Category Archives: Online Magazine
कविता – विजयन् वि पट्टाम्पि
भारतं महीयते…….
भारतं महीयते सत्यधर्म संभृतम्
त्यागशीलमाश्रितं सर्वलोकरक्षकम् । ।
सर्वशास्त्रवर्धकं सर्वसौख्यदायकम् ।
सर्वधर्मपोषकं सर्वदुःखहारकम् ।
शान्तिगीतिपाठकं सर्वदोषनाश कम्
सत्वशुद्धिवर्धकं सर्वलोक वन्दितम् ॥
याज्ञवल्क्यसम्मितैःराष्ट्रधर्म पालकै :
नीतिशास्त्रबोधनं जीवनाय स्वीकृतम् । ।
भारताख्यकाव्यदीपशोभितं मही तलम् ।
योगशास्त्रदत्तसौख्यसभृतं हि भारतम् ॥
भ्रातृभावसूचकम् वीरकर्मदर्श कम् ।
भावये च भारतं पावनं सनातनम् ॥
सत्यदीपमाश्रितं सज्जनैश्च पूरित म् ।
तं नमामि मामकं जन्गभूमि भारतम् ॥
പ്രവേശനോത്സവഗാനം – വിജയൻ വി. പട്ടാമ്പി
പുതുവർഷ ഗീതം
നാനാവർണത്തുമ്പികളേ!
നാടിന്നരുമകളേ!
ഉണരൂ വേഗം! ചിറകു വിടർത്താം
പറന്നുയർന്നീടാം !!
ഒന്നിച്ചീടാം !
ഒത്തുകളിക്കാം
ഒത്തു പഠിച്ചീടാം !!
അറിവിൻ മുത്തുകൾ
വാരിയെടുക്കാം ! മാലയൊരുക്കീടാം !!
നല്ലൊരു നാളിങ്ങണയും വേഗം
നന്മകൾ പൂത്തുലയും !!
കൂട്ടരുമായ് ചെറു യാത്രകൾ പോകാ- മാർത്തു രസിച്ചീടാം !!
വിരലിൻ തുമ്പാൽ വിജ്ഞാനക്കതിർ
കൊയ്തുമെതിച്ചീടാം !
വിജയം നേടാം വിശ്വമിതാകെ
കണ്ടു പഠിച്ചീടാം !!
പഠനത്തിൻ പുതു വർഷം . നമ്മേ
മാടി വിളിക്കുന്നു !
ഗുരുവിൻ തേൻമൊഴി മുത്തുകൾ കാതിൽ
സ്നേഹമുണർത്തുന്നു !!
അറിവിൻ കോട്ടകളോ രോന്നായ് നാം
പട്ടുത്തുയർത്തിടാം !!
നിറവായ് നാടിനു നന്മകൾ നേടാൻ വിയർപ്പൊഴുക്കീടാം !!
( വിജയൻ വി പട്ടാമ്പി )
വാസുദേവാഷ്ടകം – വിജയൻ വി. പട്ടാമ്പി
മഹാഋഷി സമൻ ശ്രേഷ്ഠൻ
വാസുദേവാഖ്യസദ്ഗുരു.
ശാസ്ത്രതത്ത്വാർത്ഥ സമ്പന്നൻ ഗുരുക്കൾക്കു ഗുരുവായവൻ !
അനന്തപുരിയിലെ ചാരു –
ശ്രീകണ്ഠേശ്വര മന്ദിരം
അതിന്നരികിലാണല്ലോ
ഗുരുവിൻ പുണ്യ ഗേഹവും!
ആരാലും വന്ദിതൻ ധന്യ –
നാരെയും ശിഷ്യനാക്കുവോൻ !
ബൃഹസ്പതി സമൻ പാർത്താൽ
കാരുണ്യക്കടലായവൻ !
