महाराष्ट्रराज्ये रासवस्तुशालायां विस्फोटनम्, दश व्यापादिताः।

मुम्बै- महाराष्ट्रराज्ये धुले मण्डले रासवस्तुनिर्माणशालायां सञ्जाते विस्फोटने दशाधिकाःजनाः व्यापादिताः। शालायां दीर्घगोलभङ्गेनैव विस्फोटनं सञ्जातमिति सूचना। शनिवासरे प्रातः ९.४५ वादने विस्फोटनं संजातमिति पी.टी.ऐ. आवेदयति। मृतानां संख्या आधिकारिकतया न स्थिरीकृता।

स्फोटनसमये शालायां दशाधिकाः कर्मकराः आसन्निति आरक्षिणः वदन्ति। अनेके रुगणाः च संजाताः। आरक्षिदलं अग्निशमनसेना दुरन्तनिवारणसेना च रक्षाप्रवर्तने व्यापृताः सन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *