Category Archives: Online Magazine

ജലാഷ്ടകം

ഗ്രീഷ്മാരംഭേ യഥാപൂർവം
സോഷ്ണം ജാതം മഹീതലം!
ജലദിനം സമായാതം (മാർച്ച് 22)
സ്മാരയജ്ജലവൈഭവം!!

ജലാത്തു ജായതെ ജീവ:
ജലേനൈവ വിവർധതെ!
ജലാഭാവേ ഭവേന്നാശ:
ജലം ഹി ജീവനൗഷധം!

കൂപാദ്ധി ജായതെ വാരി
നാളികായാസ്തു കർഹിചിത് !
തത്സർവം സലിലം ഹന്ത
വർഷാദേവ സമുദ്ഗതം!

ജലം ഭൂരി പിബേന്മർത്യ :
ജലം തേ ജീവനൗഷധം!
ജലാഭാവേ ഭവേദ്ദേഹം
സോഷ്ണമസ്വാസ്ഥ്യ പൂരിതം!

ജലം ന മലിനം കുര്യാത്
മൂത്രേണ ച മലേന ച
ജന്തൂനാം സ്നാപനം വർജ്യം
നിദാഘേഷു ജലാശയേ !

അമൃതം ജീവനം തോയം
പയോ ജീവനസാധകം!
നാമാന്തരാണി ചൈതാനി
പ്രസിദ്ധാനി മഹീതലേ !

ജലനാശോ ഭവേന്നൈവ
ജലം തു വിശ്വസംസ്ഥിതം!
രൂപാന്തരമവാപ്യൈതത്
നിലീനം ദേവതാസമം!

ജലാഷ്ടകമിദം നിത്യം
ഹൃദി കൃത്വാ വസേന്നര !
ആചരേച്ച യഥായോഗ്യം
നൂനം ഹി സ്വാസ്ഥ്യവാൻ ഭവേത്!!

Vijayan V Pattambi

नव्यगीतम्।

नव्यगीतम्।

नववर्षीयविभातं जातम् 

दृष्टं मे दिनदर्शनपत्रम् ।

उदयास्तमयौ स्वापविनोदौ

जातौ दैनिकरीत्या भुवने ।

नववर्षामृतशुभवचनानि
निर्गलितानि शतशश्चात्र ।
चित्तान्यपि भुवि सर्वजनानां
दीप्तानि खलु नवसूर्यप्रभया ।

अतिवित्तार्जनचिन्ता त्यज्या
साधूनां ते खलु सेवा कार्या ।
परिवारीयं सेवनकार्य
करणीयं खलु भवता सततम् ।

बन्धुजनानथ मित्रजनांश्च
स्वजन समानान् कुरुत हृदिस्थान्
वचनान्यथ खलु क्षेमपराणि
वक्तव्यानि यथोचितरीत्या ॥

गृहिणी पुत्राःपरिपाल्या हि
तेनैवात्र तु जीवनमुक्ति : I
कर्मपरात्र हि मनसा वाचा
करणीया भुवि मानवसेवा ।

द्वेषानखिलान् मानसजन्यान्
त्यक्त्वा चित्तं विमलीकुर्या :।
सर्वानपरान् चात्मसमानान्
मत्वा चित्ते कुरु कर्माणि ॥

स्नेहादेव हि जन्यो लोक :
स्नेहेनेवाभ्युदयो भूयात् ।
स्नेही लभते सर्वसुखानि
नववर्षामृतदिव्यपराणि ॥

                    विजयन् वि. पट्टाम्बी

केरलं मनोहरम्|

केरलं मनोहरं
चारूवृक्षपूरितम्
हारकं चित्तपद्मनां
भूरिजननिवासिनाम्।

हरितशाद्वलैर्युतं
परित :सागरैर्भरम् ।
केरकेदा२सुन्दरं
वीरजनवर्धकम् ॥

‘ केरल ‘ नामैव सम्पन्नं
केरवृक्षकजालकैं : I
कार्यमेव वन्दनं तस्मै
केरलाय चाहर्निशम् ॥

वन्दनीयमुनिभिः
शङ्करैश्च कविभिः ।
सन्ततं सुसेवितं
सुन्दरं वर्णोद्यानम् ॥

 

Vijayan V Pattambi

सर्वसम्मता भवन्तु ।

( 2023 – 24विद्यालयीय वर्षस्य शुभकामनाः )

जूण् माससमारम्भे
केरलेषु यथाविधि ।
विद्यालया : यथापूर्वं
उद्धाट्यन्ते च सर्वशः ॥

छात्रास्त्वुत्साहिनो भूत्वा
धृत्वा वस्त्रं च नूतनम् ।
आदाय नूतनं छत्रं
गच्छन्ति पुण्यमन्दिरम्॥

प्रप्य विद्यालयं तूर्णं
चारूवर्णैश्च लेपितम् ।
आचार्यांस्तु प्रणम्या /थ
स्वस्थानमार्जयन्तु भोः । ।

भाषापठनसन्दर्भे
संस्कृतं सर्वसम्मतम् ।
स्वीकुरत तमेवात्र
भवतां श्रेयसे मुदा ॥

संस्कृतं सर्वभाषाणां
जननी शक्तिशालिनी ।
सरलं ललितं चैव
संस्कृतं लोकरञ्जकम् ॥

पठनात् संस्कृतस्यास्य
जायेत परमोन्नति : ।
पराश्रयं विना नित्यं
जीवितुं प्रभविष्यथ ॥

परनिन्दां परित्यज्य
परसाहाय्यतत्पराः ।
अहङ्कारं च त्यक्त्वाथ
भवत चोत्तमोत्तमः ॥

पुराणेषु पुराणं तत्
नवीनेषु च नूतनम् ।
संस्कृतं सर्वलोकेभ्यः
चित्त सौख्यप्रदायकम् ॥

इतिहासपुराणानां
सारसर्वस्वमार्जितम् ।
सुभाषितसुगन्धैश्च
भूषितं मम संस्कृतम् ॥

पठत पठत छात्राः
संस्कृतं हि निरन्तरम् ।
पठन्तो संस्कृतं नित्यं
भवेयुः सर्वसम्मताः ॥

विजयन् वि पहाम्पि |

आशंसा वचनम्।

आशंसा वचनम्॥
संस्कृताध्ययने नित्यं 
संस्कृतस्य प्रचारणे । 
गुरुः नारायणो भाति
 यथा सूर्यो नभस्थले ॥
विनयधनसम्पन्नः
 विमलकुलसम्भव : ।
आजीवं संस्कृताय स
नैजं सर्वं समार्पयत् ॥
  व्याकरणेषु निष्णातः 
काव्यमर्मज्ञवाक्पटुः ।
प्रवेशकस्य व्याख्याता 
निपुणश्च प्रभाषणे ॥
यस्मात्तु  विनयनं लेब्धं 
केन्द्रात् तस्माच्च माचिरम् ।
पारितोषिकसम्प्राप्ति :
कस्मिन्न क्रियते सुखम्॥
 असुलभे मुहूर्तेस्मिन्
सुहृदस्तस्य सज्जनाः ।
परभृत समाः जाताः
वसन्ते मघुना भृशम् ॥
आयुशरोग्यसम्पन्नः
पुत्रपौत्रादिसंयुतः ।
सभार्य : स्नेहसम्पन्नः
वसेच्च शरदां शतम् ॥
विजयन् वि. पट्टाम्पि

 