സരസം കാവ്യഭാഗങ്ങൾ
ചേർത്തു ചാലിച്ചെടുത്തൊരാ
സൂത്രാർഥമിന്ദ്രജാലം പോൽ
നർത്തനം ചെയ്തു ജിഹ്വയിൽ !
വാക്കതിൽ വന്നുദിച്ചീടു
മർത്ഥത്തോടൊപ്പ മേതിലും !
വിനയം സ്നേഹ സൗശീല്യ-
സമഭാവത്വ നന്മകൾ !
തോറ്റിടാം ചെറു കാറ്റേൽക്കേ
തിരതല്ലുന്ന സാഗരം!
ചിത്തത്തോടെതിരേറ്റീടിൽ
സാക്ഷ്യം പലരുണ്ടു കേൾ !
മഹാനിദ്രയണഞ്ഞിപ്പോൾ
ശിഷ്യർന്മാരനാധരായ് !
കാലത്തിൻ ഗതിയാണല്ലോ
തടയാനെളുതല്ല കേൾ !
പരമാത്മപദം പൂകും
പരമാനന്ദ ജീവനെ
സാദരം സഭയം നിത്യം
മനതാരിലിരുത്തി ഞാൻ !
(വാസുദേവൻ പോറ്റി സാറിന്നായി നീറുന്ന ഹൃദയത്തോടെ )
कविता – विजयन् वि पट्टाम्पि।
भारतं महनीयम्
— – – – – – – – ———-
भारतं जनायत्तं महनीयं महीतलं
महता प्रयासेन देशिकैः समुद्धृतम् । । ।
शतञ्च तत: पुनस्त्रिंशत्कोटिमिताः
जनाश्च निवसन्ति विभिन्नधर्माश्रयाः । ।
गङ्गया यमुनया पुण्यनिलया कावेर्या च
सन्ततं कलगीतैराशंसा: समार्चिताः ॥
हिमवान्महीधरो भारतसंरक्षक –
श्चोन्नतशिरा भूत्वा उत्तरे विराजते ॥
बलवान् शत्रून् सर्वानुत्तरान् महावीर्यान्
वारणं कृत्वा नित्यं भारतमसेवत ॥
धावयन्त्यो नित्यं पादारविन्दौ भक्त्या
सिन्धुवीचयो हन्त ! देशो∫यं पर्यलालयन् ॥
सागरतीरेष्वेव भारतदेशस्यास्य
वाणिज्यं वृद्धिमाप सुस्थिरं निराश्रयम् ॥
सज्जनो महात्मानः बहवो कृतयत्नाः
जीवनं धन्यं कृत्वा राजन्ते सुरलोके ॥
शङ्करो महागुरुरद्वैतमन्त्रान् कृत्वा
किङ्करानकरोत् स लोकान् धर्माश्रयान् ॥
सत्यमेवात्र नित्यं विजयतेतरामिति
उत्तममुच्चैस्तरं धोषयद्राष्ट्रं चैतत् ॥
ऋषयो बहवश्चासन् धर्मस्य संरक्षकाः
शौनक व्यास शुक गौतम पराशराः ॥
संस्कृतं दिव्यामृतं सज्जनै : संसेवितं
तद्भाषाप्रथितं तद्भारतमहापुण्यम् । .
