Category Archives: News Updates
जालियन् वालाबाग् स्थले प्रणम्य कान्टर्बरी आर्च् बिषप्
अमृतसर्- जालियन्वालाबाग् राष्ट्रिय-संग्रहालयस्य सोपानेषु मुखं संयोज्य समूहहत्यायां नष्टप्राणान अनुस्मृत्य च कान्टर्बरी धर्ममुख्याध्यक्षः जस्टिन् वेल्बी वर्यः। पञ्चाब् राज्यस्थे जालियन्वालाबाग् स्थले ब्रिट्टीष् सेन्येन कते समूहहत्याकाण़्डे क्षमां याचमानः स देवं प्रार्थयामास। ब्रिट्टन् देशस्थायाः आङ्ग्लिक्कन् सभायाः अध्यक्षः बिषप् वेब्ललीवर्यः कुजवासरे एव जालियन्वाललाबाग् स्थलमागतवान्।
ते किमकुर्वन् इति ते स्मरेयुः, तेषां स्मरणा सजीवा तिष्ठेत् अत्र संजातम् आगस्कर्म स्मरन् लज्जालुर्भवामि, तस्मिन् खेदं निवेदयामि। धर्माध्यक्षः इत्यवस्थायां तं दुरन्तमनुस्मृत्य विलपामि- इति आर्च् बिषप् अवदत्। सन्दर्शनसूचनां चित्राणि च स ट्विट्टर् द्वारा प्रकाशितवान्। अमृतसरे समूहहत्या संजातं स्थलम् अद्य साक्षात्कृतवान् तदा अहं कठिनां व्यथां अगाथा लज्जां च अनुभवामि। अत्र बहवः सिख् हेन्दव इस्लामीय जनान् ब्रिट्टीष् सेन्यं गोलिकाप्रहारेण व्पायादयत्। इति स ट्विट्टर् मध्ये सूचितान्।
जालियन् वालाबाग् समूहहत्यायाः शततमे वार्षिके तां हत्यां विनिन्द्य स ट्विट्टर् द्वारा क्षमाम् याचते स्म।
सर्वकारं सैन्यं न्यायतन्त्रं च विमर्शयितुं पौराणामधिकारः अस्ति। तत् राष्ट्रद्रोहत्वेन व्याख्यातुं न शक्नोति- न्यायाधीशः दीपक् गुप्ता।
अहम्मदाबाद्- सर्वकारं सैन्यं न्यायतन्त्रं च विमर्शयितुं भारते पौराणाम् अधिकारः अस्ति। तादृशं विमर्शनं राष्ट्रद्रोहपरमिति व्याख्यातुं न शक्यम् इति सर्वोच्चन्यायालयस्य न्यायाधिपः दीपक् गुप्तावर्यः अवदत्। तादृशं विमर्शनं यदि निरुध्यते तर्हि राष्ट्रमिदं प्रजातन्त्रघटनातः सैन्यतन्त्रघटनायां पतिष्यति इत्यपि स न्यगादीत्।
अहम्मदबादस्था काचन संस्थाया तथा न्या. पी.डी.देशायि स्मारकप्रभाषणसमितिना च संयुक्तेन आयोजिते अधिवेशने राष्ट्रद्रोहम् अभिप्रायस्वातन्त्र्यं च इति विषये भाषमाण आसीत् न्यायाधीशः।
एतत् स्वकीयः वैयक्तिकः अभिप्रायः इति सूचयन् स प्रभाषणमारभत।
केन्द्रमन्त्रिचरः वरिष्ठः अभिभाषकः रांजठ्मलानि वर्यः निर्यातः
नवदिल्ली- भूतपूर्वः केन्द्रमन्त्री सर्वोच्चन्यायालये वरिष्ठः अभिभाषकश्च रांजेठ्मलानिवर्यः दिवमगात्। स ९६ वयस्कः आसीत्। रवीवासरे प्रातः एव स ऐहिकं देहमत्यजत्। अधुना राष्ट्रिय-जनता-दलस्य राज्यसभासदस्यत्वेन वर्तमानः आसीत्। वाजपेयी संसदि नियममन्त्री आसीत्। रां बूल्चन्द् जेठ्मलानि इत्येव पूर्णं नाम।
सर्वोच्चन्यायालये अधिकवेतनस्वीकर्तृषु अन्यतम आसीतदयम्। भारतीय-आभिभाषकसमितेः अध्यक्षपदवीमपि अयमलंचकार।
पाकिस्तानस्य सिन्ध् प्रविश्यायां भूजातः असौ भारत-पाकिस्तानविभजनानन्तरं मुम्बै नगरमध्यवसत्।
चन्द्रयान-२ चन्द्रनिकटे, आशयविनिमयः विनष्टःः, प्रतीक्षया साकं ऐ.एस्.आर्.ओ.
