Category Archives: News Updates
नारायणीयं पुरस्कारं हरिप्रसाद् कटम्पूर् वर्याय समार्पयत्।
गुरुवायूर् – नारायणीयदिनमनुबन्ध्य पण्डितेभ्यो दीयमानाय नारायणीयपुरस्काराय अस्मिन् वर्षे हरिप्रसाद् कटम्पूर् इति पण्डितवर्यः अर्हो/भवत्। नारायणीये काव्यालङ्कारः इत्यस्मिन् विषये समर्पितः प्रबन्धः एव पुरस्काराय परिगणितः।
नारायणीयदिनत्वेन आचरिते ह्यस्तने गुरुपवनपुरस्थे मेप्पत्तूर् सभागृहे आयोजिते समारोहे पुरस्कारः समर्पितः।मातृभूमी दिनपत्रिकायाः मुख्यसम्पादकः पुरस्कारं तस्मै समर्पितवान्। देवस्वं भारवाहिप्रभृतयो महात्मानः सन्न्हिताः आसन्। अष्टमवारम् अनुस्यूततया हरिप्रसादः एतस्मै पुरस्काराय अर्हः अभवत्।
अमिताव् घोष् वर्यः ज्ञानपीठेन पुरस्कृतः।
नवदिल्ली- आङ्गलभाषायां प्रथमः ज्ञानपीठपुरस्कारः विख्यातेन साहित्यकारेण अमिताव् घोष् वर्येण स्वायत्तीकृतः। साहित्यक्षेत्रे उत्कृष्टयोगदानाय दीयमानः अयं पुरस्कारः प्रप्रथममेव भारतीय-आङ्गलसाहित्यकाराय दीयते।
भूतं वर्तमानं च समायोजयति घोष् वर्यस्य रचना इति ५४ तमस्य ज्ञानपीठपुरस्कारस्य प्रख्यापनं विधास्यन् पुरस्कारसमितिः अभिप्रैति स्म। इतिहासकारः सामाजिक-नरवंशशास्त्रज्ञश्च भवति अभिताव् घोष् वर्यः। तेषु विषयेषु तस्य अगाधं पाण्डित्यं तस्य कृतिषु प्रतिफलतीति समितिः प्रास्तावयत्। वंगदेशीयः भवत्ययं वर्यः।
केरलराज्ये अद्य भा.ज.पा. दलेन विज्ञप्तं पिधानान्दोलनम्। परिक्षा पुनःक्रमीकृता।
तिरुवनन्तपुरम्- केरलराज्ये अद्य भा.ज.पा. दलस्य नेतृत्वे पूर्णपिधानम् आचर्य़ते। अनेन अद्य समायोज्यमाना विद्यालयीय परीक्षा पुनःक्रमीकृता। एतदनुसारम् अद्यतनी परीक्षा दिसम्बर् २१ दिनाङ्के आयोक्ष्यते।
शबरिमला विषयमनुबन्ध्य सचिवालयद्वारे अनशनसमरं कुर्वन्तः आसन् केचन भा.ज.पाय नेतारः तन्मध्य ह्यस्तने प्रातः २.३० वादने कश्चन पुरुषः समरवेदिकासमीपमागत्य मृत्तैलेन शरीरमभिषिच्य स्वयम् पावकं जज्वाल। अर्धदग्धः स झटिति चिकित्सालयं नीतः। तथापि सायं स ऐहिकं देहं तत्याज। स पुरुषः अय्यप्पभक्तः आसीत्, शबरिमलाविषये सर्वकारनिर्णयेन तप्तः स आत्माहूतिमकरोत् इति च भा.ज.पा. दलस्य आक्षेपः। तस्य आदररूपेण अद्येदम् आन्दोलनम् आचर्यते इति नेतारः वदन्ति।
नववर्षे पलास्तिककूपीजलस्य निरोधः।
तिरुवनन्तपुरम्- २०१९ जनुवरि प्रथमदिनाङ्कादारभ्य पलास्तिककूप्यां जलविक्रयः निरुद्धः। तत्स्थाने स्फाटिक-कूप्यां जलवितरणं कर्तुम् अधिकारिणां निर्णयः। परिस्थिति संरक्षणनियमस्य विभागः ५ अनुसृत्य निरोधलङ्घने दण्डरूपेण अनुमतिं प्रत्यावर्तेत।
जनुवरि प्रथमदिनाङ्कादारभ्य स्फाटिककूप्यामेव जलवितरणं साध्यं भवति। मलिनीकरण नियन्त्रण विभागः एतदनुसारं विज्ञापनमदात्।
५०० तल्पादधिकयुक्तः चिकित्सालयः, नौकागृहम् इत्यादीन्यपि नियन्त्रणपरिधौ आयान्ति। विनोदसञ्चार-केन्द्रेषु एकवारम् उपयुज्यमानानां पलास्तिकोत्पन्नानाम् उपयोगः अपि निरुद्धः। स्फाटिककूपीनाम् अणुनाशनाय सौविध्यमायोजयितुमपि निर्देशः अस्ति।
विद्यालयीय कलोत्सवः- कलाकिरीटं पालक्काट् जनपदः स्वायत्तमकरोत्।
आलप्पुषा- ५९ तमः विद्यालयीय कलोत्सवः आलप्पुषा नगरे समाप्तिमाप। दिनत्रयेण समायोजिते अस्मिन् कलोत्सवे कलाकिरीटः पाालक्काट् जनपदेन स्वायत्तीकृतः। द्वादशवर्षाणि यावत् कोषिक्कोट् जनपदेन स्वायत्तीकृत आसीदयं किरीटः। आस्मिन् वर्षे केवलम् अङ्कत्रयम् अधिकं सम्पाद्य पालक्काट् नगरेण किरीटाधिकारः उपस्थापितः।
पालक्काट ९३० अङ्कान् अलभत। परं कोषिक्केट् ९२७ अङ्कैः द्वितीयस्थानमलभत। ९०३ अङ्कैः तृशूर् तृतीयस्थाने तिष्ठति।
आगामिनि वर्षे कलोत्सवः कासरगोड् नगरे आयोजयिष्यति। अस्मिन् वर्षे व्ययंं न्यूनीकर्तुं कलोत्सवोयं दिनत्रयेण परिमितः आसीत्। साहित्यरचनामत्सराः नायोजिताः आसन्। आगमिनि वर्षे अपि एषा रीतिः भवति वा न वेति इतः पर्यन्तं न निश्चितम्।
कण्णूर् विमानपत्तनात् प्रथमं यात्राविमानम् उदडयत।
कण्णूर्- दक्षिणक्रलस्य अभीमानभूतं कण्णूर् विमानपत्तनम् यात्रिकेभ्यः उदघाटयत्। अद्य प्रातः १० वादने मुख्यमन्त्री पिणरायि विजयः तथा केन्द्रीय व्योमयानमन्त्री सुरेष् प्रभूवर्यः च सम्भूय प्रथमं विमानं यात्रायै प्रैषयताम्।
एयर् इन्ड्या संघस्य बोयिङ् ७३७-८०० विमानमेव प्रथमयात्रायै सज्जमभवत्। इदं कण्णूर् तः अबुदाबीं प्रति प्रस्थितम् १८५ यात्रिकान् वोढुं प्रभवतीदं। सायं अबुदाबीतः कण्णूर् नगरं प्राप्स्यति।
विद्यालयीयकलोत्सवस्य वेदिकाः जागरिताः।
आलप्पुषा- ५९तमः राज्यस्तरीय-विद्यालयकलोत्सवः आलप्पुषापत्तने समारब्धः। इतः परं त्रिषु दिनेषु नगरमिदं उत्सवच्छायायां भविष्यति। प्रलयदुरितस्य भूमिकायां उद्घाटनादयः समारोहाः जहति स्म।
अद्य प्रातः ९.३० वादने प्रायः सर्वासु वेदिकासु मत्सराः समारब्धाः। आहत्य ३० वेदिकाः सन्ति। पस्पर्धयिषूणां कृते आवासभोजनादिव्यवस्थाः सुघटिताः सन्ति। दिसम्बर् ९ दिनाङ्के कार्यक्रमाणां समापनं भविष्यति।
नों चोंस्कीवर्यः श्वः नवतिं प्रविशति।
फिलाडल्फिया- विख्यातः भाषाशास्त्रज्ञः तथा राजनैतिक-तत्त्वचिन्तकश्च भवति नों चोंस्कि वर्यः। तस्य महाशयस्य नवतितमं जन्वदिनं डिसम्बर् ७ दिनाङ्के भवति। १९६० कालघट्टेषु पौराधिकारप्रगतेः व्यापनम् अमेरिक्कायां विद्यालयेषु कलालयेषु शिक्षा संस्थासु च जातम्। तदानीं छात्राणां कृते ऊर्जदायकः आसीत् नों चोंस्कि वर्यः। अधुना नवतितमे वयस्यपि अक्कादमिक-राजनैतिकरंगे स सजीवः भवति।
