कुजग्रहस्य निगूढतां प्रति इन्सैट् पेटकस्य सन्निवेशः। नासायाः नूतनं दौत्यं विजयकरम्।

न्यूयोर्क्- नासा संस्थायाः नूतनं कुजग्रहदौत्यं विजयकरम् अभवत्। निगूढं कुजग्रहोपरितलं प्रति इन्सैट् पेटकस्य समुपगमः जातः। कुजान्तरिक्षमन्विष्य साहसिकयात्रायाः अनन्तरमेव नासाया‌ इदं दौत्यम्।

     इत‌ः परं वर्षद्वयं यावत् पेटकस्यास्य प्रवर्तनं तत्र भविष्यति। अमेरिक्कायाः एकविंशं कुजग्रहदौत्यं भवति इदम्।

     ह्यस्तने रात्रौ एव इन्सैट् कुजोपरितलम् अस्पृशत्। ३६० किलो परिमितं भवति पेटकस्यास्य भारम्। गते मेय् मासे कालिफोर्णियातः अस्य विक्षेपणं जातम्। दौत्यस्यास्य निर्णायकं घट्टमेव ह्यस्तने सञ्जातम्।

     प्रतिहोरं १९८०० की.मी. वेगे सञ्चरत् क्रमशः वेगनियन्त्रणेन पारषूट् साहाय्येन च इदं कुजोपरितलम् अस्पृशत्। षण्मासाभ्यन्तरे ३०१ दशलक्षं योजनादूरं तीर्त्वा एव पेटकमधुना लक्ष्यस्थानं सम्प्राप्तमभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *