Category Archives: News Updates

राज्ये प्रशस्तेषु सर्वकारीणविद्यालयेषु द्वितीयस्थानमाप्तस्य कोषिक्कोट् नटक्काव् सर्वकारीण विद्यालयस्य कृते अभिनन्दनम्।

तिरुवनन्तपुरम् – राज्ये प्रशस्तेषु सर्वकारीणविद्यालयेषु द्वितीयस्थानमाप्तं कोषिक्कोट् नटक्काव् सर्वकारीण -बालिका- उच्चतरविद्यालयं मुख्यमन्त्री पिणरायि विजयः अभ्यनन्दयत्। अकेरलम् अभिमानास्पदः अयमुत्कर्षः विद्यालयेनानेन प्राप्तः इत्यतः तत्रस्थान् अध्यापकान् छात्रान् रक्षाकर्तृन् च अभिनन्दयामि। अन्ताराष्ट्रतले एनं विद्यालयम् उन्नतपदवीं नेतुं साहाय्यं दत्तवते समाजाय च कृतज्ञतां ब्रवीमि इति मुख्यमन्त्री अवदत्।

एड्यूक्केशन् वेल्ड् इति संस्थया सज्जीकृतायां भारतीय-विद्यालयपरिगणना २०१९ इति लेखायामेव अयं विद्यालयः उत्कृष्टपदवीमन्ववाप। पठनकार्याणि पाठ्येतरप्रवर्तनानि अध्यापकानां कार्यक्षमता प्रशिक्षणं इत्यादीनि परिगणय्यैव स्थाननिर्णयमभवत्।

गतवर्षे अस्य विद्यालयस्य तृतीयं स्थानमासीत्। केरलस्थान् इतरान् उत्कृष्टविद्यालयानपि मुख्यमन्त्री अभ्यनन्दयत्। सार्वजनीनशिक्षाक्षेत्रे सर्वकारस्य श्रद्धा एव अस्योत्कर्षल्य मूलमिति मुख्यमन्त्री अवदत्। विद्यालयस्यास्य भौतिकसौविध्यविकासाय सामाजिकः ए प्रदीप् कुमार् वर्य‌ः बहुप्रयत्नं कृतवान्।

सार्वजनीनशिक्षासंरक्षणयज्ञस्य भागत्वेन सर्वकारस्य प्रवर्तनम् अतिविशिष्टमासीत्। अनेन ५.०४ लक्षं छात्राः सार्वजनीन विद्यालयेषु पठितुम् अधिकतया आगताः। ४७५२ माध्यमिक-उच्चतर विद्यालयस्थाः ४४७०५ कक्ष्याप्रकोष्ठाः अतितान्त्रिकरूपेण परिवर्तिता‌ः। प्राथमिकविद्यालयानपि अतितान्त्रिकसुविधान् कर्तुं योजनाः समारब्धाः इत्यपि मुख्यमन्त्री अवदत्।

संस्कृतधिषणावृत्तिपरीक्षायाः विजयिनः कृते धनराशिवितरणं सम्पन्नम्।

इरिञ्ञालक्कुटा – श्री शङ्कराचार्य संस्कृतसर्वकलाशालया प्रतिवर्षं धिषणावृत्तिपरीक्षायाम् उज्वलविजयं प्राप्तानां छात्राणां कृते धनराशिवितरणं कुलपतिना श्री धर्मराज् अटाट्ट्वर्येण कृतम्। जिल्लापञ्चायत्त् सभाङ्गः  टि.जि. शङ्करनारायणः विशिष्टातिथिरासीत्।  तृशूर् जिल्ला संयोजिका श्रीमति अम्बिका आमुखभाषणमकरोत्। नटवरम्प् उच्वविद्यालयस्य प्रधानाध्यापिका श्रीमति लाली सर्वेभ्यो स्वागतं व्याहरत्। के.डि. बिजुः, इन्दिरा तिलकः, डेय्सी जोस्, नसरुद्दीन्, एम्.के मोहनः, सि.सि. सुरेष् बाबुः, प्रसीदा प्रभृतयः अशंसाभाषणमकुर्वन्।

केरले पञ्चसु विधानसभामण्डलेषु उपनिर्वाचनम् ओक्टोबर् २१ दिनाङ्के।

नवदिल्ली- केरलेषु पञ्चसु विधानसभमण्डलेषु आगामिनि मासे २१ दिनाङ्के उपनिर्वाचनं भविता। केन्द्र निर्वाचनायुक्तेन नवदिल्याम् इदं व्यजिज्ञपत्।

     वट्टियूर्काव्, कोन्नी, अरूर्, एरणाकुलं, मञ्चेश्वरम् इत्येतेषु मण्डलेष्वेव उपनिर्वाचनम्। एषु मञ्चेश्वरे सामाजिकस्य मृत्युकारणेन अन्यत्र च सामाजिकाः लोकसभानिर्वाचने प्रत्याशिनः भूत्वा विजयिनः अभवन्निति कारणेन च उपनिर्वातनमापन्नम्। फलप्रख्यापनम् ओक्टोबर् २४ तमे दिनाङ्के भविता।

