Category Archives: News Updates
शबरिमला निरीक्षणसमितिः श्वः सन्निधानं प्राप्स्यति।
कोच्ची- उच्चन्यायालयेन नियुक्ता शबरिमलानिरीक्षण-समितिः कुजवासरे अय्यप्पसन्निधानं प्राप्स्यति। अद्य निलक्कल् इति विश्रामकेन्द्रं प्राप्य समितिः सौविध्यानि अधिकृत्य अालोचनां करिष्यति। ततः सन्निधानं प्रति प्रस्थास्यति। ह्यः आलुवा अतिथिमन्दिरे समितेः प्रथमम् अधिवेशनं सम्पन्नम्। देवस्वसमितेः अध्यक्षप्रभृतिभिः सह समित्यङ्गानि चर्चामकुर्वन्।
निरोधनाज्ञाप्रभृतिषु नैयामिकेषु समितेः नियन्त्रणं न भविता इति अधिवेशनानन्तरं समित्यङ्गं न्यायाधिपः पी.आर्. रामन् अवदत्।
शान्तिपरिपालनं निरोधनाज्ञानुदेशः इत्यादीनि न्यायालयस्य परिगणनायां सन्ति। शबरिमलायाः असौविध्यानि अधिकृत्य अधुना सूचना नास्ति, तानि तत्र गत्वा अवलोकनं करिष्यति इत्यपि स न्यगादीत्।
तीर्थाटनकेन्द्रे तीर्थाटकानां वैषम्यं न्यूनीकर्तुं समितेः प्रवर्तनं भविता। नियन्त्रणेषु शैथिल्यं भविष्यति। न्यायालयनिर्देशानामनुसरणमेव समितेः लक्ष्यम् इति न्याया. रामन् वर्यः अवदत्। अन्ये समित्यङ्गे न्या. सिरिजगन्, डी.जी.पी. हेमचन्द्रन् तथा देवस्वं समितेः अध्यक्षः पद्मकुमार्, अन्यानि अङ्गानि च अधिवेशने भागमभजन्त।
संसद् मन्दिरं प्रति कृषकाणां पथसञ्चलनम्।
नवदिल्ली- कृषकाणां समस्याः चर्चितुं संसदः पृथक् अधिवेशनम् आयोजनीयम् इति आवश्यमुन्नीय कृषकाः अद्य संसदं प्रति पथसञ्चलनं विधास्यति।
कृषकैः अभिमुखीक्रियमाणाः समस्याः बहवः सन्ति। तासां परिहारार्थं पृथगधिवेशनम् आवश्यकमित्येव तेषाम् आवेदनम्। अखिलभारतीय-कृषकसंघसंयोजनसमितेः नेतृत्वे एव प्रक्षोभः। २०७ संघटनानां संयोजनेनैव समितिरेषा प्रवर्तिता। २१ राजनैतिकदलानि प्रक्षोभार्थं योगदानं विधास्यन्ति।
पृथक् संसन्मेलनमायोजनीयं, पथसञ्चलने भागं गृहीतव्यम् इति च सूचयन्ती समितिरेषा प्रधानमन्त्रिणं नरेन्द्रमोदीवर्यं विपक्षदलनेतारं राहुल् गान्घीवर्यं च अभ्युपगमत्।
दिल्लीप्रान्तेषु पञ्चभ्यः केन्द्रेभ्यः सहस्रपरिमिताः कृषकाः पद्भ्यां चलन्तः रामलीला अधिवेशनस्थलं प्रापन्। ततः लक्षपरिमिताः ते संसदं प्रति पथसञ्चलनं करिष्यन्ति।
हैसिस् नामकः भौमनिरीक्षणोपग्रहः अद्य भ्रमणपथं प्राप्स्यति।
चेेन्नै – अतिनूतनं भौमनिरीक्षणोपग्रहं हैसिस्आख्यं भारतम् अद्य भ्रमणपथं प्रापयति। श्रीहरिक्कोट्टातः भवति अस्य विक्षेपणम्। तत्र सतीष् धवान् शून्याकाशकेन्द्रात् प्रातः ९.५७ वादने विक्षेपणं निश्चितमस्ति। भारतीय-शून्याकाश-पर्यवेक्षणसंघः (ISRO) तद्देशीयत्वेन रूपकल्पितः भवति अयमुपग्रहः।
पी.एस्.एल्.वी. सी.४३ एव हैसिस् उपग्रहं भ्रमणपथं प्रापयति। हैसिस् अतिरिच्य अमेरिक्काप्रभृतीनां राष्ट्राणां ३० लघूपग्रहान् अपि पी.एस्. एल्. वी. सी.४३ विक्षेपणं करिष्यति।
भौमोपपितलस्य अतिसमीपनिरीक्षणमेव हैसिस् विक्षेपणेन लक्ष्यीक्रियते। अस्य भारः ३८० किलो परिमितः भवति।
