Category Archives: Online Magazine

संस्कृतदिनाचरणस्तवम् – by Narayanan N

संस्कृतदिनाचरणस्तवम्।

Narayanan N

     1.  मुनिवरपोषित चित्तविकार समुज्वल सद्गुण रामकथाम्

       प्रणवमहत्व विधातृ जगत्पति शङ्करभासित कल्पलताम्

       सुमततिशोभित सत्वसनातन दिव्यकथामृत लोकहितम्

       जय जय भारतकीर्तिविराजित सर्गविचारदिनाचरणम्।

2. गुणमहिमोदय वेदपुराणसरित्पतिविस्तृत तोयनिभम्

कलमुनीश्वर कीर्तनवन्दित श्रेष्ठकथार्जित भासयुतम्

नतिनिभृतानन पार्षदयूथ समञ्चसघोषविधानतलम्

जय जय वेदविहायसि विश्रुतमन्त्रपवित्रदिनाचरणम्।

  3.    बहुजनचर्चित कीर्तिलताखिल चारुचतुष्पदनाभभृतम्

      निखिलतलानृतपापविमोचनकाव्यसुधामल शक्तियुते

      द्विजवरचर्वितजालमृदुस्वन धातृसुताक्षरधन्यव्रते

      जय जय शङ्कर डम्बरवादन नादचतुर्दशसूत्रयुते।

4. अखिलतपोबल सिद्धिनिबन्धित शास्त्रविशेषविधिप्रचुरे

उपनिषदां व्रततीततिपुष्पित रम्यमनोहरकान्तियुते

मुनिवरमुख्यतपस्थितसंगत युक्तिविचारविशेषतमम्

जय जय सत्ययुगेषु प्रचालित संस्कृतियुक्तदिनाचरणम्।

5.      वररुचिवार्तिकभाष्यपतञ्जलि पाणिनिसूत्रविशेषधृतम्

     नटनकलालय नाट्यविशेष मनोहर विस्तृत शास्त्रभृतम्

     गदशमनप्रतिपादित वेदसकुङ्कुम चित्रकफालतलम्

     जय जय पुष्कलसाहितिनिर्भर ग्रन्थसमेतदिनाचरणम्।

6. सहितमनस्सुख शान्तिसमुत्थित योगविशेषण कामदुगा

अतिवरसंबहुवेगचतुष्क्रिय पूरित बन्धुर शास्त्रमतम्

कवनरसप्रतिपादितलक्षण कारिकया परिपुष्टधिया

जय जय नित्यं प्रतिधैर्विषयैः सूरिभिः घुषितदिनाचरणम्।

  7.    गुणगणकर्मसु बद्धविकस्वर पूरितबन्धित काव्ययुते

      शमयम मोक्षसमुन्नति तारक चिन्तित संगत ध्यानरते

      प्रतिदिनराग गभस्तिभिरुत्थित सर्वचलत्पदशक्तियुते

     जय जय सस्यवितानित कोमल सूक्ष्मपरिस्थितिरैक्यदिनम्।

8. धनुगुणबन्धित बाणनियुक्त विदारणसैन्य विजेतृपथाम्

वरुणविभेदक पाशुपतस्थित पन्नग गारुड ब्रह्मयुतम्

मनुजमनोभव धारणपोषित आणवनाशकतुल्यबलम्

जय जय बुद्धिविशेष समार्जित शेषिविधान दिनाचरमम्।

9.     शृणु शृणु मास्मर चित्तसमाधि विशेषतपोमय सिद्धवरम्

     वद वद ललित सम्मिलितोदय सुक्ष्मतलस्थित बोधगिरा

     पठतु सदा निजशक्तिनिबन्धित भारतकाव्य विशिष्टसुधाम्

     जय जय मंगलसूक्तिविराजित राज्यपवित्र दिनाचरणम्।

