Category Archives: Online Magazine
കോവിഡ് പ്രതിരോധം പ്രതിജ്ഞാഗീതം : ശങ്കരനാരായണൻ കൊടകര
നാശയാമഃ കോവിഡം
പാലയാമഃ ഭാരതം
വൈദ്യവര്യദേശനം
പാലയാമഃ സർവ്വദാ
സർവ്വകാര മന്ത്രണം
സർവ്വഥാ ഭജാമഹേ
ദേഹശുദ്ധി ചിത്തശുദ്ധി
സദാസ്തു മന്ത്രമീ ദൃശം
ഹസ്തമന്വഹം വയം
ക്ഷാളയാമഃ സന്തതം
ആനനം സമാവൃതം.
പ്രകല്പയാമഃ ബന്ധുരം
സോദരോSസ്തു ബാന്ധവാഃ
സമീപവാസിരസ്തു വാ
സമീപതഃ സ്ഥിതിര്ന്ന ഹി
പ്രകല്പയേ പ്രകല്പയേ
ലോകരക്ഷണം മദീയ –
മന്ത്രമിത്യവൈമ്യഹം
നാശയാമഃ കോവിഡം
രക്ഷയാമഃ ഭാരതം
कविता – जयतात् मङ्गले धन्ये।
*जयतात् मङ्गले धन्ये।*
संस्कृतस्य प्रसाराय
संस्कृतेर्वर्धनाय च।
समुत्पन्ना नवा वाणी
सर्वचित्तापहारिणी।।१।।
तमसो मा प्रापय ज्योतिं
घोषयन्ती सुसंस्कृता।
शुभदा जालपुटे सन्ना
सङ्गमग्रामसम्भवा।।२।।
नववाणी नवा रम्या
सज्जनानन्ददायिका।
पूर्णचन्द्रप्रभायुक्ता
चन्दनार्द्रसुशीतला।।३।।
समस्तेषु च लोकेषु
सजीवा शान्तरूपिणी।
अङ्गुलीस्पर्शमात्रेण
त्वागमिष्यति सेविका।।४।।
यत्नेन जनिता सेयं
संगमग्रामवासिनाम्।
संस्कृताध्यापकानां मे
सर्वेषां सहकारिणाम्।।५।।
यत्रास्त्यचञ्चला बुद्धि-
रुद्यमो मेरुसन्निभः।
जिज्ञासा च जिगीषा च
तत्र श्रीरिति निश्चिता।।६।।
शतशो/ध्यापकाः लोके
पठितारश्च सहस्रशः।
भाषाप्रणयिनश्चास्याः
संस्थायाः सेवने रताः।।७।।
सङ्गमेशकटाक्षेण
साधूनां चोदनेन च।
वाणीयमतुला भूया-
दासूर्यचन्द्रतारकम्।।८।।
पालकः पोषकस्तस्याः
जोसाख्यः सज्जनो बुधः।
नीरवं कुरुते कर्म
मन्दमारुतसन्निभः।।९।।
जयतात् मङ्गले धन्ये
विमले सप्रयोजिके।
निस्वार्थे निस्तुले बाले
संस्कृतचन्द्रिकास्रवे।।१०।।
*विजयन् वी पट्टाम्बी।*
इरिङ्ङालक्कुटा
११-०२-२०२०
नववर्षगीतम् – विजयन् वि. पट्टाम्बि।
नववर्षं सामोदं भुवनं मे प्राप्तं
शान्तमिदं चित्तं तु सन्तोषपूर्णम्।
नानाजनततिभरितो मामकदेशो
मधुभरितकुसुमयुतमतुलमुद्यानम्।।
हेैन्दव क्रैस्तव जनततिरिह नित्यं
सन्तोषभावेन वसति चिरकालम्।
इस्लाम पार्सी सिख् बौद्धजनाश्चात्र
सोदरभावेन सन्तोषचित्ताः।।
किमेषा घोषणा सर्वत्र देशे
किमेतच्चित्तं मे सोद्वेगपूर्णम्।
निवसन्ति मम देशे ये ये बहुकालं
तैरेव नागरिकजनतात्र सत्यम्।।
कुरुत नहि सोदराः दुःखं हृदि नित्यं
मानसमनुपमसागरकल्पम्।
नैवात्र भीतिः नैवात्र कोपो
नैवात्र मात्सर्यरोषाग्निबाधा।।
भवतु मे देशोयं मुदभरितं नित्यं
जनततिः सर्वथा सोदरकल्पा।
नहि कलहो नहि द्वेषो भीषणाश्चत्र
सकलजनहृदयमिह शान्ततामेतु।।
जयतात् कोमलकेरलधरणि।
जय जय मामक सुभगे ललिते
जयतात् कोमलकेरलधरणि।
मामक जननि भार्गवतनये
वीर्यवतां नरसुहृदां मातः।।
(जय जय मामक….
केरकरम्बित सुन्दरगात्रे
कोकिलततिभरसुमुखि पवित्रे।
मधुरम्भरितैराम्रफलैश्च
ह्यधिकतरं खलु वासितभूमि!
( जय जय मामक…..
कर्षकमित्रैः पालितभुवने
हर्षभरैश्चोद्यमसहितैः।
वर्षावर्धितधान्यधने मां
तुष्ट्या नितरां पालय जननि!
(जय जय मामक…….
तटिनीजलगणभरितो वातः
मधुरो मन्दं वाति च रुचिरम्।
पत्रसमृद्धैमस्तकभारै-
र्मदभरकेलिमनृत्यन् केराः।।
(जय जय मामक……….
सागरवीचिभिरनुवेलं किल
केरलतीरमिदं खलु सुभगम्।
कलकलनिनदैवीचिभिरधुना
कमनीयाभिः पुलकितगात्रे!
(जय जय मामक……..
संस्कृतशिक्षणपाठाः।
विजयश्रीलालिताः स्युः।
विद्यालयीय नववर्षाय शुभाशंसा-
कविता – विजयन् वि. पट्टाम्बि
ज्येष्ठमासीयोfयं कालः समागतस्ततः सर्वे
विद्यालयाः बहु सज्जाः छात्रपूर्णाश्च।
(ओ तित्तित्तारा…..)
वायुर्जातो महाशीतः जलदमालाश्च पुनः
वियदङ्गणेषु चित्रं रचितवत्यः।
(ओ.. तित्तित्तारा…)
बालिकाबालकास्सर्वे भरितामोदेन साकं
महितविद्यालयेषु मिलितवन्तः।
(ओ तित्तित्तारा…)
पठनं हा समारब्धं बहुविधलीलाश्चाथ
कथागङ्गा प्रवहति गुरुमुखाशच्च।
(ओ तित्तित्तारा…)
संस्कृतं पठत छात्राः जीवेयुश्च संस्कृताय
सर्वेभ्यश्च सुखं भूयाज्जगति नित्यम्।
(ओ तित्तित्तारा…)
नववाण्याः साहाय्येन जयिनस्स्युः पठनेषु
विजयश्रीलालिता स्युः विना विलम्बम्।।
(ओ तित्तित्तारा…)