दीपयन्महीतलं काव्यैश्च शास्त्रादिभिः
शोभते सुभाषितैराचन्द्रतारं देशे ।
भारतमितिहासं महत्तमं पाराशर्यं
सपादलक्षात्मकश्लोकैरलङ्कृतम् ॥
उपदेशसहस्रैस्तदनुदिनं राष्ट्रस्यास्य
जीवनमार्गेष्वद्य बहुभ्यो दीपायते ॥
सुखिनो भवन्तु जनाः देशे∫स्मिन्नहर्निशं
आमयान् विना सर्वे मोदन्तामनारतम् ॥
विजयन् वि पट्टाम्पि
वर्षमेकं तथागतम् – विजयन् वि. पट्टाम्बि।
वर्षमेकं तथागतम्।
— — — — – – – – – –
पूर्वेष्वुदयते पश्चा –
दस्तमेति च पश्चिमे ।
दिनरात्रं समे कृत्वा
भाति कालविधायकः ॥ ।
कोरोणाणु संसर्गा –
दाविश्वं दुःखितं बहु ।
जीवितं क्लेशपूर्णं हा
वर्षमेंकं वृथा गतम् ॥ 2
अलब्ध्वा मित्र संसर्ग –
मलब्ध्वा हितभाषणम् ।
तपस्वीव गृहे तिष्ठ –
द्वषमेकं वृथा गत म् ।। 3
मुखानि मुद्रितान्यासन्
स्निग्धानि हसितान्यपि ।
मृतिभयादिव स्तब्धाः
लोकाश्च कम्पिताः भशम् ॥ 4
सुखदं सुन्द२ञ्चापि
लोके किच्चिन्न दृश्यते ।
उत्सवाद्यैर्विहीनं हा !
वर्षमेकं वृथा गतम् ॥ 5
एकविंशति वर्षो / यं
द्वारमागत्य संस्थितः ।
स्वीकुर्मस्तथापि तं
नवं वर्षं समागतम् ॥ 6
विजयन् वि पट्टाम्बि
संस्कृतपाठसमीक्षा – Online classes
।। नारायणीयमतानुसारं सृष्टिक्रमः।। Sankaranarayanan Anakkara
।। नारायणीयमतानुसारं सृष्टिक्रमः।।
Sankaranarayanan Anakkara
आमुखम् ।
विचित्रस्वरूपस्य नानाविधचराचरैर्मिलितस्य प्रपञ्चस्यास्य आद्भुतानन्ददं दर्शनं प्राचीनकालादारभ्य मनुष्यचित्ते नैकान् प्रश्नान् संचोदयति स्म । कुतो अस्य सृष्टिः? कस्मात् महतः सकाशात् प्रपञ्चोयं समुत्पन्नः? कस्मिन्नस्य स्थिति ? कथमस्य समुत्पत्तिप्रकारः? कथं वा नाशप्रकारः ? इत्यादीनां नैकेषां प्रश्नानाम् उत्तरं अनिष्यमाणस्य मनुजस्य पुरतः सदा प्रकृतिः अद्भुतावहा एव स्थिता आसीत् । अस्य विविधानुत्तरान् संदृष्टवतां प्राचीनानां नानाविधानि मतानि पश्चात् विविधेषु दर्शनसम्प्रदायेषु नानाविध सृष्टिसङ्कल्पनानं बीजमावपत् ।
वैदिकानि सृष्टिसङ्कल्पनानि ।
1ऋग्वेदे नासदीयसूक्ते तथा 2पुरुषसूक्ते च मुख्यतया सविशदं सृष्टिक्रममधिकृत्य आद्याः कल्पनाः द्रष्टुं शक्यते। अनेकेषु उपनिषत्सु विविधप्रकारैः जगतः सृष्टिं वर्णयति ।3 तस्माद्वा एतस्मादाकाशः सम्भूतः । आकाशाद्वायुः वायोरग्निः । अग्नेरापः। अद्भ्यः पृथिवी । पृथिव्याः ओषधयः। ओषधीभ्यो पुरुषः । इति तैतरीयोपनिषदि । स वा ईक्षां चक्रे । तत्तेजोसृजत। तदपामसृजत। ताः अन्नमसृत । इति छान्देग्ये च । एवं श्वेताश्वतरप्रश्नबृहदारण्यकादिषु उपनिषत्स्वपि नानाप्रकारैः युक्तिभिः दृष्टान्तैश्च प्रपञ्चसृष्टिं वर्णयति। 4गीतायां मायासन्निध्येन ईश्वरः सृष्टिं करोतीति सुव्यक्तं स्थापयति ।दार्शनिकानां विविधाः पन्थानः
सांख्यदर्शनानुसारं प्रकृतेः अचेतनायाः पुरुषसान्निध्यात् जगत्सृजनतां समुपजायते। इश्वरकृष्णस्य सांख्यकारिकायां सृष्टिक्रमः एवं निरूपितः । 5प्रकृतेः महान् ततो अहङ्कारः तस्माद्गणाश्च षोडशकः ।तस्मादपिच षोडशकात् पञ्चभ्य पञ्च भूतानि । योगिनः यद्यपि सांख्यसमय इव प्रकृतिपुरुषसंयोगादेव जगत्सृष्टिरित्यङ्कीकुर्वन्तिस्तथापि ईश्वरस्य प्रेरणां तत्र हेतुं मन्यन्ते। काणादाः परमाणुभ्यो अदृष्टबलात् द्व्यणुकादिदावारा महाप्रपञ्चसृष्टिं मन्वानाः वर्तन्ते। 6शाङ्करास्तु पारमार्थिकसत्तायां निरोधोत्पत्तिर्बद्धमुक्तादिहीनो पंरं ब्रह्म सत्यमित्यङ्कीकुर्वन्तः तथापि मायाप्रतिबिम्बतया सगुणतामेत्य जगत्सृष्टिं विधत्ते इति मन्यन्ते।
सृष्टिक्रमनिरूपणे पुराणानां मतम् ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चैव पुराणं पष्चलक्षणम् इति पुराणलक्षणादेव प्रपञ्चसृष्टिनिरूपणं पुराणेषु अवश्यं भवितव्यमिति साम्प्रदायिकमतम्। भागवतपुराणे सांख्यदर्शसदृशः सृष्टिक्रमः सम्यक् प्रतिपादितः। एवं च इतरेष्वपि पुराणेषु स्वस्वमतानुसारं सगुणस्येश्वरस्य इच्छातः मायारूपायाः शक्त्याः प्रपञ्चसृष्टिः इति वर्णयन्ति ।
नारायणीयम् भागवतम् च ।
भागवतपुराणस्य सारसंग्रहः भवति मेल्पुत्तूर् नाराय़णभट्टतिरिणा विरचितं नारायणीयम् । तस्मादेव हेतोः भागवतपुराणानुसारमेव नारायणीये अपि सत्ताविचिन्तनम् सृष्टिक्रमनिरूपणं कथाप्रतिपादनं च च प्रतिपादितम्।
नारायणीयस्य प्रथमदशके यद्यपि निर्गुणस्याद्वैतपरब्रह्मणः निरूपणं कृतम् तथापि द्वितीयदशकादारभ्य सगुणब्रह्मोपसनायाः भक्तेः च माहात्म्यप्रतिपादने कविः सक्तः भवति। तृतीयदशके भक्तेः माहात्म्यं चतुर्थे योगमार्गानुसारं सगुणेश्वरोपासनाविधिं च वर्णयति । पञ्चमे दशके जगत्सृष्टिप्रकारः निरूपितः।
तत्र प्रथमश्लोकेन सृष्टेः प्राक् वर्तमानां प्रलयावस्थां वर्मयति।
व्यक्ताव्यक्तमिदं न किञ्चिदभवत् प्राक् प्राकृतप्रक्षये
मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम्।
नो मृत्युश्च नचामृतं च समभूः नाह्नो न रात्रेः स्थितिः
तत्रैकस्त्वमशिष्यथा किल परानन्दप्रकाशात्मना।
प्राक प्रलयकाले साम्यावस्थानिरुद्दस्वरूपा भगवच्छक्तिस्वरूपा माया भगवति परब्रह्मणि लीना आसीत्।
( मायायाः साम्यावस्थायां लयः वैषम्यावस्थायां प्रपञ्चात्मकेन भावनं इति पौराणिकाः अङ्कीकुर्वन्ति ) । तदानीं स्थूलसूक्ष्मात्मकःअयं प्रपञ्चः नासीत् । तत्तु कारणस्वरूपायां मायायां लीना आसीत्। रात्रिः अहः च नासीत्। न संसारावस्था न वा मोक्षावस्था आसीत् । केवलः सच्चिदानन्दस्वरूपः अद्वैतब्रह्मस्वरूपः एव आसीत्।
द्वितीयेन श्लोकेन कालादितत्वानां परब्रह्मणि एव कारणरणरूपतया अवस्थानमिति स्थापयति
कालः कर्मगुणाश्च भूतनिवहाः विश्वं च कार्यं विभो
चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः।
तेषां नैव वदन्त्यसत्वमयि भो शक्त्यात्मना तिष्ठताम्
नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत् सम्भवः ।
कालतत्त्वं भूतनिवहाः कार्यस्वरूपः अयं प्रपञ्चश्च न तदानीं अत्यन्तासत्वाः आसन्। किन्तु चित्स्वरूपे परब्रह्मणि निर्लीनाः आसन् । गगनप्रसूनससदृशां तेषां भूयः सम्भवः – उत्पत्तिः–कथं स्यादिति अनुमानेन तेषां परब्रह्मणि एव कारणात्मकत्वेन अवस्थानमासीदिति अनुमीयते । नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत् सम्भवः। (४ः२) ।
एतामवस्थां भागवते एवं वर्णयति –
भगवानेक आसेदमग्रे आत्मात्मनांविभुः । आत्मेच्छानुगतावात्मा नानामेत्युपलक्षणः।
स वा एतस्य संद्रष्टुः शक्तिः सदसदात्मिका ।माया नाम महाभाग ययेदं भार्यते विभुः।
कालवृत्या तु मायायां गुणमय्यामधोक्षजः पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ।
ततो भवत् महत्तत्वमव्यक्तात् कालचोदितात् । विज्ञानात्मात्मदेहस्थं विश्वं व्यञ्जंस्तमोनुदम्।
( स्कन्धः 3 अध्यायः 5श्लोकाणि 23- 35 )
तृतीयश्लोकादारभ्य सृष्टिप्रक्रियां वर्णयति
एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
बिभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम्।
मायातः खलु कालशक्तिरखिलां दृष्टं स्वभावोपि च
प्रादुर्भूय गुणान् विधास्य विदधुस्तस्याः सहायक्रियाम्।।
द्विपरार्धे गते भगवति सिसृक्षात्मिकां ईक्षां बिभ्राणे सति माया त्रिभुवनीभावाय स्वयं चुक्षुभे। गुणान् विधास्य निर्माय तस्याः मायायाः सहायक्रियां विदधु च ।
साक्षीति प्रथितः ईश्वरः अप्रविष्टवपुषा मायासन्निहितः सन् नानाप्रकारभेदैः तां प्रतिबिम्बरूपेण प्राविशत् । कालादिश्क्तियुक्तेन तेन चोदिता सा महतत्वाख्यम् बुद्धितत्वमसृजत्। तत्तु सत्वगुणप्राधानिकः निर्विकल्पकबोधस्वरूपः तमोगुणप्राधानिकः अहङ्कारतत्वं सृजति। स तु अहङ्कारतत्वं सत्व रज स्तमोगुणप्राधान्येन वैकारिकः तैजसः तामसः इति संज्ञाभिः त्रिविधावस्थां आपन्नः ।
