Monthly Archives: April 2018
१२ – १६ वयस्काः बालिकाः किं न? बालपीडकेभ्यो मृत्युदण्डः इत्यध्यादेशे वयःपरिधिं विरुध्य महानटः कमलहासः।
चेन्नै- महानटः तथा मक्कळ् नीति मय्यम् इति दलस्य नेता च कमलहासः बालपीडकेभ्यो मृत्युदण्ड इति पोक्सो नियमस्य संशोधने वयः परिधिविषये विप्रतिपन्नः अस्ति। अस्मिन्नध्यादेशे वयःपरिधि १६पर्यन्तं भवेदिति स चेन्नैनगरे उक्तवान्।
गतदिने राष्ट्रपतिना अङ्गीकृते अध्यादेशे ऊनद्वादशवयस्कानामुपरि यदि पीडा जायेत तर्हि पीडकेभ्ये मृत्युदण्डः १२ तः १६ पर्यन्तं वयस्कानां पीडा जायेत चेत् पीडकेभ्ये आजीवं कारावासः इति रूपेण पोक्सो नियमे संशोधनमभवत्। अत्र वयः परिधिः ऊनषोडशवयः इति परिवर्तनं करणीयमिति कमलहासः संसूचितवान्।
प्रयत्नः सफलो भवेत् – 28-04-2018
नूतनी समस्या –
“प्रयत्नः सफलो भवेत्”
ഒന്നാംസ്ഥാനം
नवमाध्यमरङ्गेषु
जनचित्तप्रचोदकः।
नववाण्या कृतारम्भः
प्रयत्नः सफलो भवेत्।।
സംഗീത ശിവദാസ്
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM – 28-04-2018
प्रश्नोत्तरम्।
- ” विभावरी “इत्युक्ते – (क) सूर्यः (ख) रात्रिः (ग) प्रभातम्
- कुमारसम्भवे सर्गाः – (क) १६ (ख) १७ (ग) १८
- ——– पत्रम् । (क) एषा (ख) एषः (ग) एतत्
- ——– गच्छन्नासम् ।(क) अहम् (ख) सः (ग) त्वम्
- बालः ——— सह विद्यालयं गच्छति । (क) मित्रम् (ख) मित्रे (ग) मित्रेण
- राधा ———– वदति । (क) अम्बा (ख) अम्बाम् (ग) अम्बायाः
- माता ——— धनं ददाति । (क) भिक्षुके (ख) भिक्षुकाय (ग) भिक्षुकात्
- ते बालिके ———। (क) गच्छति (ख) गच्छतः (ग) गच्छन्ति
- भवान् किं ——— । (क) पठति (ख) पठामि (ग) पठसि
- मम ——– पञ्च जनाः सन्ति । (क) गृहस्य (ख) गृहात् (ग) गृहे
ഈയാഴ്ചയിലെ വിജയി
Sangeetha Sandeep , Ernakulam
“അഭിനന്ദനങ്ങള്”
ശരിയുത്തരമയച്ചവര്:
- Athulya K S
- Adidev C S
- Sreekumar mamangalam
- Ashiq Ibrahim
- Ananthu Subran
- Nandini Nandanam
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
मृगेषु सञ्चाल्यमानम् औषधपरीक्षणं मर्त्येषु, २१ ग्रामीणाः गुरुतरावस्थायाम्।
जयपुर्- औषधपरीक्षणविधेयाः २१ ग्रामीणाः गुरुतरावस्थायां जयपुर् चिकित्सालयं प्रवेशिताः। राजस्थानस्य चारु जनपदे निरक्षरेषु ग्रामीणेष्वेव वैदेशिकम् औषधऩिर्माणप्रमण्डलम् अनधिकृतरीत्या औषधपरीक्षणम् अकरोत्।
प्रायः मृगेष्वेव एतादृशं परीक्षणं प्रचलति। तत् प्रतिदिनं ५०० रूप्यकाणि दत्वा ग्रामीणेषु परीक्षितमस्ति। अस्य मासस्य १८ तमे दिनाङ्के परीक्षणमारब्धम्।औषधस्य सेवनात् परं ते मुग्धाः अभवन्निति वार्ता अस्ति।अतः प्रमण्डलं विरुध्य ते आवेदनं समर्पितवन्तः।
विषयं गैरवत्वेन पश्यति अन्विष्य आगस्कारिणं विरुध्य कर्शनः व्यवहारः भविष्यतीति आरोग्यमन्त्री कालिचरण् सरप् अवदत्।
सचिवालयं प्रति अनुवैद्यानां पथसञ्चलनम्।
तिरुवनन्तपुरम्- अनुवैद्यानां वेतनपरिष्करणविषये मन्दतां विरुध्य निजीयचिकित्सालयस्थाः अनुवैद्याः केरलसचिवालयं प्रति पथसञ्चलनम् आयोजयन्ति। ऐक्य अनुवैद्य सङ्घस्य (यु.एन्.ए)नेतृत्वे एव पथसञ्चलनम्। चेर्तलातः तिरुवनन्तपुरं पर्यन्तं भवति सञ्चलनं तद् अस्य मासस्य २४ तमे द्नाङ्के समारभ्यते। अनुवैद्यानां राज्यव्यापकं कर्मस्थगनमपि तस्मिन्नेव दिने भविता।
