शबरिमला निरीक्षणसमितिः श्वः सन्निधानं प्राप्स्यति।

कोच्ची- उच्चन्यायालयेन नियुक्ता शबरिमलानिरीक्षण-समितिः कुजवासरे अय्यप्पसन्निधानं प्राप्स्यति। अद्य निलक्कल् इति विश्रामकेन्द्रं प्राप्य समितिः सौविध्यानि अधिकृत्य अालोचनां करिष्यति। ततः सन्निधानं प्रति प्रस्थास्यति। ह्यः आलुवा अतिथिमन्दिरे समिते‌ः प्रथमम् अधिवेशनं सम्पन्नम्।  देवस्वसमितेः अध्यक्षप्रभृतिभिः सह समित्यङ्गानि चर्चामकुर्वन्।

     निरोधनाज्ञाप्रभृतिषु नैयामिकेषु  समितेः नियन्त्रणं न भविता इति अधिवेशनानन्तरं समित्यङ्गं न्यायाधिपः पी.आर्. रामन् अवदत्।

     शान्तिपरिपालनं निरोधनाज्ञानुदेशः इत्यादीनि न्यायालयस्य परिगणनायां सन्ति। शबरिमलायाः असौविध्यानि अधिकृत्य अधुना सूचना नास्ति, तानि तत्र गत्वा अवलोकनं करिष्यति इत्यपि स न्यगादीत्।

     तीर्थाटनकेन्द्रे तीर्थाटकानां वैषम्यं न्यूनीकर्तुं समितेः प्रवर्तनं भविता। नियन्त्रणेषु शैथिल्यं भविष्यति। न्यायालयनिर्देशानामनुसरणमेव समितेः लक्ष्यम् इति न्याया. रामन् वर्यः अवदत्। अन्ये समित्यङ्गे न्या. सिरिजगन्, डी.जी.पी. हेमचन्द्रन् तथा देवस्वं समितेः अध्यक्षः पद्मकुमार्, अन्यानि अङ्गानि च अधिवेशने भागमभजन्त।

Leave a Reply

Your email address will not be published. Required fields are marked *