नों चोंस्कीवर्यः श्वः नवतिं प्रविशति।

फिलाडल्फिया- विख्यातः भाषाशास्त्रज्ञः तथा राजनैतिक-तत्त्वचिन्तकश्च भवति नों चोंस्कि वर्यः। तस्य महाशयस्य नवतितमं जन्वदिनं डिसम्बर् ७ दिनाङ्के भवति। १९६० कालघट्टेषु पौराधिकारप्रगतेः व्यापनम् अमेरिक्कायां विद्यालयेषु कलालयेषु शिक्षा संस्थासु च जातम्। तदानीं छात्राणां कृते ऊर्जदायकः आसीत् नों चोंस्कि वर्यः। अधुना नवतितमे वयस्यपि अक्कादमिक-राजनैतिकरंगे स सजीवः भवति।

     भाषाशास्त्राध्ययने द्रुतपरिवर्तनमेव अस्य सिद्धान्तैः आविष्कृतम्। १९५० कालघट्टेषु अनेन प्रवृत्तिपथमानीतः सार्वलौकिकव्याकरणाख्यः भाषाशास्त्रसिद्धान्तः मानविकैकतां सूचयति।

     १९२८ डिसम्बर् ७ दिनाङ्के अमेरिक्कायां पेन्सिल् वेनिया राज्ये फिलाडल्फियायां  मध्यवर्गजूतपरिवारे अयं भूजातः। १५ तमे वयसि पेन्सिल् वेनिया विश्वविद्यालये अध्ययनमारब्धः। १९५५ तमे वर्षे भाषाशास्त्रे विद्यावारिधिबिरुदं सम्पादितवान्। १९५६ तमे वर्षे मास्च्युरैस् इन्स्टिट्यूट् आफ् टेक्नोलजी संस्थाने अध्यापको बभूव। अधुनापि भाषापठनविषये तस्य सिद्धान्तस्य प्रामुख्यमस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *