Category Archives: News Updates

केरलस्थान् मत्स्यकर्मकरान् नोबल् पुरस्कारार्थं प्रस्तोष्यति।

केरलस्थान् मत्स्यकर्मकरान् नोबल् पुरस्कारार्थं प्रस्तोष्यति इति लोकसभासदस्यः शशी तरूर् वर्यः अवदत्। केरलेषु सञ्जाते महाप्रलये तैः कृतानि रक्षाप्रवर्तनानि संसूच्यैव प्रस्तुतिः भविता इति तेनेक्तम्। शान्तिभिभागे दीयमानाय पुरस्काराय बाह्यनामाङ्कनरूपेणैव प्रस्तावः भविष्यतीति सूचना।

२०१८ आगस्त् मासे सञ्जाते महाप्रलये तेषां सेवनं अतिमहत्तरमासीत्। सैन्येनापि अप्राप्यान् प्रदेशान् गत्वा सहस्राधिकान् जनान् सुरक्षितस्थानमनयन् ते। अतः केरलानां सैनिकाः इति मुख्यमन्त्री तान् विशिनष्टि स्म।

अमेरिक्का श्रेष्ठवनितापुरस्कारः मिषेल् ओबामा वर्यायै।

वाषिङ्टण्- अमेरिक्कीया श्रेष्ठवनिताचयने हिलारि क्लिन्टन् वर्यां पराजित्य मिषेल् ओबामा वर्या जिता। अमेरिक्कायाः भूतपूर्वः राष्ट्रपतिः बराक् ओबामावर्यस्य पत्नी भवति मिषेल्। गतेषु सप्तदशवर्षेषु अयं पुरस्कारः हिलारि क्लिन्टन् वर्यया स्वायत्तीकृतः आसीत्।

     अस्मिन् वर्षे हिलारी क्लिन्टन् तृतीयस्थानमागता। भूतपूर्वा राज्यसचिवा तथा तत्कालीनराष्टंरपतेः बिल् क्लिन्टन् वर्य़स्य पत्नी च भवति हिलारी क्लिन्टन्। टोक् षो द्वारा प्रसिद्धा ओप्रा विन्फ्रा एव द्वितीया।

     ग्यालप् नामकसंघेन कृतं वार्षिकं सार्वजनीनाभिप्रायसमाकलने एवेदम् अङ्कितम्। १९४६ प्रभृति ग्यालप् इदम समाकलनं सञ्चालयति।

     भूतपूर्वः राष्ट्रपतिः बराक् ओबामा एव श्रेष्ठपनरुषत्वेन चितः। डोनाल्ड् ट्रम्प् वर्यः द्वितीयस्थाने अस्ति। गतेषु ११ वर्षेषु बराक् ओबामा एव प्रथमस्थाने वर्तते।

मुम्बय्यां अग्निबाधा – पञ्च वयोधिकाः मृताः।

मूम्बै – तिलकनगरस्थे कस्मिंश्चिदावासनिलये पञ्चदशदिलयात्मके दुराबाधिते सविधे उषितानां वयोधिकानां मृतौ नगरस्थाः स्तब्धाः। मृतेषु एकपुरुषः, अन्याः वनिताः च भवन्ति। गुरुवासरे सायं अष्टवादने अग्निबाधा विदिता आग्नेयारक्षिदलाः आगत्य सुरक्षाकार्यक्रमान् स्वीकृतवन्तः। अग्निबाधायाः निदानं किमिति न को∫पि जानन्ति।

दिव्यजन्मस्मृतौ आविश्वम् अद्य क्रिस्तुमस् समारोहः।

येशुदेवस्य दिव्यजन्मस्मृतौ विश्वे सर्वत्र विश्वासिजनाः अद्य क्रिस्तुमस् समारोहे निरताः सन्ति। देवपुत्रस्य अवतारः भूमौ सञ्जातः। तच्च गोष्ठे एवासीत्। गोष्ठे बालयेशोः जन्मदिवस इति विश्वासे एव क्रिस्तुमस् आचर्यते।आविश्वं विविधेषु देवालयेषु विपुलाः समारोहाः आयोजिताः । बालयेशोः जन्मभूमौ बत्लेहेमे वैदेशिकैः सह बहवः जनाः प्रार्थनासमारोहे भागं गृहीताः। जन्मस्थले प्रादेशिकदेवालये दिव्यबलिरपि समायोजयत्।

     25 दिवसीयस्य व्रतस्य तथा प्रार्थनायाश्च अनन्तरमेव क्रैस्तवाविश्वासिनः दिव्यजन्म आचरन्ति। नक्षत्राणि तृणागारः, क्रिस्तुमस् वृक्षः इत्यादीनि समायोज्य एव विश्वाससमूहः क्रिस्तुमस् दिनं स्वागतीकरोति।

  सर्वेभ्यो नववाणीसुहृद्भ्यः क्रिस्तुमस् शुभकामनाः।

भारतसमुद्रतलं २.८ पादपरिमतं उूर्ध्वं गच्छेत्। दक्षिणकेरले महती भीषा।

नवदिल्ली- अन्तरिक्षे आगोलतापनस्य काठिन्येन अस्य शतकस्य अन्ते केरलानभिव्याप्य भारतीयसमुद्रतीरेषु समुद्रतलम २.८ पादं यावत् उन्नतिं प्राप्स्यति इति केन्द्रसर्वकारस्य जाग्रतानिर्देशः। अनेन बहवः प्रदेशाः जलाप्लाविताः भवेयुः इति अनुमीयते। दक्षिणकेरलस्य तीरप्रदेशाः महाभीषायां वर्तन्ते इति आवेदनेन सूचयति। मुम्बै प्रभृतयः पश्चिमतीरप्रदेशेषु गुजरात् राज्यस्थे कच् खंबत् प्रदेशयोः, कोङ्कणदेशे च भीषा वर्तते।
हैदरबाद् आस्थानत्वेन प्रवर्तमानायाः इन्कोय्स् इति संस्थायाः पठनानुसारमेव परिस्थितिमन्त्री महेश् शर्मावर्यः लोकसभायाम् इदमावेदयत्।गङ्गा, कृष्णा, कावेरी, गोदावरी, महानदीप्रभृतीनां तीराण्यपि भीषाप्रदेशा एवेति आवेदनमस्ति।

पर्यावरणस्य व्यतियानमेव अस्य प्रतिभासस्य कारणं स्यादिति पठनं सूचयति।

संगमग्राममाधवगणितकेन्द्रम् इरिङ्ङालक्कुटा।

इरिङ्ङालक्कुटा – यूरोपे आधुनिकगणितस्य उदयात् पूर्वं शतकेभ्यः प्रागेव आधुनिकगणिताशयानाम् आधारमधिकृत्य चिन्तितवान् गणित-ज्योतिशास्त्रप्रतिभाधनः आसीत् संगमग्राममाधवः इति विख्यातः इरिङ्गाटप्पल्ली माधवन् नम्पूतिरिः।

तृशूर् जनपदे इरिङ्ङालक्कुटासमीपे कल्लेट्टिन्करा प्रदेशस्थे इरिङ्ङाटप्पल्लिमनागृहे एव स जनिमलभत इति इतिहासपण्डितानामभइप्रायः। वटश्शेरि परमेश्वरादारभ्य कटत्तनाट् राजा शङ्करवर्मा महाशयपर्यन्ता ४०० वर्षीया केरलीयगणितशास्त्रसरणिः प्रसिद्धा एव। तस्याः सरणेः उपज्ञाता भवति संगमग्राममाधवः। स गोलवित् इति नाम्ना अपि व्यवह्रियते स्म।

माधवाचार्यस्य नाम्नि २०११ वर्षात् प्रभृति इरिङ्ङालक्कुटायां प्रवर्तितं गणितगवेषणकेन्द्रं भवति संगमग्राममाधवगणितकेन्द्रम्। भारतीयगणितपरम्परां गणितशास्त्रज्ञान् विशिष्य केरलसरणिं चाधिकृत्य नवसन्तानेभ्य परिचायनमेव केन्द्रस्यास्य मुख्यमुद्देश्यम्।

केन्द्रस्यास्य आभिमुख्ये –

  • भारतीयगणितसमारोहः
  • वेदगणितशिल्पशाला
  • माधवगणितपुरस्कारदानम्
  • युगणितप्रतिभासंगमः
  • गणितोत्सवः
  • गणिततीर्थयात्रा
  • गणितशास्त्रदिनाचरणम्

इत्यादयः कार्यक्रमाः आयोज्यन्ते।

अद्य राष्ट्रिय गणितशास्त्रदिनम् आचर्यते।

नवदिल्ली- गणितशास्त्रमण्डले सार्वकालिकः अद्भुतप्रतिभासः भवति श्रीनिवास रामानुज वर्यः। तस्य महात्मनः जन्मदिनं भवति दिसम्बर् २२। २०१२ तमे वर्षे तस्य १२५ तमं जन्मवार्षिकम् आभारतम् आचरितम्। अपि च तद्दिनं राष्ट्रिय गणितशास्त्रदिनत्वेन उद्घुष्टं सर्वकारैः।

