विश्वबैडमिण्टण् स्पर्धायां पी.वी.सिन्धुना सुवर्णपतकमवाप्तम्।

बेसलनगरम्- स्विट्जरलैण्डदेशस्य बेसलनगरे समायोजितायां विश्वबैडमिण्टण् स्पर्धायां भारतस्य बैडमिण्टण् क्रीडकी पी.वी.सिन्धु: स्वर्णपदकं समाप्नोत्। निर्णायकस्पर्धायां जापानदेशस्य नोज़ोमी ओकुहारा इत्येषा क्रीडिकी एकविंशति: सप्त, एकविंशति: सप्त इत्यङ्कान्तरालेन तया पराजिता। गतदिने उपान्त्यचक्रीयस्पर्धायां सिन्धुना चीनदेशस्य चेन यू फेई एकविंशति: सप्त, एकविंशति: चतुर्दश इत्यङ्कान्तरालेन पराजितासीत् ।

One Response to विश्वबैडमिण्टण् स्पर्धायां पी.वी.सिन्धुना सुवर्णपतकमवाप्तम्।

  1. राजी says:

    👏👏अभिनन्दनानि

Leave a Reply

Your email address will not be published. Required fields are marked *