कुजग्रहस्य निगूढतां प्रति इन्सैट् पेटकस्य सन्निवेशः। नासायाः नूतनं दौत्यं विजयकरम्।
न्यूयोर्क्- नासा संस्थायाः नूतनं कुजग्रहदौत्यं विजयकरम् अभवत्। निगूढं कुजग्रहोपरितलं प्रति इन्सैट् पेटकस्य समुपगमः जातः। कुजान्तरिक्षमन्विष्य साहसिकयात्रायाः अनन्तरमेव नासाया इदं दौत्यम्।
इतः परं वर्षद्वयं यावत् पेटकस्यास्य प्रवर्तनं तत्र भविष्यति। अमेरिक्कायाः एकविंशं कुजग्रहदौत्यं भवति इदम्।
ह्यस्तने रात्रौ एव इन्सैट् कुजोपरितलम् अस्पृशत्। ३६० किलो परिमितं भवति पेटकस्यास्य भारम्। गते मेय् मासे कालिफोर्णियातः अस्य विक्षेपणं जातम्। दौत्यस्यास्य निर्णायकं घट्टमेव ह्यस्तने सञ्जातम्।
प्रतिहोरं १९८०० की.मी. वेगे सञ्चरत् क्रमशः वेगनियन्त्रणेन पारषूट् साहाय्येन च इदं कुजोपरितलम् अस्पृशत्। षण्मासाभ्यन्तरे ३०१ दशलक्षं योजनादूरं तीर्त्वा एव पेटकमधुना लक्ष्यस्थानं सम्प्राप्तमभवत्।
शर्माजी पुरस्कारः चन्द्रशेखरप्रभुवर्याय।
कोच्ची- संस्कृतशिक्षकेषु प्रागद्भ्यं प्रकटितवते दीयमानः शर्माजीपुरस्काराय अस्मिन् वर्षे चन्द्रशेखरप्रभुवर्यः चितः। कोच्ची मट्टाञ्चेरिस्थे तिरुमल देवस्थान उच्चविद्यालये संस्कृताध्यापकः भवति श्रीमान् प्रभुः। संस्कृतप्रशिक्षणवर्गे प्रयुक्तिपुरुषत्वेन अस्य सेवनं महत्तरं भवति। अयम् उत्तमः संस्कृतप्रचारकः पण्डितश्च भवति।
केरलेषु संस्कृतप्रचाराय आजीवं प्रयतमानस्य श्रीमतः कृष्णशर्मणः नाम्नि दीयमानः अयं पुरस्कारः प्रतिवर्षम् दीयते। विश्वसंस्कृतप्रतिष्ठानेन अयं पुरस्कारः आयोजितः।
केन्द्रमन्त्रिणः पोन् राधाकृष्णन् वर्यस्य वाहनव्यूहं रक्षिदलैः निरुद्धमिति विवादः।
पम्पा- शबरिमला दर्शनार्थमागतस्य केन्द्रीय वित्तसहमन्त्रिणः पोन् राधाकृष्णन् वर्यस्य यानं पम्पासमीपे रक्षिदलैः निरुद्धमिति विवादः। तस्य प्रतिवचनरूपेण रक्षिदलस्य विशदीकरणं च शबरिमला तीर्थाटने नूतनम् अध्यायं व्यरचयत्।
पम्पा बस् निस्थानसमीपे मन्त्रिणः वाहनं रक्षिपुरुषैः निरुद्धमिति भ.ज.पा. दलस्य नेतारः आक्षेपम् उन्नीतवन्तः। किन्तु मन्त्रिणः यानं न निरुद्धं तद्व्यूहेषु अन्यतमं यानमेव निरुद्धमिति रक्षिदलस्य विशदीकरणम्। प्रक्षोभे भागं गृहीतः कश्चन तस्मिन् य़ाने अस्तीति सूचना लब्धा, शङ्का निवृत्यर्थं तद् यानं परीक्षितुमेव निरुद्धमिति पम्पायां नियुक्तः सेनाविशिष्टाधिकारी हरिशङ्कर् वर्यः अवदत्।
लोकसभायाः वयनाट् सदस्यः एं ऐ षानवास् वर्यः कालकबलीभूतः।
चेन्नै- वरिष्ठः कोण्ग्रेस् दलनेता तथा वयनाट् मण्डलस्य लोकसभासदस्यः एं ऐ षानवास् वर्यः अन्तरधात्। बुधवासरे प्रातः ३.३० वादने चेन्नै नगरे अप्पोलो चिकित्सालये आसीत् अस्यान्त्यं। नवम्बर् २ दिनाङ्के यकृन्निरोपणार्थं शस्त्रक्रियाचिकित्साम् अतीतः आसीत्।