बंगलूरु- चन्द्रोपरितले मृदुस्पर्शाय उद्यतस्य चन्द्रयानस्य विक्रं लान्टर् उपकरणेन सह आशयविनिमयः विनष्टः इति सूचना। चन्द्रोपरितलात् २.१ कि.मी. उन्नतिपर्यन्तं सूचनाः लब्धाः ततः बन्धः विनष्टः अभवदिति ऐ.एस्.आर्.ओ. अध्यक्षः के. शिवन् वर्यः प्रातः २.१८ वादने आवेदयत्। सूचनाः अन्विष्यमाणः अस्मि पछनानन्तरमेव किमभवदिति वक्तुं पारयामि इत्यपि डो. शिवन् वर्यः अवदत्।
साङ्केतिकसूचनाः न बहिरानीताः, चन्द्रोपरितले स्पर्शनमभवद् वा न वेति न व्यक्तः चन्द्रयानदौत्यस्य प्रधानांशभूतम् ओर्बिट्टर् एकवर्षं यावत् चन्द्रं प्रदक्षिणीकुर्वदवतिष्ठते। विक्रं लाण्टरेन सह बन्धः पुनःस्थापयितुं शक्यते इति प्रतीक्षया तिष्ठति ऐ.एस्.आर्.ओ. संस्था।
अद्य अध्यापकदिनम्।
स्वतन्त्रभारतस्य द्वितीयः राष्ट्पतिः विद्याभ्यासविचक्षणः क्रान्तदर्शी चासीत् डो. एस् राधाकृष्णः। अयं शास्त्रसाङ्केतिकमण्डलानां साहाय्येन अन्धकाराविष्टस्य भारतस्य नवोद्धारणाय यत्नं कृतवान्। अस्य महात्मनः जन्मदिनं (सेप्तंबर् ५) देशीयाध्यापकदिनत्वेन आचरति। विद्याभ्यासः, मानविकता, स्वतन्त्रता, देशीयबोधः, लोकसमाधानम् इत्यादिषु विषयेषु अयं महात्मा प्रभाषणानि व्यदधात्। चत्वारिंशदधिकानां ग्रन्थानां रचनाद्वारा प्रथितस्यास्य आत्मकथा भवति मम सत्यान्वेषणम्। स्वामिनः विवेकानन्दस्यानन्तरं भारतसंस्कारं, तत्वचिन्ताञ्चाधिकृत्य समस्तलोकान् प्रति विज्ञापितवानयं महाभागः गुरूणां गुरुरिति गण्यते। अस्मिन् दिने सर्वेभ्यो गुरुभ्यो अध्यापकदिनस्य शुभाशयाः।
शिक्षामन्त्रिणः श्रावणोत्सवाशंसाः
तिरुवनन्तपुरम्- केरलदेशः पुनरपि श्रावणोत्सवं स्वागतीकर्तुं सन्नह्यति। अतिभीकरे जलोपप्लवे ईषत् शान्ते जाते केरलीयाः स्वकीयम् उत्सवं सम्यगाचरितुं सज्जाः भवन्ति। हस्तनक्षत्रादारभ्य श्रावणोत्सवः आचर्यते केरलीयैः।
अस्मिन् वर्षे सेप्तम्बर् द्वितीये दिने एव हस्तनक्षत्रम् आयाति। तद्दिने केरलीयेषु सर्वेषु विद्यालयेषु श्रावणोत्सवसमारोहः भवतीति शिक्षा विभागस्य सूचना आसीत्। अनेन सह शिक्षामन्त्रिणः सन्देशः सर्वेषु विद्यालयेषु पठनीयः इत्यपि सूचना आसीत्। सन्देशे/स्मिन् शिक्षामन्त्री सूचयति यत् केरलीयानां सर्ग-राग-वर्ण-उत्सवः भवति ओणम् इत्याख्यःश्रावणोत्सवः। एषः मनः शरीरं अन्तरिक्षं च शुद्धीक्रियमाणः वर्णोत्सवः भवति। अस्मिन् वर्णोत्सवे अस्माभिः अधिकतया उपयुज्यमानः प्रकृतिविभवः भवति वर्णपुष्पाणि। प्रतीकात्मकरूपेणैव पुष्पाणि अस्माभिः एतदर्थम् उपयुज्यन्ते।
सहजीविनां प्रकृतेश्च वेदनाः प्रत्यभिज्ञाय सा स्वस्यैव वेदना इति निर्णीयमानस्य मनसः स्वामी भवितुम् अयमुत्सवः अस्मान् प्रेरयति। समत्वभावानां लय एव ओणोत्सवः। तथा सन्तुलनस्य केन्द्रबिन्दुश्च भवति। मानवमनसः श्रेष्ठतायाः प्रभवस्थानं भवति अयमुत्सवः। धर्मनिरपेक्षं मन एव अस्योत्सवस्य योगदानम्।
सन्देशोयं ह्यस्तने सर्वेषु विद्यालयेषु पठितः अस्ति।
भूतपूर्वःकेन्द्रमन्त्री आरिफ् मुहम्मद् खान् केरलस्य नूतनः राज्यपालः।
नवदिल्ली- केन्द्रमन्त्रिचरः आरिफ् मुहम्मद् खान् वर्यः केरले राज्यपालत्वेन नियुक्तः। इदानीन्तनः राज्यपालस्य ज. पी. सदाशिवं वर्यस्य दायित्वं सेप्तम्बर् प्रथमे वारे अवसितं भविता। अत एव नूतनं राज्यपालं न्ययुङ्क्त। ईसस्य स्वकीये राज्ये राज्यपालपदवीं स्वीकर्तुम् अतीव सन्तुष्टिरस्तीति नियुक्तः राज्यपालः अवदत्।
उत्तरप्रदेशे बुलन्द् शहर् देशीयः भवति आरिफ् मुहम्मद् खान् वर्यः। छात्रनेतृत्वं स्वीकृत्य अयं राजनैतिकरंगमागतः। भारतीय क्रान्ति दलस्य प्रत्याशी भूत्वा सियाना मण्डलात् निर्वाचनार्थम् अयतत। परंतु पराजितः अभवत्।
१९८० तमे वर्षे कोण्ग्रेस् दलस्य प्रत्याशी भूत्वा लोकसभां प्रविष्टः। ततः राजीवगान्धिना सह मतभेदं प्रकटय्य कोण्ग्रेस् दलं तत्याज। इस्लां व्यक्तिनियमप्रस्तावे आसीत् मतभेदः। अनन्तरं स जनतादले अंगमभवत्। जनतादल् शासनकाले अयं व्योमयान- ऊर्जविभागयोः मन्त्री अभवत्। ततः जनतादलं परित्यज्य बि.एस्.पी. दले अङ्गमभवत्। ततः १९९८ तमे वर्षे पुनः लोकसभाङ्गत्वेन चितः। २००४ तमे वर्षे भा.ज.पा. दले अङ्गत्वं स्वीचकार। २००७ तमे वर्षे स भा.ज.पा. दलमपि पर्यत्यजत्। तथापि मुत्तलाख् विषये स प्रधानमन्त्रिणं मोदीवर्यं अन्वकूलयत्।
