वी.जे.टी.सभागृहस्य नाम परिवर्तयति, अय्यङ्कालिमहात्मनः नाम ददाति इति मुख्यमन्त्री।

तिरुवनन्तपुरम्- विक्टोरिया जूबिली टउण् हाल् इति सभागृहस्य इतः परम् अय्यङ्कालिमहात्मनः नाम योजयतीति मुख्यमन्त्री पिणरायि विजयः अवदत्। केरलस्य नवोत्थानरणाङ्कणे विशिष्टं योगदानं कृतवतः अय्यङ्कालीमहात्मनः आदरसूचकत्वेन एव नाम परिवर्तनम्। तिरुवनन्पुतरे आयोजिते अय्यङ्कालिजयन्तीसमारेहे भाषमाणः आसीत् मुख्यमन्त्री।

विक्टोरिया राज्ञ्या‌ः किरीटधारणसुवर्णजयन्तीसमारोहस्य स्मरणार्थमेव अनन्तपुर्याम् एतत् सभागृहं निर्मितम्। १८९६ तमे वर्षे श्रीमूलं तिरुनाल् महाराजस्य शासनकाले आसीत् अस्य निर्मितिः। अस्मिन् मन्दिरे एव तिरुवितांकूर् विधानसभा प्रवर्तिता आसीत्। अत्र विधानसभायाम् अङ्गमासीत् अय्यङ्काळीमहात्मा। महात्मनः अस्य ऐतिहासिकानि प्रभाषणानि अस्मिन् सभागृहे मुखरितानि आसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *