के सन्ति तत्र देवताः၊
प्राणरक्षां प्रकुर्वन्तः
धीवरा: देवसम्मिताः၊၊

മുഹമ്മദ് മുസ്തഫ

“അഭിനന്ദനങ്ങള്‍”

 

15 Responses to धीवराः देवसम्मिताः – 01-09-2018

  1. Jancy Davis says:

    സഹസ്രശാന്‍ ജനാന്‍ ശീഘ്രം
    രക്ഷയന്തോ ജലാദഹോ!
    ജനാശ്ച സാദരമൂചുഃ
    ധീവരാഃ ദേവസമ്മിതാഃ

  2. Adidev C S says:

    धिया जीवन्ति सामोदं
    मत्स्यान् बध्वा सकौशलम्।
    जीवस्य त्राणनात्प्रोक्ताः
    धीवराः देवसम्मिताः।।

  3. गंगाधरः विल्लुपुरम्। says:

    अहर्निशं यतन्तो ये
    जनाः यैश्च रक्षिताः।
    प्रथेयं झटिति जाता
    धीवराः देवसम्मिताः।।

  4. अश्वती लक्ष्मन्। says:

    മൂന്നാംസ്ഥാനം

    प्रलयाब्धौ निमग्नाः ये
    जनास्तु यैश्च रक्षिताः।
    अत एवोच्यते सद्भिः
    धीवराः देवसम्मिताः।।

  5. अपर्णा के एस् says:

    देवताः रक्षणे दक्षाः
    नराणामार्तवारिधेः।
    रक्षिताश्च जनाः यैस्ते
    धीवराः देवसम्मिताः।।

  6. विजयन् वि पट्टाम्बि। says:

    सत्कृताः सर्वकारेण
    ये जनाः सफलश्रमाः।
    लोकाः ब्रुवन्ति सामोदं
    धीवराः देवसम्मिताः।।

  7. വിജയന്‍ വി. പട്ടാമ്പി says:

    ധിയാ യൈഃ വര്യതേ മത്സ്യഃ
    സോfയം ധീവര ഉച്യതേ
    ജനരക്ഷണഹേതോസ്തേ
    ധീവരാഃ ദേവസമ്മിതാഃ

  8. ഡോ. മുരളി, സംസ്കൃതസര്‍വ്വകലാശാല, കാലടി says:

    രണ്ടാംസ്ഥാനം

    മഹാപ്രളയസന്ദര്‍ഭേ
    നൗകാഭിഃ സമമാഗതാഃ
    അനേകാന്‍ യ അരക്ഷന്ത
    ധീവരാഃ ദേവസമ്മിതാഃ

  9. वि माधवन् पिल्ला says:

    महाप्रलयकालेfस्मिन्
    नौकाभिरेत्य ते स्वयम्।
    प्राणिलक्षान्समारक्ष्य
    धीवराः देवसम्मिताः।।

  10. Dr.sunilkumar koroth says:

    प्रलयरक्षणे मग्नः

    धीरः वरः तथा च रा: ।

    ते हि संकथ्यते प्रौढैः

    धीवरा: देवसम्मिता : ॥

  11. अश्विनः कक्ष्या षष्ठी ए. यु. पि. एस् मुरियाट् says:

    जलेन क्लेशोनुभूताः
    मनुजा: ये संरक्षिताः।
    मनसि ते चिन्तयन्ति
    धीवराः देवसम्मिताः॥

  12. Muhammad musthafa says:

    ഒന്നാംസ്ഥാനം

    देवभूमिरियं सत्यम्
    के सन्ति तत्र देवताः၊
    प्राणरक्षां प्रकुर्वन्तः
    धीवरा: देवसम्मिताः၊၊

  13. Vishnu Narayan says:

    രണ്ടാംസ്ഥാനം

    अनाहूते वरं दातुं
    देवतुल्येन २ाक्यते।
    प्राणरक्षावरं दत्वा
    धीवराः देवसम्मिताः ॥

  14. Gireesh C R says:

    प्रलयान्ते महानौका
    रक्षतीति श्रुतं पुरा।
    तथा नौकामानयन्तः
    धीवराः देवसम्मिताः ॥

  15. Dr.Nidheesh Gopi says:

    प्रलये केरले मग्ने
    तत्र रक्षेति मानवाः।
    साह्यप्रदानबाहुभ्यां
    धीवराः देवसम्मिताः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *