Category Archives: News Updates

आमसोण् वने सम्पूर्णे दग्धे किं भविष्यति? फलं भीतिजनकं स्यात्।

विश्वे बृहत्तमेषु वृष्टिवनेषु अन्यतमं आमसोण् वनं दावाग्नौ दह्यते। ब्रसील् भरणाधिकारिणः भूखननसंधस्य च समया एव वह्नेः अनिर्वापनस्य मुख्यो हेतुरिति लोकराष्ट्राणाम् आवेदनस्य फलत्वेन अधुना ब्रसील् स्वकीयं सैन्यम् अग्निनिर्वापनाय प्रैषयत्।

वृक्षकृन्दनेन वनभूमिः कृषिभूमिरूपेण परिवर्तयितुं ब्रसील् सर्वकारस्य उद्यमः विश्वं महत्याम् विपदि पातयति। आमसेण् वनं विश्वस्य श्वासकोशं भवति। अस्य दहने गुरुतरा अवस्था सञ्जायते। विश्वे आवश्यकस्य प्राणवायोः २० प्रतिशतम् उत्पादनम् आमसोण् वने एव सम्भवति। अपि च विश्वस्य बृहत्तरं जैववैविध्यरूपम् इदं वनं ३० प्रतिशतं प्राणिनाम् आवासव्यवस्थापि भवति।

मृत्युकारणानां बहूनामामयानाम् औषधसञ्चयोपि भवति दक्षिणामेरिका भूखण्डस्थं आमसोण् वनम्। अस्य नाशः विश्वस्य नाशकारणं भवेत् इति शास्त्रलोकं सूचनां ददाति। दक्षिणामेरिकायाः ४० प्रतिशतं विस्तृतौ स्थितस्यास्य वनस्य नाशः वातावरणव्यतियानस्यापि कारणं स्यात्।

चन्द्रयान्-२ चन्द्रस्य अतिनिकटे वर्तते, बृहत्गर्तानां चित्राणि प्रैषयत्। साभिमानम् ऐ.एस्.आर्.ओ. संस्था।

श्रीहरिक्कोट्टा- चन्द्रस्थानि अधिकानि चित्राणि चन्द्रयान्-२ बहिरानयत्। पेटकस्था अत्याधुनिका छायाग्राहिका भवति द्वितीयं टरैन् माप्पिंग् छायाग्राहिका। तस्याः साहाय्येन गृहीतानि चित्राणि एव अधुना बहिरानीतानि।

चन्द्रोपरितले अवतरणस्य सिद्धतायै चन्द्रयान्-२ पेटकस्थानाम् उपकरणानां प्रवर्तनक्षमता एे.एस्.आर्.ओ. संस्थया परीक्ष्यमाणा वर्तते। तदर्थमेव चन्द्रोपरितलस्थानि अधिकानि चित्राणि ग्रहीतुम् उद्यते। उत्तरध्रुवस्य चित्राण्यपि अलभत। गतदिने चन्द्रोपरितलस्य ४३६५ कि.मी. दूरादेव छायाग्राहिका प्रवर्तनक्षमा जाता।

विश्वबैडमिण्टण् स्पर्धायां पी.वी.सिन्धुना सुवर्णपतकमवाप्तम्।

बेसलनगरम्- स्विट्जरलैण्डदेशस्य बेसलनगरे समायोजितायां विश्वबैडमिण्टण् स्पर्धायां भारतस्य बैडमिण्टण् क्रीडकी पी.वी.सिन्धु: स्वर्णपदकं समाप्नोत्। निर्णायकस्पर्धायां जापानदेशस्य नोज़ोमी ओकुहारा इत्येषा क्रीडिकी एकविंशति: सप्त, एकविंशति: सप्त इत्यङ्कान्तरालेन तया पराजिता। गतदिने उपान्त्यचक्रीयस्पर्धायां सिन्धुना चीनदेशस्य चेन यू फेई एकविंशति: सप्त, एकविंशति: चतुर्दश इत्यङ्कान्तरालेन पराजितासीत् ।

भूतपूर्वः केन्द्रवित्तमन्त्री अरुण् जेय्टिलीवर्यः पञ्चत्वमापन्नः।

नवदिल्ली- वरिष्ठः भा.ज.पा. दलनेता तथा केन्द्रीयवित्तमन्त्रिचरः अरुण् जेट्लीवर्यः दिवमगात्। स ६६ वयस्कः आसीत्। नवदिल्यां एयिंस् चिकित्सालये अद्य मध्याह्ने १२.०७ वादने आसीत् अन्त्यम्। एकसप्ताहं यावत् विशिष्टोपकरणसाहाय्येन तस्य प्राणान् पर्यपालयत्। श्वसनवैषम्येण अस्मिन् मासे ९ दिनाङ्के तं एयिंस् चिकित्सालयं प्रावेशयत्। शुक्रवासरे तस्य स्वास्थ्यावस्था सङ्कीर्णा जाता इति वैद्यकीय सूचना लब्धा आसीत्।