10. जनहितसम्मतिदान समुज्वलशासनशोभित राष्ट्रहिते

गुणगण चूषण मर्द्दन पीडन मुक्तिविधान व्यवस्थितये

समतुलितैकमनस्थितिपूरित नीतिसुतार्यपदस्थितये

जय जय लोकहिताय विशिष्ट वनान्तर सम्पद्सुखमिलिते।

कविता -by Sri. Narayanan N

।। अमरभारतीस्तोत्रम् ।। – Sankaranarayanan Kodakara

।। अमरभारतीस्तोत्रम् ।।

ललितवाग्युता काव्यभूषिता सरसकोमला तत्वबोधिका।

जयतु सर्वदा वेदभूषिता अमरभारती भारते चिरम्।। 1

कविकुलेश्वराराधिता तथा यतिपतीश्वरेनार्चिता सदा ।

लसतु भूतले शास्त्रसंयुता चिरपुरातनी देवभारती।। 2

विविधनाटकैर्गीतिभिर्युता सुकृतवाहिनी वाङ्विमोहिनी ।

जयतु सर्वदा देववन्दिता अमरभारती भूतले चिरम् ।। 3

सकलमोहनम् संस्कृतस्वनम् हितविधायकम् नीतिदायकम् ।

जयतु सर्वदा कर्मशर्मदम् शरणदायकम् भूतले चिरम् ।। 4

मम तु भाषणं संस्कृतं पदम् मम तु पूजनं संस्कृतं सदा ।

मम तु लेखनं दर्शनं तथा मम हि जीवनं संस्कृताय वै।। 5

जनपदे वने पत्तने गृहे लसतु संस्कृतदीपिका सदा ।

अमरभारतीज्ञानदीपनात् भवतु संस्कृताः मानवाः चिरम् ।। 6

( समर्पणम् )

अयि मनोहरे संस्कृताम्बिके तव पदाम्बुजम् अर्चयाम्यहम् ।

तव कृपावशात्काव्यकर्मणि भवतु मे शिवं शं च सन्ततम् ।।

शङ्करनारायणः, कोटकरा

दूरवाणी – 9744780455

संस्कृतं नमाम्यहम् – संस्कृतदिनगीतम्।

।।संस्कृतं नमाम्यहम् ॥

 

संस्कृतं पठाम्यहं संस्कृतं वदाम्य हम् ।
संस्कृतप्रचारणे तत्परो भवाम्यहम् ॥

सर्वलोकविश्रुतं संस्कृतं भजाम्य हम् ।
सज्जनैश्च सेवितं संस्कृतं नमाम्यहम् ॥

काव्यपुष्टकोमलं शास्त्रतत्व सेवितम्
पावनेषु पावनं संस्कृतं भजाम्यहम् ॥

सर्वलोकविश्रुतं संस्कृतं प्रपाठय
सर्वमङ्गलाय मे संस्कृतं समर्थकम् ॥

प्राणवायुसम्मितं संस्कृताय सेव नम् ।
सर्वलोकरक्षणं संस्कृतव्रतं महत् ।

संस्कृताय सेवनं सत्वगुणवर्धकम्
नित्यसौख्यहेतुकं जीवनाय साधकम् ॥

सर्वपुण्यसागरं सर्वकर्मबोधकम्
सर्वथा हितं परं तं भजे सनातनम् ॥

संस्कृते रतिर्मम भक्ति२स्त्य चञ्चला
सिद्धिरस्तु मे सदा भारति ! गुणात्मिके !

संस्कृतेन भाषणे संस्कृतस्य रक्षणे
संस्कृताय चार्पणे सेवको भवाम्यहम् ॥

संस्कृतं प्रसारय संस्कृतं प्रसाधय
संस्कृतस्य संस्कृतिं सर्वदा नुशीलय ॥

विजयन् वि. पट्टाम्बि।

 

कविता – विजयन् वि पट्टाम्पि

भारतं महीयते…….

भारतं महीयते सत्यधर्म संभृतम्
त्यागशीलमाश्रितं सर्वलोकरक्षकम् । ।

सर्वशास्त्रवर्धकं सर्वसौख्यदायकम् ।
सर्वधर्मपोषकं सर्वदुःखहारकम् ।

शान्तिगीतिपाठकं सर्वदोषनाश कम्
सत्वशुद्धिवर्धकं सर्वलोक वन्दितम् ॥

याज्ञवल्क्यसम्मितैःराष्ट्रधर्म पालकै :
नीतिशास्त्रबोधनं जीवनाय स्वीकृतम् । ।

भारताख्यकाव्यदीपशोभितं मही तलम् ।
योगशास्त्रदत्तसौख्यसभृतं हि भारतम् ॥

भ्रातृभावसूचकम् वीरकर्मदर्श कम् ।
भावये च भारतं पावनं सनातनम् ॥

सत्यदीपमाश्रितं सज्जनैश्च पूरित म् ।
तं नमामि मामकं जन्गभूमि भारतम् ॥

പ്രവേശനോത്സവഗാനം – വിജയൻ വി. പട്ടാമ്പി

പുതുവർഷ ഗീതം

നാനാവർണത്തുമ്പികളേ!
നാടിന്നരുമകളേ!
ഉണരൂ വേഗം! ചിറകു വിടർത്താം
പറന്നുയർന്നീടാം !!

ഒന്നിച്ചീടാം !
ഒത്തുകളിക്കാം
ഒത്തു പഠിച്ചീടാം !!
അറിവിൻ മുത്തുകൾ
വാരിയെടുക്കാം ! മാലയൊരുക്കീടാം !!

നല്ലൊരു നാളിങ്ങണയും വേഗം
നന്മകൾ പൂത്തുലയും !!
കൂട്ടരുമായ് ചെറു യാത്രകൾ പോകാ- മാർത്തു രസിച്ചീടാം !!

വിരലിൻ തുമ്പാൽ വിജ്ഞാനക്കതിർ
കൊയ്തുമെതിച്ചീടാം !
വിജയം നേടാം വിശ്വമിതാകെ
കണ്ടു പഠിച്ചീടാം !!

പഠനത്തിൻ പുതു വർഷം . നമ്മേ
മാടി വിളിക്കുന്നു !
ഗുരുവിൻ തേൻമൊഴി മുത്തുകൾ കാതിൽ
സ്നേഹമുണർത്തുന്നു !!

അറിവിൻ കോട്ടകളോ രോന്നായ് നാം
പട്ടുത്തുയർത്തിടാം !!
നിറവായ് നാടിനു നന്മകൾ നേടാൻ വിയർപ്പൊഴുക്കീടാം !!

( വിജയൻ വി പട്ടാമ്പി )

വാസുദേവാഷ്ടകം – വിജയൻ വി. പട്ടാമ്പി

മഹാഋഷി സമൻ ശ്രേഷ്ഠൻ

വാസുദേവാഖ്യസദ്ഗുരു.
ശാസ്ത്രതത്ത്വാർത്ഥ സമ്പന്നൻ  ഗുരുക്കൾക്കു ഗുരുവായവൻ !

അനന്തപുരിയിലെ ചാരു –
ശ്രീകണ്ഠേശ്വര മന്ദിരം
അതിന്നരികിലാണല്ലോ
ഗുരുവിൻ പുണ്യ ഗേഹവും!

ആരാലും വന്ദിതൻ ധന്യ –
നാരെയും ശിഷ്യനാക്കുവോൻ !
ബൃഹസ്പതി സമൻ പാർത്താൽ
കാരുണ്യക്കടലായവൻ !

സരസം കാവ്യഭാഗങ്ങൾ
ചേർത്തു ചാലിച്ചെടുത്തൊരാ
സൂത്രാർഥമിന്ദ്രജാലം പോൽ
നർത്തനം ചെയ്തു ജിഹ്വയിൽ !

വാക്കതിൽ വന്നുദിച്ചീടു
മർത്ഥത്തോടൊപ്പ മേതിലും !
വിനയം സ്നേഹ സൗശീല്യ-

സമഭാവത്വ നന്മകൾ !

 

തോറ്റിടാം ചെറു കാറ്റേൽക്കേ
തിരതല്ലുന്ന സാഗരം!
ചിത്തത്തോടെതിരേറ്റീടിൽ
സാക്ഷ്യം പലരുണ്ടു കേൾ !

മഹാനിദ്രയണഞ്ഞിപ്പോൾ
ശിഷ്യർന്മാരനാധരായ് !
കാലത്തിൻ ഗതിയാണല്ലോ
തടയാനെളുതല്ല കേൾ !

പരമാത്മപദം പൂകും
പരമാനന്ദ ജീവനെ
സാദരം സഭയം നിത്യം
മനതാരിലിരുത്തി ഞാൻ !