अनुवैद्येभ्यः अवरतः २०००० रूप्यकाणि वेतनत्वेन निर्णीतान्यासीत्। प्रख्यापनानन्तरम् अष्टमासे व्यतीते अपि तादृशः सर्वकारीणनिदेशः न प्रकाशितः एतदेव कर्मस्थगनस्य कारणम्। २४३ दिनानि यावत् ते प्रक्षोभं कुर्वन्ति स्म।
मेट्रो रेल् निलयस्य निकटे अट्टत्रययुक्तः प्रासादः प्रभञ्ज्य अपतत्। रेल्यानसेवनं भागिकतया निरुद्धम्।
कोच्ची- एरणातुलं कलूरे अट्टत्रययुक्तः प्रासादः निर्माणावस्थायामेव भग्नमभूत्। अपघाते मर्त्यानामपायो नास्ति। ह्यः रात्रौ दशनादने कलूर् मेट्रो निलयसमीपे एव प्रासादः पतित्वा भूमिमन्तर्गतः। अपघातेन मेट्रो सेवनं तात्कालिकतया अवसितम्। निकटस्थं रथ्यागतागतमपि तात्कालिकतया निरुद्धम्। सुरक्षाकारणेनैव सेवनभङ्गः अभवत्।
बालानां वाचनोत्सवस्य षार्जाराज्ये शुभारम्भः।
षार्जा- बालानां दशमवाचनोत्सवस्य षार्जायां समारम्भो/भवत्। दशदिनात्मिकायाम् अस्यां मेलायां नैके छात्राः भागं भजिष्यति। पुस्तकप्रदर्शनं विक्रयः तथा बालानां कृते बहवः कला-शास्त्रकार्यक्रमाः प्रतियोगिताश्च वाचनोत्सवस्य भागत्वेन आयोज्यमानाः सन्ति
ऐक्य-अारब एमिरेट्स् परमोन्नतसमित्यङ्गं तथा षार्जा भरणाधिकारी च षेय्ख् डो. सुल्तान् बिन् मुबम्मद् अल् खासिमि वर्यः एव एक्स्पो केन्द्रे अस्य कार्यक्रमस्य उद्घाटनं व्यदधात्। बालैः तेषां पुस्तकैश्च साकं बहुसमयं व्यतीतवान्।
कठ्वा विषयः राष्ट्रस्य अपमानकर इति राष्ट्रपतिः।
नवदिल्ली – कठ्वा विषयः अस्माकं राष्ट्रस्य अपमानकर इति राष्ट्रपतिः रामनाथकोविन्दः। किशोराणां सुरक्षा समाजस्य उत्तरदायित्वमस्ति। स्वतन्त्रताप्राप्त्यनन्तरं ७० वर्षाणि अतीतानि। तथापि ईदृशानां संभवानां प्रभावः राष्ट्रस्य अपमानभूता इत्यपि सः अभिप्रैति स्म। राष्ट्रे नीतिन्यायपरिपालनं भवतीति दृढीकरणमावश्यकमति राष्ट्रपतिः असूचयत्।
राष्ट्रे मुद्रादौर्लभ्यं रूक्षम्, स्वयंप्रवृत्तिकोशाः शून्याः, सामान्यजनाः दुरितह्रदे, तात्कालिकमिति अरुण् जेट्ली।
नवदिल्ली- राष्ट्रे धनपत्रदौर्लभ्यं रूक्षमभवत्। स्वयंप्रवृत्तिकोशयन्त्राणि शून्यान्यभवन्। हस्ते मुद्रापत्राभावात् जनाः बहुकष्टमनुभवन्ति। एतस्मिन्नन्तरे एषा स्थितिः तात्कालिकी इति वित्तमन्त्री अरुण् जेट्लीवर्यः अवदत्।
कर्णाटका, महाराष्ट्रा, राजस्थान्, उत्तरप्रदेशं, मध्यप्रदेशं, आन्ध्राप्रदेशं, तेलङ्गाना राज्येष्वेव मुद्रादौर्लभ्यम् अतिरूक्षमनुभूयन्ते। राजधान्यां दिल्यां ए.टी.एम् यन्त्राणि शून्यानि अभवन्निति आवेदनमस्ति। दक्षिणदिल्लीस्थेषु आर्.के.पुरं, कान्पुर् प्रभृतिषु स्थलेषु ए.टी.एम्. यन्त्रेभ्यः मुद्रां स्वीकर्तुं न शक्यते इत्यपि सूचना अस्ति।
अद्य सम्पूर्णपिधानं(हट्ताल्) नास्ति, सामाजिकमाध्यमेषु प्रचारणं व्याजम्।
तिरुवनन्तपुरम्-काश्मीरे कठ्वायाम् अष्टवयस्का बालिका मारिता इति सम्भवं प्रतिषिध्य सोमवासरे केरलेषु सम्पूर्णपिधानं भवतीति रूपेण सामाजिकमाध्यमेषु व्याजं प्रचारणं प्रचलदस्ति। कस्यापि दलस्य सहयोगित्वं नास्ति, २४ होरासमयिकं पिधानमेव अायेजितम् इत्यादीनि प्रचारितानि दृश्यन्ते। सामाजिकमाध्यमानां शक्तिं प्रदर्शयितुमवसरः इति रूपेणापि प्रचारणं चलति। जनाः पत्रिकाकार्यालयेषु बहुवारं दूरवाणीद्वारा अन्वेषणं कुर्वन्ति। आधुना पत्रिकाकार्यालयेभ्यः विज्ञायते यत् एतादृशं प्रचारणं व्याजमेवेति।