तस्मात् सात्विकाहङ्कारात् इन्द्राभिमानिनां देवतानां सृष्टिं व्यातनोत्। तथा च अन्तःकरणम् । राजसाहङ्कारात् (तैजसात्) दशेन्दियगणाः तामसाहङ्कारात् आकाशस्य सूक्षतन्मात्रायाः सृष्टिश्च समजायत। शब्दात्मक सूक्ष्मरूपात् आकाशात् स्थूलाकाशः तस्मात् स्पर्शात्मकः सूक्ष्मरूपो वायुः ततो स्थूलरूपो वायुः । तस्मात् तेजः । ततो अपां सृष्टिः । ततो पृथिवी । एवं आद्याद्यकर्मान्वितं भूतसमूहमिदं ससर्जेति चतुर्थे दशके वर्णयति।
नारायणीयप्रोक्ते सृष्टिक्रमे औपनिषदकल्पनायाः प्रभावः ।
जगतः सृष्टेः प्रागवस्थाविचिन्तनं इदं प्रथमतया ऋग्वेदे नासदीयसूक्ते एव पश्यति। सा कल्पना भागवते नारायणीये च प्राक्प्रलयावस्था निरूपणे समञ्जसतया गुम्भितम्। तथापि नासदीये दृश्यमाणाम् अव्यक्तावस्थायाः तमस्त्वकल्पनां ( तमः आसीत् तमसा गूळ्हमग्रे ) पाक्षिकतया तिरस्करोति । मायायाः साम्यावस्थात्वेन परिष्करोति पुराणकारः नारायणीयकर्ता च ।
ब्रह्मणः सृष्ट्युन्मुखायाः इच्छायाः स्वरूपं छान्दोग्योपनिषदि सम्यक् विवृतमस्ति । एषा कल्पना यद्यपि पुराणे तथैव स्वीकृतास्तथापि परिष्कृता च । ईश्वरस्य सिसृक्षात्मकस्य ईक्षणस्य होतोः एव माया त्रिभुवनीभावाय सज्जा भवति । सृष्ट्यनुकूलक्षोभः च जायते।
तैत्तरीयोपनिषदनुसारिणीं भूतसृष्टिं च क्रमात् विवृणोति आकाशादीनां सूक्ष्मस्थूलभूतानां सृष्टिवर्णनेन।
सृष्टिक्रमनिरूपणे सांख्याभिमतसृष्टिक्रमः एव भागवते नारायणीये च स्वीकृतः।
एवं वेदप्रोक्तस्य औपनिषदप्रोक्तस्य च प्रपञ्चसृष्टेः क्रमस्य विशदचित्रणमेव भागवतपुराणे कृतम् । नारायणीयकर्ता तु तां सगुणस्येश्वरस्य लीलेति प्रकल्प्य भक्यनुगुणतया तां सयुक्तिकं संगृह्य स्थापयति । केवलाद्वैतमतानुसारीं सृष्टिप्रक्रियां न स्वीकरोति । तथा अद्वैताभिमतमजातिवादं च न स्वीकरोति ।
References
1 Rgveda mandala 10 suktha 129
2 Rgveda Mandala 10
3 Thaithariya Upanishad 2:1:4
4 Bhagavath githa
5 Samkhyakarika sloka 22
6 Mandukyakarika vythathya prakaranam sloka 32
Bibliography
1 नारायणीयम् वनमाला व्याख्या guruvayoor devaswom publi
2 नारायणीयम् श्यामसुन्दरव्याख्या by P S ananthanarayana Sasthri
3 नारायणीयम् रसिकरञ्जिनीव्याख्या by Sahrdayathilaka Ramapisharody
4 नारायणीयम् भक्तप्रियाव्याख्या by Desamangalathu varrier , (pdf)
5श्रीमद्भागवतम् – GITA PRESS GHORAKHPUR
6 സംസ്കൃതസാഹിത്യചരിത്രം – കേരളസാഹിത്യ അക്കാദമി ,തൃശ്ശൂര് (Vol 1)
7 ശ്രീമത് ഭാഗവതം ഡി. ശ്രീമാന് നമ്പൂതിരി,ഋത്വിക് ബുക്സ് കോഴിക്കോട്
8 Samkkyathathva kaumudi , vacaspathi misra , Chaukhamba publishers
9 നൂറ്റെട്ട് ഉപനിഷത്തുകള് (എഡി. )ഡി ശ്രീമാന് നമ്പൂതിരി സമ്രാട്ട് ബുക്സ്