(വാസുദേവൻ പോറ്റി സാറിന്നായി നീറുന്ന ഹൃദയത്തോടെ )

VICTERS: STD-10: ONLINE CLASSES

STD: 10  – FIRST BELL ONLINE CLASSES

कविता – विजयन् वि पट्टाम्पि।

भारतं महनीयम्
— – – – – – – – ———-
भारतं जनायत्तं महनीयं महीतलं
महता प्रयासेन देशिकैः समुद्धृतम् । । ।
शतञ्च तत: पुनस्त्रिंशत्कोटिमिताः
जनाश्च निवसन्ति विभिन्नधर्माश्रयाः । ।
गङ्गया यमुनया पुण्यनिलया कावेर्या च
सन्ततं कलगीतैराशंसा: समार्चिताः ॥
हिमवान्महीधरो भारतसंरक्षक –
श्चोन्नतशिरा भूत्वा उत्तरे विराजते ॥
बलवान् शत्रून् सर्वानुत्तरान् महावीर्यान्
वारणं कृत्वा नित्यं भारतमसेवत ॥
धावयन्त्यो नित्यं पादारविन्दौ भक्त्या
सिन्धुवीचयो हन्त ! देशो∫यं पर्यलालयन् ॥
सागरतीरेष्वेव भारतदेशस्यास्य
वाणिज्यं वृद्धिमाप सुस्थिरं निराश्रयम् ॥
सज्जनो महात्मानः बहवो कृतयत्नाः
जीवनं धन्यं कृत्वा राजन्ते सुरलोके ॥
शङ्करो महागुरुरद्वैतमन्त्रान् कृत्वा
किङ्करानकरोत् स लोकान् धर्माश्रयान् ॥
सत्यमेवात्र नित्यं विजयतेतरामिति
उत्तममुच्चैस्तरं धोषयद्राष्ट्रं चैतत् ॥
ऋषयो बहवश्चासन् धर्मस्य संरक्षकाः
शौनक व्यास शुक गौतम पराशराः ॥
संस्कृतं दिव्यामृतं सज्जनै : संसेवितं
तद्भाषाप्रथितं तद्भारतमहापुण्यम् । .
दीपयन्महीतलं काव्यैश्च शास्त्रादिभिः
शोभते सुभाषितैराचन्द्रतारं देशे ।
भारतमितिहासं महत्तमं पाराशर्यं
सपादलक्षात्मकश्लोकैरलङ्कृतम् ॥
उपदेशसहस्रैस्तदनुदिनं राष्ट्रस्यास्य
जीवनमार्गेष्वद्य बहुभ्यो दीपायते ॥
सुखिनो भवन्तु जनाः देशे∫स्मिन्नहर्निशं
आमयान् विना सर्वे मोदन्तामनारतम् ॥
                                              विजयन् वि पट्टाम्पि

वर्षमेकं तथागतम् – विजयन् वि. पट्टाम्बि।

वर्षमेकं तथागतम्।
— — — — – – – – – –
पूर्वेष्वुदयते पश्चा –
दस्तमेति च पश्चिमे ।
दिनरात्रं समे कृत्वा
भाति कालविधायकः ॥ ।

कोरोणाणु संसर्गा –
दाविश्वं दुःखितं बहु ।
जीवितं क्लेशपूर्णं हा
वर्षमेंकं वृथा गतम् ॥ 2

अलब्ध्वा मित्र संसर्ग –
मलब्ध्वा हितभाषणम् ।
तपस्वीव गृहे तिष्ठ –
द्वषमेकं वृथा गत म् ।।
 3

मुखानि मुद्रितान्यासन्
स्निग्धानि हसितान्यपि ।
मृतिभयादिव स्तब्धाः
लोकाश्च कम्पिताः भशम् ॥ 4

सुखदं सुन्द२ञ्चापि
लोके किच्चिन्न दृश्यते ।
उत्सवाद्यैर्विहीनं हा !
वर्षमेकं वृथा गतम् ॥ 5

एकविंशति वर्षो / यं
द्वारमागत्य संस्थितः ।
स्वीकुर्मस्तथापि तं
नवं वर्षं समागतम् ॥ 6

विजयन् वि पट्टाम्बि