अयं वर्यः अधुना केरला प्रदेश् कोण्ग्रेस् समितेः प्रवर्तनाध्यक्षः भवति। छात्र-युवकसंघेषु राज्यस्तरीयं नेतृत्वम् अनेन निर्व्यूढम्। अस्य भौतिकं देहम् अद्य केरलमानेष्यति। संस्कारकर्म श्वः एरणाकुलं तोट्टप्पल्ली स्थले भविता।
कृत्रिमसूर्यं निर्मातुं चीना राष्ट्रस्य उद्यमः।
सौरयूथस्य केन्द्रं भवति सूर्यः। तं सूर्यं कृत्रिमत्वेन सृजते चेत् का अवस्था इति चिन्तयतु। तादृशे उद्यमे मग्नं भवति चीनाराष्ट्रम्। भूमौ अत्यावश्यकम् ऊर्जं लब्धुमेव कृतकसूर्यं निर्माति इति चीनायाः सूचना।
आवेदनानुसारं हेफि इन्स्टिट्यूट् आफ् फिसिक्कल् सयन्स् संस्थानस्य़ शास्त्रज्ञाः भौमाधिष्ठितं सण् सिमुलेट्टर् इति सूर्यप्रचोदकं निर्मीतुं सन्नद्धाः भवन्ति।
आधारत्वेन इदमेकं आणव फ्यूषन् रियाक्टर् भवति। १० कोटि सेल्ष्यस् मितं तापम् उत्पादयितुं समर्थं भवदीदं रियाक्टर्। सूर्यात् १.५ कोटि सेल्ष्यस् तापमेव लभ्यते। दौत्यं पूर्णं भवति चेत् आणवोर्जरंगे महान्तं पादविन्यासं भवेदितम्।
पूर्वं वीथीदीपानां स्थाने कृतकतन्द्रस्य निर्माणे अपि चीनायाः उद्यमः आसीत्। इयं पद्धतिः २०२० तमे वर्षे पूर्णं भविता।
तमिल् नाटु राज्ये नाशं वितीर्य गज चक्रवातः. अर्धलक्षाधिकान् जनान् परिवर्त्य आवासयत्।
चेन्नै- तमिल् नाटु राज्ये नागपट्टणं, कटलूर्, रामनाथपुरं तथा पुतुच्चेरिस्थे कारक्कल् प्रभृतिषु स्थलेषु नाशं वितीर्य गज इति चक्रवातः तीरमागतः। प्रतिहोरं ११० कि.मी. वेगे वीजिते वाते सहस्रपरिमितानां प्रासादानां हानिः संजाता। वृक्षाः उन्मूल्य पतिताः। चेन्नै प्रभृतिषु स्थलेषु महावृष्टिरपि सञ्जाता।
तमिल् नाटु-केरल सीमाप्रान्तेषु शुक्रवासरे अपि घोरा वृष्टिः भविता इति वातावरणविभागस्य सूचना।
पञ्चदिनात् पूर्वं वंगसमुद्रे चेन्नैतः ९२५ कि.मी. दूरे गज चक्रवातः समापन्नः। तमिल् नाटुस्थे कटलूर् तथा आन्ध्रथे श्रीहरिक्कोट्टा स्थलस्य च मध्ये चक्रवातः भविष्यति इत्यासीत् पूर्वप्रवचनम्। ततः वातस्य गतिः परिवृत्य नागपट्टणं कटलूर् तीरं प्रति प्रस्थितः। बस्-रेल् यानानि सेवनम् स्थगितानि।
चक्रवातदुरितमालक्ष्य बहुषु प्रान्तेषु विद्यालयानां विरामः घोषितः। तथा विश्वविद्यालयानां परीक्षा परिवर्तिता च।
२५ वर्षाभ्यन्तरे मानवः कुजग्रहं प्राप्स्यति, नासा संस्थायाः द्रढीकरणम्।
वाषिङ् टण्- आगामिनि २५ वर्षाभ्यन्तरे मानवं कुजग्रहं प्रति प्रेषितुं परियोजनया सह अमेरिका शून्याकाशसंस्था नासा आगता। एतदर्थं परीक्षणानि आरब्धानि इति नासावृत्तम् असूचयत्।
एतत् बृहत्तमं दौत्यं भवति। न केवलम् आर्थिकव्ययम् अपितु साङ्केतिकम् अग्रेसरत्वमपि आवश्यकम्। कुजस्य अन्तरिक्षेण सह समीकरणं महान् प्रयास एव। २५ वर्षाभ्यन्तरे सर्वं साध्यं भविष्यति इति नासायाः वृत्तिविरतः वैमानिकः टों जोण्स् प्रत्याशां प्राकटयत्।
एतगर्थं ७१६० कोटि रूप्यकाणां व्य.म् आवश्यकं, तथापि अवरतः नव वर्षाणि अस्य प्रवर्तनाय आवश्यकानि इत्यपि स अवोचत्।










