।। नारायणीयमतानुसारं सृष्टिक्रमः।। Sankaranarayanan Anakkara

।। नारायणीयमतानुसारं सृष्टिक्रमः।।

Sankaranarayanan Anakkara

आमुखम् ।

विचित्रस्वरूपस्य नानाविधचराचरैर्मिलितस्य प्रपञ्चस्यास्य आद्भुतानन्ददं दर्शनं प्राचीनकालादारभ्य मनुष्यचित्ते नैकान् प्रश्नान् संचोदयति स्म । कुतो अस्य सृष्टिः? कस्मात् महतः सकाशात् प्रपञ्चोयं समुत्पन्नः? कस्मिन्नस्य स्थिति ? कथमस्य समुत्पत्तिप्रकारः? कथं वा नाशप्रकारः ? इत्यादीनां नैकेषां प्रश्नानाम् उत्तरं अनिष्यमाणस्य मनुजस्य पुरतः सदा प्रकृतिः अद्भुतावहा एव स्थिता आसीत् । अस्य विविधानुत्तरान् संदृष्टवतां प्राचीनानां नानाविधानि मतानि पश्चात् विविधेषु दर्शनसम्प्रदायेषु नानाविध सृष्टिसङ्कल्पनानं बीजमावपत् ।

वैदिकानि सृष्टिसङ्कल्पनानि

1ऋग्वेदे नासदीयसूक्ते तथा 2पुरुषसूक्ते च मुख्यतया सविशदं सृष्टिक्रममधिकृत्य आद्याः कल्पनाः द्रष्टुं शक्यते। अनेकेषु उपनिषत्सु विविधप्रकारैः जगतः सृष्टिं वर्णयति ।3 तस्माद्वा एतस्मादाकाशः सम्भूतः । आकाशाद्वायुः वायोरग्निः । अग्नेरापः। अद्भ्यः पृथिवी । पृथिव्याः ओषधयः। ओषधीभ्यो पुरुषः । इति तैतरीयोपनिषदि । स वा ईक्षां चक्रे । तत्तेजोसृजत। तदपामसृजत। ताः अन्नमसृत । इति छान्देग्ये च । एवं श्वेताश्वतरप्रश्नबृहदारण्यकादिषु उपनिषत्स्वपि नानाप्रकारैः युक्तिभिः दृष्टान्तैश्च प्रपञ्चसृष्टिं वर्णयति। 4गीतायां मायासन्निध्येन ईश्वरः सृष्टिं करोतीति सुव्यक्तं स्थापयति ।दार्शनिकानां विविधाः पन्थानः

सांख्यदर्शनानुसारं प्रकृतेः अचेतनायाः पुरुषसान्निध्यात् जगत्सृजनतां समुपजायते। इश्वरकृष्णस्य सांख्यकारिकायां सृष्टिक्रमः एवं निरूपितः । 5प्रकृतेः महान् ततो अहङ्कारः तस्माद्गणाश्च षोडशकः ।तस्मादपिच षोडशकात् पञ्चभ्य पञ्च भूतानि । योगिनः यद्यपि सांख्यसमय इव प्रकृतिपुरुषसंयोगादेव जगत्सृष्टिरित्यङ्कीकुर्वन्तिस्तथापि ईश्वरस्य प्रेरणां तत्र हेतुं मन्यन्ते। काणादाः परमाणुभ्यो अदृष्टबलात् द्व्यणुकादिदावारा महाप्रपञ्चसृष्टिं मन्वानाः वर्तन्ते। 6शाङ्करास्तु पारमार्थिकसत्तायां निरोधोत्पत्तिर्बद्धमुक्तादिहीनो पंरं ब्रह्म सत्यमित्यङ्कीकुर्वन्तः तथापि मायाप्रतिबिम्बतया सगुणतामेत्य जगत्सृष्टिं विधत्ते इति मन्यन्ते।

सृष्टिक्रमनिरूपणे पुराणानां मतम् ।

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चैव पुराणं पष्चलक्षणम् इति पुराणलक्षणादेव प्रपञ्चसृष्टिनिरूपणं पुराणेषु अवश्यं भवितव्यमिति साम्प्रदायिकमतम्। भागवतपुराणे सांख्यदर्शसदृशः सृष्टिक्रमः सम्यक् प्रतिपादितः। एवं च इतरेष्वपि पुराणेषु स्वस्वमतानुसारं सगुणस्येश्वरस्य इच्छातः मायारूपायाः शक्त्याः प्रपञ्चसृष्टिः इति वर्णयन्ति ।

नारायणीयम् भागवतम् च ।

भागवतपुराणस्य सारसंग्रहः भवति मेल्पुत्तूर् नाराय़णभट्टतिरिणा विरचितं नारायणीयम् । तस्मादेव हेतोः भागवतपुराणानुसारमेव नारायणीये अपि सत्ताविचिन्तनम् सृष्टिक्रमनिरूपणं कथाप्रतिपादनं च च प्रतिपादितम्।

नारायणीयस्य प्रथमदशके यद्यपि निर्गुणस्याद्वैतपरब्रह्मणः निरूपणं कृतम् तथापि द्वितीयदशकादारभ्य सगुणब्रह्मोपसनायाः भक्तेः च माहात्म्यप्रतिपादने कविः सक्तः भवति। तृतीयदशके भक्तेः माहात्म्यं चतुर्थे योगमार्गानुसारं सगुणेश्वरोपासनाविधिं च वर्णयति । पञ्चमे दशके जगत्सृष्टिप्रकारः निरूपितः।

तत्र प्रथमश्लोकेन सृष्टेः प्राक् वर्तमानां प्रलयावस्थां वर्मयति।

व्यक्ताव्यक्तमिदं न किञ्चिदभवत् प्राक् प्राकृतप्रक्षये

मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम्।

नो मृत्युश्च नचामृतं च समभूः नाह्नो न रात्रेः स्थितिः

तत्रैकस्त्वमशिष्यथा किल परानन्दप्रकाशात्मना।

प्राक प्रलयकाले साम्यावस्थानिरुद्दस्वरूपा भगवच्छक्तिस्वरूपा माया भगवति परब्रह्मणि लीना आसीत्।

( मायायाः साम्यावस्थायां लयः वैषम्यावस्थायां प्रपञ्चात्मकेन भावनं इति पौराणिकाः अङ्कीकुर्वन्ति ) । तदानीं स्थूलसूक्ष्मात्मकःअयं प्रपञ्चः नासीत् । तत्तु कारणस्वरूपायां मायायां लीना आसीत्। रात्रिः अहः च नासीत्। न संसारावस्था न वा मोक्षावस्था आसीत् । केवलः सच्चिदानन्दस्वरूपः अद्वैतब्रह्मस्वरूपः एव आसीत्।

द्वितीयेन श्लोकेन कालादितत्वानां परब्रह्मणि एव कारणरणरूपतया अवस्थानमिति स्थापयति

कालः कर्मगुणाश्च भूतनिवहाः विश्वं च कार्यं विभो

चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः।

तेषां नैव वदन्त्यसत्वमयि भो शक्त्यात्मना तिष्ठताम्

नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत् सम्भवः ।

कालतत्त्वं भूतनिवहाः कार्यस्वरूपः अयं प्रपञ्चश्च न तदानीं अत्यन्तासत्वाः आसन्। किन्तु चित्स्वरूपे परब्रह्मणि निर्लीनाः आसन् । गगनप्रसूनससदृशां तेषां भूयः सम्भवः उत्पत्तिःकथं स्यादिति अनुमानेन तेषां परब्रह्मणि एव कारणात्मकत्वेन अवस्थानमासीदिति अनुमीयते । नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत् सम्भवः। (४ः२)

एतामवस्थां भागवते एवं वर्णयति

भगवानेक आसेदमग्रे आत्मात्मनांविभुः । आत्मेच्छानुगतावात्मा नानामेत्युपलक्षणः।

स वा एतस्य संद्रष्टुः शक्तिः सदसदात्मिका ।माया नाम महाभाग ययेदं भार्यते विभुः।

कालवृत्या तु मायायां गुणमय्यामधोक्षजः पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ।

ततो भवत् महत्तत्वमव्यक्तात् कालचोदितात् । विज्ञानात्मात्मदेहस्थं विश्वं व्यञ्जंस्तमोनुदम्।

( स्कन्धः 3 अध्यायः 5श्लोकाणि 23- 35 )

तृतीयश्लोकादारभ्य सृष्टिप्रक्रियां वर्णयति

एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां

बिभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम्।

मायातः खलु कालशक्तिरखिलां दृष्टं स्वभावोपि च

प्रादुर्भूय गुणान् विधास्य विदधुस्तस्याः सहायक्रियाम्।।

द्विपरार्धे गते भगवति सिसृक्षात्मिकां ईक्षां बिभ्राणे सति माया त्रिभुवनीभावाय स्वयं चुक्षुभे। गुणान् विधास्य निर्माय तस्याः मायायाः सहायक्रियां विदधु च ।

साक्षीति प्रथितः ईश्वरः अप्रविष्टवपुषा मायासन्निहितः सन् नानाप्रकारभेदैः तां प्रतिबिम्बरूपेण प्राविशत् । कालादिश्क्तियुक्तेन तेन चोदिता सा महतत्वाख्यम् बुद्धितत्वमसृजत्। तत्तु सत्वगुणप्राधानिकः निर्विकल्पकबोधस्वरूपः तमोगुणप्राधानिकः अहङ्कारतत्वं सृजति। स तु अहङ्कारतत्वं सत्व रज स्तमोगुणप्राधान्येन वैकारिकः तैजसः तामसः इति संज्ञाभिः त्रिविधावस्थां आपन्नः ।

तस्मात् सात्विकाहङ्कारात् इन्द्राभिमानिनां देवतानां सृष्टिं व्यातनोत्। तथा च अन्तःकरणम् । राजसाहङ्कारात् (तैजसात्) दशेन्दियगणाः तामसाहङ्कारात् आकाशस्य सूक्षतन्मात्रायाः सृष्टिश्च समजायत। शब्दात्मक सूक्ष्मरूपात् आकाशात् स्थूलाकाशः तस्मात् स्पर्शात्मकः सूक्ष्मरूपो वायुः ततो स्थूलरूपो वायुः । तस्मात् तेजः । ततो अपां सृष्टिः । ततो पृथिवी । एवं आद्याद्यकर्मान्वितं भूतसमूहमिदं ससर्जेति चतुर्थे दशके वर्णयति।

नारायणीयप्रोक्ते सृष्टिक्रमे औपनिषदकल्पनायाः प्रभावः ।

जगतः सृष्टेः प्रागवस्थाविचिन्तनं इदं प्रथमतया ऋग्वेदे नासदीयसूक्ते एव पश्यति। सा कल्पना भागवते नारायणीये च प्राक्प्रलयावस्था निरूपणे समञ्जसतया गुम्भितम्। तथापि नासदीये दृश्यमाणाम् अव्यक्तावस्थायाः तमस्त्वकल्पनां ( तमः आसीत् तमसा गूळ्हमग्रे ) पाक्षिकतया तिरस्करोति । मायायाः साम्यावस्थात्वेन परिष्करोति पुराणकारः नारायणीयकर्ता च ।

ब्रह्मणः सृष्ट्युन्मुखायाः इच्छायाः स्वरूपं छान्दोग्योपनिषदि सम्यक् विवृतमस्ति । एषा कल्पना यद्यपि पुराणे तथैव स्वीकृतास्तथापि परिष्कृता च । ईश्वरस्य सिसृक्षात्मकस्य ईक्षणस्य होतोः एव माया त्रिभुवनीभावाय सज्जा भवति । सृष्ट्यनुकूलक्षोभः च जायते।

तैत्तरीयोपनिषदनुसारिणीं भूतसृष्टिं च क्रमात् विवृणोति आकाशादीनां सूक्ष्मस्थूलभूतानां सृष्टिवर्णनेन।

सृष्टिक्रमनिरूपणे सांख्याभिमतसृष्टिक्रमः एव भागवते नारायणीये च स्वीकृतः।

एवं वेदप्रोक्तस्य औपनिषदप्रोक्तस्य च प्रपञ्चसृष्टेः क्रमस्य विशदचित्रणमेव भागवतपुराणे कृतम् । नारायणीयकर्ता तु तां सगुणस्येश्वरस्य लीलेति प्रकल्प्य भक्यनुगुणतया तां सयुक्तिकं संगृह्य स्थापयति । केवलाद्वैतमतानुसारीं सृष्टिप्रक्रियां न स्वीकरोति । तथा अद्वैताभिमतमजातिवादं च न स्वीकरोति ।

References

1 Rgveda mandala 10 suktha 129

2 Rgveda Mandala 10

3 Thaithariya Upanishad 2:1:4

4 Bhagavath githa

5 Samkhyakarika sloka 22

6 Mandukyakarika vythathya prakaranam sloka 32

Bibliography

1 नारायणीयम् वनमाला व्याख्या guruvayoor devaswom publi

2 नारायणीयम् श्यामसुन्दरव्याख्या by P S ananthanarayana Sasthri

3 नारायणीयम् रसिकरञ्जिनीव्याख्या by Sahrdayathilaka Ramapisharody

4 नारायणीयम् भक्तप्रियाव्याख्या by Desamangalathu varrier , (pdf)

5श्रीमद्भागवतम् – GITA PRESS GHORAKHPUR

6 സംസ്കൃതസാഹിത്യചരിത്രം കേരളസാഹിത്യ അക്കാദമി ,തൃശ്ശൂര്‍ (Vol 1)

7 ശ്രീമത് ഭാഗവതം ഡി. ശ്രീമാന്‍ നമ്പൂതിരി,ഋത്വിക് ബുക്സ് കോഴിക്കോട്

8 Samkkyathathva kaumudi , vacaspathi misra , Chaukhamba publishers

9 നൂറ്റെട്ട് ഉപനിഷത്തുകള്‍ (എഡി. )ഡി ശ്രീമാന്‍ നമ്പൂതിരി സമ്രാട്ട് ബുക്സ്

Leave a Reply

Your email address will not be published. Required fields are marked *