     वैदिककालादारभ्य अनुस्यूतं प्रवहितायाः विज्ञानधारायाः अन्तिमा सृणिः आसीत् अयं महाभागः। चतुर्दशशतकादारभ्य अष्टादशशतकारम्भं यावत् कालघट्टः भारतीयगणितशास्त्रेतिहासे प्रोज्वलः अध्यायः आसीत्। ततः प्रवर्धिता विकसिता च भवति केरलीय गणितशास्त्र सरणिः। एषा गुरुशिष्यपरम्परा संगमग्राममाधवद्वारा उदिता। एष एव कालः यूरोपीयीधिनिवेशस्यापि काल आसीत्। अतः सुवर्णयुगस्यास्य तिरस्कारः अभवत्। अधिनिवेशशक्तयः एतद्देशीयान् राजनैतिकाधिकारान् व्यभञ्जयन् तथा धैषणिककार्याणि अवामन्यन्त च। ततः परं शतकान् यावत् भारतीयगणितशास्त्रे नवीनचिन्ताधाराः नोदिताः

     पुनः श्रीनिवासरामानुज एव एतां चिन्ताधारां पुनराविष्कृतवान्।

राजधानी अतिशैत्ये निमज्जा

नवदिल्ली- भारतस्य राजधानी नवदिल्ली अधुना अतिशैत्ये संलग्ना भवति। गतेभ्य चतुर्भ्यः वर्षेभ्यः न्यूनतमं तापमानं दिल्ल्याम् अङ्कितम्। गुरुवासरे दिल्यामङ्कितं तापमानं ४ डिग्री सेल्ष्यस् वर्तते। एतत् सामान्यतो चतुर्डिग्री न्यूनं भवति। दिनद्वयं यावत् समाना स्थितिः भविष्यतीति वातावरण निरीक्षणकेन्द्रस्य सूचना अस्ति। दिल्ली समीपस्थे गुड्गाव् स्थले तापमानं १.८. डिग्री परिमितं वर्तते। २०१४ तमे वर्षे एतादृशं न्यूनतमं तापमानम् अङ्कितमासीत्।

केरलीयच्छात्राः भाग्यवन्तः इति राज्यपालः न्या. पी.सदाशिवं वर्यः।

मलप्पुरम्- केरलेषु उन्नतशिक्षायै विपुलाः अवसराः सन्तीत्यतः अत्रत्याः छात्राः भाग्यवन्तः इति राज्यपाल न्याय. पी. सदाशिव वर्यः अब्रवीत्।  मलप्पुरं स्वलात्  नगर् म अदीन् अक्कादम्याः केम्पस् एड्यू पार्क इति शिक्षाकेन्द्रस्य उद्घाटन विधास्यन् भाषमाण आसीत् सः।

     म अदीन् अध्यक्षः इब्राहिमुल् खलील् अल् बुहारी  सन्देशभाषणं व्यदधात्। नियमसभासदस्यः पी उबैदुल्ला ए.पी. अब्दुल् करीं,  वास्तुशिल्पी नसीर् खान् प्रभृतयः आशंसामर्पयामासुः।

शबरिमला सन्निधाने भक्तजनानां महान् सम्मर्दः अनुभूयते।

पम्पा -मण्डलकालतीर्थाटनस्य अन्तिमे घट्टे समायाते शबरिमला सन्निधाने भक्तजनानां महान् सम्मर्दः अनुभूयते। ह्यस्तने ७३००० तीर्थाटकाः पम्पामार्गं सन्निधानं सम्प्राप्ताः इत्यावेद्यते। भक्तानां नियन्त्रणेेषु यद्यपि शैथिल्यं कृतं तथापि निरोधादेशस्य प्रत्यावर्तनसाहचर्यम् अधुना नास्तीति रक्षिदलस्य विश्वासः। अस्मिन् तीर्थाटनकाले शनिवासरे एव सन्निधाने महान् सम्मर्दः अनुभूतः। तदा ८०००० जनाः पम्पामार्गं सन्निधानं समगच्छन्।
मण्डलकालपरिसमाप्तेः दशदिनानि अवशिष्यते। अतः सम्मर्दः अधिकं स्यादिति प्रतीक्षा अस्ति। राज्यान्तरतीर्थाटकाः अपि बहवः आगच्छेयुः।