राष्ट्रपतिः रामनाथ कोविन्द् वर्यः इतरे राजनैतिकदलनेतारश्च गतदिने चिकित्सालये तं समपश्यन्।

सर्वाः चिकित्सारीतयः विफलाऋ जाताः, पूर्णतया यन्त्रसाहाय्येनैव अस्य महात्मनः प्राणान् परिपालयतीति चिकित्सालयाधिकारिणः अद्य प्रातः सूचितवन्तः आसन्।

प्रथमे मोदीसंसदि वित्तमन्त्रिरूपेणैव अरुण् जेट्लीवर्यः श्रद्धेयः अभवत्। प्रथमं वित्तमन्त्रालयेन सह प्रतिरोधमन्त्रालयस्यापि दायित्वम् अयमेव निरवहत्। जेट्लीवर्ये वित्तमन्त्रिपदस्थे एव राष्ट्रे मुद्रानिरोधः तथा वस्तु-सेवा-करः च प्राबल्ये आनीतः असीत्। वृक्कासम्बन्धेन आमयेन गतवर्षे एयिंस् चिकित्सालये प्रवेशितः आसीत्। ततः वृक्कापरिवर्तनम् कृतमासीत्। २०१९ लोकसभा निर्वाचने स प्रत्याशी नासीत्।

चन्द्रयान्-२ पेटकेन गृहीतं चन्द्रस्य चित्रं बहिरानीतम्।

श्रीहरिक्कोट्टा- चन्द्रमुपगम्यमानेन चन्द्रयान्-२ पेटकेन गृहीतं चन्द्रस्य प्रथमं चित्रं ऐ.एस्.आर्.ओ. संस्था बहिरानयत्। चन्द्रोपरितलात् २६५० किलोमीट्टर् दूरादेव चन्द्रयान्-२ एतच्चित्रमग्रहीत्। अप्पोलो गर्तं मेर् ओरियन्टल् च चित्रे द्रष्टुं शक्यते।

चन्द्रयान्-२ भूमेः भ्रमणपथात् आगस्त २० दिनाङ्के चन्द्रस्य परिथिं प्राविशत्। २१ दिनाङ्के अस्य सञ्चारपथं चन्द्रम् उपानीतमासीत्।

अधुना चन्द्रमण्डलात् अवरतः ११८ कि.मी. परमतः ४४१२ कि.मी. च दूरपरिथौ दीर्घवृत्ताकारेणैव चन्द्रयान-२ परिभ्रमति। आगस्त् २८, ३०, सेप्तम्बर् १ दिनाङ्केषु पुनः अस्य पेटकस्य भ्रमणपथं संकोच्य चन्द्रमण्डलसमीपं नेष्यति।

दशमवर्गपरीक्षा लघ्वीकृता। सी.बी.एस्.इ. संस्थया परीक्षायां परिवर्तनम् उद्घोषितम्।

नवदिल्ली- २०२० तमे वर्षे केन्द्रिय-माध्यमिक-शिक्षासंस्थया स्वकीयपरीक्षायां छात्रेभ्यः प्रश्नपत्राणि ललितानि क्रियन्ते। दशमवर्गपरीक्षार्थिनां कृते विवरणात्मकप्रश्नानां संख्या न्यूना भविता इति परीक्षानिगमः कुजवासरे ट्विट्टर् द्वारा व्यजिज्ञपत्।

हिन्दी, आङ्गलम्, शास्त्रम्, गणितम्, समाजशास्त्रम्, संस्कृतम् प्रभृतिषु विषयेषु आगामिन्यां परीक्षायां विवरणात्मकानां प्रश्नानां संख्या न्यूनीकरिष्यति। छात्राः मन‌ःसंघर्षं विना परीक्षां लेखितुम् अनेन प्रभवेयुः इति निगमः ट्विट्टर् मध्ये वदति।

अध्यापकानां कृते केन्द्रसर्वकारस्य प्रशिक्षणपद्धतिः- निष्ठा।

नवदिल्ली- विश्वे बृहत्तरेण प्रशिक्षणकार्यक्रमेण सह केन्द्र- मानवसंसाधनमन्त्रालयः प्रगच्छति। पाठ्यचर्यायां परिवर्तने समग्रे जाते एव शिक्षकाणां प्रशिक्षणं विधातुं National Initiate on School Teachers Head holistic Advancenent(NISTHA) निष्ठा इति कार्यक्रमः। अस्य आरम्भः अस्मिन् वर्षे आगस्त् २२ दिनाङ्के भविता।

     आराष्ट्रं १९००० अधिकम् अध्यापकप्रशिक्षणकेन्द्राणि सन्ति। एतद्वारा प्रशिक्षणं विधातुमुद्दिश्यते इति अधिकारिणः सूचयन्ति।

     अध्यापकाः समाजस्य मुख्यस्तम्भाः भवन्ति। कालानुसृतं तेषां नैपुण्यं श्रेष्ठं करणीयमिति नीति आयोगस्य विशिष्टकार्यदर्शी यादवेन्द्र माथुरः अवदत्।

पादवार्षिकपरीक्षा- दशमवर्गस्य उच्चतरवर्गस्य च एकस्मिन् समये परीक्षा।

कोच्ची- सार्वजनीनविद्यालयेषु नवीकृतः परीक्षाक्रमः पादवार्षिकपरीक्षायाः आरभ्य अनुवर्तयितुम् शिक्षाविभागः सन्नह्यति। परन्तु नवीकृते समयक्रमे परीक्षां सञ्चालयितुं सिद्धता नारब्धा इति विषये अध्यापकानाम् आशङ्का वर्तते।

पादवार्षिकपरीक्षा आगस्त २६ दिनाङ्के नूतनसमयक्रमे आरभते इति सूचना लब्धा। परं सुविधायोजनविषये कापि सूचना न लब्धा इत्यध्यापकाः कथयन्ति।

गतवर्षं यावत् उच्चतरवर्गाणां परीक्षा पूर्वाह्णे दशमवर्गस्य परीक्षा अपराह्ने च आयोजिता। मार्चमासस्य कठिने निदाघे अपराह्नसमये परीक्षा छात्राणां दुस्सहा इति बालावकाशायोगे आवेदनं लब्धमासीत्। अत एव दशमकक्ष्यापरीक्षा अस्मिन् वर्षे उच्चतरवर्गस्य परीक्षया सह सञ्चालयितुं निरणयत्। तस्य प्रतिमानरूपेण पादवार्षिकपरीक्षापि एवं सञ्चालयतीति अधिकारिभिः निगदितम्।

मतदातृपरिचयपत्रम् आधार् रेखया सह योजनीयमिति निर्वाचनायुक्तः।

नवदिल्ली- निर्वाचनपरिचयपत्रम् आधार् रेखया सह योजनीयमिति निर्वाचनायुक्तः। एतत्कार्यं संसूच्य निर्वाचनायोगः नियममन्त्रालयं प्रति लेखमलिखत्। तदर्थं १९५० वर्षस्य जनप्रातिनिध्यनियमे अावश्यकाः भेदगतयः आयोजनीय इत्यपि आयोगः वदति।

व्याजमतदानं युग्ममतदानं च निवारयितुं एतेन साध्यं स्यादिति आयुक्तः अभिप्रैति स्म। पूर्वम् ऐच्छिकरूपेण केचन मतदारः स्वकीयानि पत्राणि आधार् रेखया सह समयोजयन्नासन्। एषां संख्या ३२ कोटिपरिमिता भवति।

२०१५ तमे वर्षे संयोजनार्थं निर्वाचनायुक्तस्य उद्यमः सर्वोच्चन्यायालयेन निरुद्धः आसीत्।

राष्ट्रं स्वतन्त्रतादिनाघोषेण विराजते, अरुणदुर्गे प्रधानमन्त्री ध्वजारोहणं कृतवान्।

नवदिल्ली- ७३तमे स्वतन्त्रतादिनाघोषे राष्ट्रं विराजते। नवदिल्ल्याम् अरुणदुर्गे राष्ट्रियध्वजारोहणं प्रधानमन्त्री नरेन्द्रमोदीवर्यःव्यदधात्। राजघट्टे महात्मगान्धिनः शवकुटीरे पुष्पाणि अर्चित्वा एव स अरुणदुर्गमाविवेश। विविधानां सेनाविभागानाम् अनुरक्षकादरं स प्रत्यग्रहीत्। एतदनन्तरं प्रधानमन्त्री ध्वजम् आरोहयामास।