भाषाशास्त्राध्ययने द्रुतपरिवर्तनमेव अस्य सिद्धान्तैः आविष्कृतम्। १९५० कालघट्टेषु अनेन प्रवृत्तिपथमानीतः सार्वलौकिकव्याकरणाख्यः भाषाशास्त्रसिद्धान्तः मानविकैकतां सूचयति।
१९२८ डिसम्बर् ७ दिनाङ्के अमेरिक्कायां पेन्सिल् वेनिया राज्ये फिलाडल्फियायां मध्यवर्गजूतपरिवारे अयं भूजातः। १५ तमे वयसि पेन्सिल् वेनिया विश्वविद्यालये अध्ययनमारब्धः। १९५५ तमे वर्षे भाषाशास्त्रे विद्यावारिधिबिरुदं सम्पादितवान्। १९५६ तमे वर्षे मास्च्युरैस् इन्स्टिट्यूट् आफ् टेक्नोलजी संस्थाने अध्यापको बभूव। अधुनापि भाषापठनविषये तस्य सिद्धान्तस्य प्रामुख्यमस्ति।
पद्मप्रभापुरस्कारः कल्पट्ट नारायणन् वर्याय।
कल्पट्टा- ऐषमः पद्मप्रभापुरस्कारः कल्पट्ट नारायणन् वर्याय समर्प्यते। प्रसिद्धः कविः आख्यायिकाकारः निरूपकश्च भवति कल्पट्ट नारायणन्। ७५००० रूप्यकाणि पद्मरागखचितं फलकं प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवन्ति।
एं मुकुन्दन् वर्यस्य आध्यक्ष्ये एं एन् कारश्शेरि सारा जोसफ् इत्येताभ्यम् अङ्गाभ्यां युक्ता समितिरेव एनं वर्यं पुरस्काराय अचिनोत् इति पद्मप्रभानिधेः अध्यक्षः एं.पी. वीरेन्द्रकुमार् वर्यः सूचितवान्। आधुनिक मलयालकवितायां नूतनसरणेः प्रयोक्ता भवति कल्पट्ट नारायणन् इति विधिनिर्णयसमितेः अभिप्रायः।
बषीर् पुरस्कारः, डो. टी. भास्करन् नायर् पुरस्कारः, मस्कट् प्रवासि मलयालीपुरस्कारः, वी.टी. कुमारन् पुरस्कारश्च इतः पूर्वं अनेन प्राप्ताः।
विद्यालयीयकलोत्सवः आलप्पुषायाम्, सज्जीकरणानि पुरोगच्छन्ति।
आलप्पुषा- ५८ तमः केरल-विद्यालयीय-कलोत्सवः डिसम्बर् ७,८,९ दिनाङ्केषु आलप्पुषायां सम्पत्स्यते। उच्चतरविद्यालय-उच्चविद्यालयकलोत्सवौ संस्कृतोत्सवः अरबी कलोत्सवश्च सम मेल भविष्यन्ति। कलोत्सवार्थं सज्जीकरणानि अन्तिमघट्टे जातानि। मत्सरार्थं २९ वेदिकाः सन्ति। आहत्य १२००० पस्पर्धयिषवः भवन्तीति प्रतीक्षते।
मत्सरार्थं पञ्जीकरणं डिसम्बर् ६ दिनाङ्के प्रातः नववादने भविता। तदर्थं आलप्पुषा सनातनधर्मविद्यासंघस्य उच्चतर विद्या य १४ प्रकोष्ठाः सज्जीकृताः। मत्सरार्थिनां कृते आवास व्यवस्था १२ विद्यालयेषु सज्जीकृता। पानीयं जलं प्रसाधनसौविध्यानि च एषु विद्यालयेषु यथेच्छं स्थापयिष्यति।
संस्कृतनाटकं दशम्यां वेदिकायां अन्ये कार्यक्रमाः १६,१७,१८,२१ वेदिकायां च सम्पत्स्यन्ते। महाप्रलयानन्तरं सर्वेषु रङ्गेषु व्ययन्यूनीकरणंनिर्दिष्टमित्यनेन अस्मिन् वर्षे कलोत्सवं दिनत्रयेण समायोजयितुं निरणयत्। तद्वत् संस्कृतोत्सवेन समं आयोज्यमानं विचारसत्रं पण्डितसमादरणं च अस्मिन् वर्षे जहाति स्म।