पञ्चसु राज्येषु राज्यपालानां नियुक्तिः अद्य जाता।
ऐ.सि.टि परिशीलनम्।
इरिञ्ञालक्कुटा – उपजिल्लायां माध्यमिकस्तरीयानां संस्कृताध्यापकानां कृते एकदिनात्मकम् ऐ.सि.टि परिशीलनं प्राचलत्। उपजिल्ला संस्कृताध्यापककौण्सिल् इत्यस्य नेतृत्वे बि.आर्.सि. मध्ये रामचन्द्रः, ज्योतिष्, जोस् प्रभृतयः कक्ष्याचालनमकुर्वन्। अनेन परिशीलने सन्निहिताः अध्यापकाः नववाण्यामधिष्ठितानि पठनोपकरणानि, संस्कृतरचनापद्धतीः अन्तर्जालसङ्केतान् च उपयुज्य कक्षाचालनाय प्रभाविताः जाताः।
महाराष्ट्रराज्ये रासवस्तुशालायां विस्फोटनम्, दश व्यापादिताः।
मुम्बै- महाराष्ट्रराज्ये धुले मण्डले रासवस्तुनिर्माणशालायां सञ्जाते विस्फोटने दशाधिकाःजनाः व्यापादिताः। शालायां दीर्घगोलभङ्गेनैव विस्फोटनं सञ्जातमिति सूचना। शनिवासरे प्रातः ९.४५ वादने विस्फोटनं संजातमिति पी.टी.ऐ. आवेदयति। मृतानां संख्या आधिकारिकतया न स्थिरीकृता।
स्फोटनसमये शालायां दशाधिकाः कर्मकराः आसन्निति आरक्षिणः वदन्ति। अनेके रुगणाः च संजाताः। आरक्षिदलं अग्निशमनसेना दुरन्तनिवारणसेना च रक्षाप्रवर्तने व्यापृताः सन्ति।
वी.जे.टी.सभागृहस्य नाम परिवर्तयति, अय्यङ्कालिमहात्मनः नाम ददाति इति मुख्यमन्त्री।
तिरुवनन्तपुरम्- विक्टोरिया जूबिली टउण् हाल् इति सभागृहस्य इतः परम् अय्यङ्कालिमहात्मनः नाम योजयतीति मुख्यमन्त्री पिणरायि विजयः अवदत्। केरलस्य नवोत्थानरणाङ्कणे विशिष्टं योगदानं कृतवतः अय्यङ्कालीमहात्मनः आदरसूचकत्वेन एव नाम परिवर्तनम्। तिरुवनन्पुतरे आयोजिते अय्यङ्कालिजयन्तीसमारेहे भाषमाणः आसीत् मुख्यमन्त्री।
विक्टोरिया राज्ञ्याः किरीटधारणसुवर्णजयन्तीसमारोहस्य स्मरणार्थमेव अनन्तपुर्याम् एतत् सभागृहं निर्मितम्। १८९६ तमे वर्षे श्रीमूलं तिरुनाल् महाराजस्य शासनकाले आसीत् अस्य निर्मितिः। अस्मिन् मन्दिरे एव तिरुवितांकूर् विधानसभा प्रवर्तिता आसीत्। अत्र विधानसभायाम् अङ्गमासीत् अय्यङ्काळीमहात्मा। महात्मनः अस्य ऐतिहासिकानि प्रभाषणानि अस्मिन् सभागृहे मुखरितानि आसन्।