संस्कृतप्रणयभाजनं पि टि कुरियाकु मास्टर अनुस्मरणम् ।

पावरट्टी साहित्यदीपिका संस्कृत महाविद्यालयस्य स्थापकः भवति संस्कृतप्रणयभाजनं पि टि कुरियाक्कुमास्टर । संस्कृतप्रणयि नस्तस्य पञ्चाशत्तमे चरमवार्षि कावसरे केरल संस्कृत अक्कादमी संस्थया तद्बहुमानार्थं 25000 रुपयकात्मकः पारितोषिकः तथा स्मारकप्रभाषपणञ्च आयोजितमस्ति । धन्ये अस्मिन् मुहूर्ते महदौचित्यमेवैतत् महानुभावस्य जीवितस्य तथा प्रवर्तनानां च स्मरणम् ।    १८८९ तमे वर्षे अक्तूबूर मासस्य चतुर्थे दिने तृशूर प्रान्ते ओरूमयूर् ग्रामे कुरियाकुमास्टर् जनिमलभत। पुलिकोट्टिल् पोरि ञ्चुतारु तथा वटक्कूट्ट् एलियम्मा चास्तां तस्य पितरौ। ग्रामस्थे प्राथमिकविद्यालये तथा पालयूरु विद्यालये चासीत्तस्य अध्ययनम् ।
औपचारिक पठने अतत्परः आङ्ग्लपठनविरोधी चासौ चावक्काट् बोर्ट् विद्यालये पठनार्थ नियुक्तोfपि तस्मान्निवृत्तः अनौपचारिकरीत्या संस्कृतं पठितुमारभत । काव्य नाटाकदिषु असामान्यां व्युत्पत्तिं सम्पादितवानयं पश्चात् कोषिकोटु देशीयात् वाग्भटानन्द : इति नाम्ना प्रसिद्धात् वयलेलेि कुञ्जिक्कण्णन् गुरुक्कल् इत्याचार्याद् . व्याकरणम् अधीतवान् । ततः१९१० तमे वर्षे कोट्टेककाट पोरिञ्चुपुत्री कोच्चुमट रिया तस्य प्रियपत्नी अभवत् । तस्यां पञ्च अपत्यानि जातानि यानि सर्वाणि यथाकालं संस्कृतपठने नियोजितवान् स भाषास्नेही ।

    तदन्तरे कुरियाक्कु मास्टर स्वभवने संस्कृताध्यापनं समारभत । बहवः छात्रास्तत्र पठनाय समागताश्च । १९११ तमे वर्षे समीस्थं मन्दिरं स्वीकृत्य तत्र वैपुल्येन संस्कृत पाठनमायोजयत् । अचिरादेव १९१६ तमे बर्षे तदर्थं मद्रास् सर्वका२स्य अड्डीका२लब्धिश्चाभवत् । ततः १९३२ तमे वर्षे
संस्कृत विद्वान् साहित्यशिरोमणिः इत्यादिषु तत्र अध्ययनं प्रवृत्तम् । वियालयः अयं महाविद्यालयत्वेन परिणतोभवत् । अस्मिन् कर्मणि पुन्नश्शेरी गुरुनाथस्य मार्गदर्शन तस्मै मुपलब्धमासीत् ।

     १९३८ तमे वर्षे विद्यालयस्य आवश्यकं भवनस्य तथा भूमेश्च सम्पादनाय मद्रास् सर्वकारसभा सदस्यस्य एन् गोपाल मेनवस्य गणित पण्डितस्य कोरुमास्टर वर्यस्य तथा पावरट्टी ग्रामाघिकारिणः वि जे जोसफ़ वर्यस्य चापि प्रयत्न: सफलो जातः । महाविघालये चास्मि न्१९६६ वर्षपर्यन्तं प्रांशुपालपद मलड्कृतवान् कुरियाकु मास्टर । पूवत्तूर चेलिश्शरी वासु देवन् इलयत् तत्पुत्रः पि सी वासुदेवन् इलयत्, प्रो के पि नारायण पिषारटि, प्रो यम् पि शङ्कुण्णि नायर , प्रो : एन् डि कृष्णनुण्णी , स्वपुत्रौ पि के प्रान्सिस् , के पि जोस् पि श्रीकु मार न् नायर श्रीमती पि के पद्मावती च तत्र अध्यापकवृत्तिमनुष्ठितवत्सु प्रमुखा आसन् । १९७३ वर्षेस्य फेब्रुवरि मासस्य २३ दिनाङ्के स महात्मा मृत्यवशगः अभूत् ।

  मनीषिणा कुरियाककुमास्टर वर्येण संस्थापितः साहित्यदीपिका संस्कृतमहाविद्यालय: एव पश्चात् पुरनाटुकरा केन्द्रीय संस्कृत महाविद्यालयरूपेण विकासपरिणाममाप्तः। तदात्वे धर्मान्धताभरिते के२लीयसमाजे संस्कृतपठनमवलम्ब्य नवोत्थानप्रवर्तनेषु आमग्नः कुरियाकुमास्टर आदरणीयो भवति तस्य अनुस्मरणम् अभिमानवर्धकमानन्दजनकञ्च ।
” आजीवं स्वीकृतं येन संस्कृतं जीव नव्रतम्।
अर्पये सादरं तस्मै योगिवर्याय वन्दनम्” ॥

विजयन् वि. पट्टाम्पि

ജയ ജയ കേരള ധരണി !

ജയ മേ കേരള ധരണി
ജയതാത് മാമക ജനനി!
മാബലി ശാസിത ശുഭദേ
പാവനചരിതേ ജയതാത്
ജയതാത് ജയതാത്
പാവനചരിതേ ജയതാത് !

ചഞ്ചലജലധി സുഗീതേ
വന്ദിത പാവനചരിതേ !
മംഗളശീലേ ജയതാത്
പഞ്ചമരാഗഭരേ ! സൂഭഗേ . ജയ താത്
.ജയതാത് ജയതാത്
ധീരേ ജനനീ ജയതാത് !

മലയജ ഗന്ധ സമേതേ
ജനതതിപോഷണനിരതേ
ഓഷധിസസ്യ സമൃദ്ധേ ജയതാത്
കേരള പുണ്യധരേ !
ജയതാത് ജയതാത്
മാമക ജനനീ ജയതാത് !

നാനാ ജനതതിപൂർണ്ണേ
സസ്യശ്യാമളവർണ്ണേ!
കേര കദംബിത പുണ്യേ ജയതാത്
മാമക പുണ്യധരേ !
ജയതാത് ജയതാത്
മാമകജനനീ ജയതാത്

 

വിജയൻ വി. പട്ടാമ്പി

जय जय मङ्गलशीले..।

भारतमातः धीरे जननि !
जय जय मङ्गलशीले !
जनततिवन्दितधन्यधरित्री
लसताल्लसतान्नित्यम् ॥

जनहितपालननिरते धन्ये
तावकविजयपताका ।
गगने लसतादतिरुचिरा सा
पवनान्दोलितकलिका ।

जनकोटिभिरतुलमनोज्ञा
वीरजनावलिभरिता ।
स्वतन्त्रभारतधरणी जननी
जयताज्जयदानिशम् ।

सैनिकवीरै : रक्षितसीमः
विन्ध्यहिमाचलदेशः ।
सागरलहरीतरलिततीर :
सुन्दरसुरभिलदेशः ।

शत्रूनखिलं दमनं कृत्वा
जय जय . जननि मनोज्ञे !
ऋषिजनवन्दित धरणी जयता –
ज्जयताज्जयतादनिशम् ॥

रचना-

 

 

 

 

 

 

 

Vijayan V Pattambi

രമണൻ സംസ്കൃതത്തിൽ – ശ്രീ മുത്തലപുരം മോഹൻദാസ്

 

नववर्षशुभगीतम् – विजयन् वि. पट्टाम्बि।

 

जय जय मङ्गलवर्ष समागत

जय जय हर्षद कालरूपिन्।

(जय जय…..)

नववर्ष संगम सुदिनसमागमे

हृदयप्रकर्षो मे ज्वलति तीव्रम्।

नववर्षसंजात पल्लवजालेन

हृदयं हरतीव बालचूतः।।

(जय जय…)

मधुमत्तकोकिलैः सुमदलगन्धैश्च

जनुवरिमासोयं हृदयहारी।

सुरभिलवायुना मृदुपु्ष्पकेलिभि-

रनुदिनं चित्तमपहरति।।

(जय जय…)

लसतां विलसतामानन्दसागरो

हृदयेषु मानवमन्दिरेषु।

मधुरं च मङ्गलं तावक जीवन-

मनुदिनं वर्षेस्मिन् भवतु मित्र।।

(जय जय…)

हरतु वो दूरितान्यखिलानि सर्वेश

कृपया जगत्रयपालकस्य।

भवतु जगदयं सुखदो निरामयो

नववर्षहर्षेषु मङ्गलेषु।।

(जय जय…)