     केरलीयराजनैतिकरङ्के अस्य उपनिर्वाचनस्य अधिकं प्राधान्यमस्ति। अतः एकमासावधिकं कालं केरलदेशः राजनैतिकप्रचारणैः मुखरितो भविष्यति।

“वागेव सत्यम्” – संस्कृतह्रस्वचलच्चित्रं प्रकाशितम्।

इरिञ्ञालक्कुटा – नटवरम्प् सर्वकारीयोच्चविद्यालयस्य संस्कृतसमित्या निर्मितं संस्कृतह्रस्वचलच्चित्रं प्रकाशितम्। श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालायाः कुलपतिः डो. धर्मराज् अटाट्ट् वर्यः चलच्चित्रस्य प्रकाशनं निरवहत्। स्वकीये उद्घाटनभाषणे  सुरेष् भाबु महाशयस्य तस्य विद्यालयस्य च संस्कृतभाषायाः कृते सम्मानितः महत् परिश्रमः भवति अयं संरंभ इति  कुलपतिरवदत्।

     आधुनिकहरिश्चन्द्रस्य कश्चन सत्यसन्धस्य कथा भवति वागेव सत्यम्। यथार्थतया संभूतः कश्चन घटनामतिजीव्य संस्कृताध्यापकेन श्री सुरेष् बाबुवर्येण कथां पटकथां च संरचय्य निर्मितम् इदं सिनिमा १९ निमेषाभ्यन्तरे अस्माभिः करणीयानां वाग्दानानां परिस्फूर्तये यत्किमपि सुवर्णनिधिरपि त्याज्यः इति अस्मान् स्मारयति। षाजु पॊट्टक्कल् वर्येण संविधानं कृतस्य अस्य चलच्चित्रस्य छायाग्राहकः भवति दिलीप् हरिपुरम्। नटवरम्प् उच्चविद्यालयीयछात्राः अध्यापकाः, विक्रमः, बिजु दिवाकरः, बाबु कोटश्शेरी, षाजुः करपरम्पिल्, जीना, कृष्णप्रिया, आदिदेवः, एम्.के मोहनः, प्रशान्तः, सि.वि जोस् आदयः अस्मिन् भागं गृहीतवन्तः। कार्यक्रमे अभिनेतारः  अन्ये कर्मकराश्च पुरस्कारैः समादृताः।

‘वागेव सत्यं’ click here……

संस्कृतशिक्षायै सर्वकारः प्रोत्साहनं दद्यात्।- प्रमीला शशिधरन्।

पालक्काट्- संस्कृतभाषायै युक्तं प्राधान्यं सर्वकारैः न दीयते इत्येतत् खेदकरमेव, अतः विद्यालयेषु पर्याप्तसंख्यकान् शिक्षकान् नियोजयेयुः इति पालक्काट् नगरसभाघ्यक्षा प्रमीला शशिधरन् अवादीत्। केरलसर्वकारस्य सार्वजनीनशिक्षाविभागस्य नेतृत्वे वटक्कन्तरा कृष्णकृपा अधिवेशनालये राज्यस्तरीय-संस्कृतदिनाचरणमे उद्घाटयन्ती भाषमाणा आसीत् सा।

छात्रेषु सच्छीलं संवर्धयितुं संस्कृतभाषाध्ययनं पारयति। उपनिषदादयः संस्कृतभाषायामेव रचिताः। वरिष्ठाः भक्तिमार्गं यदा प्रविशन्ति तदा भक्तिग्रन्धानध्येतुं संस्कृताध्यय सन्नद्धाः भवन्ति। अतः संस्कृतशिक्षाविकासाय सर्वकारैः इतोप्यधिकं प्रोत्साहनं देयमिति सा न्यगादीत्।

नगरसभासमित्यङ्गं सुमति सुरेष् अध्यक्षा आसीत्। राज्य-पाठ्यपद्धतिसमित्यङ्गं प्रो. वि. माधवन् पिल्ला वर्यः संस्कृतदिनसन्देशं प्रास्तौत्। पण्डितरत्नं डो. पी.के. माधवन् वर्यः मुख्यप्रभाषकः आसीत्।

अभिनयतिलकं कूटियाट्टकलाकारः पी.के.जी. नम्ब्यार्, पि.एन्. नटराजः, डो. एन्.एं इन्दिरा प्रभृतयः संस्कृतपण्डिताः समारोहे समादृताः। अध्यापकेभ्यः आयोजितायां साहित्यरचनाप्रतियोगितायां विजेतृभ्यः पुरस्कारान् अदात्।

सर्वाः अपि भाषाः प्रोत्साहनीयाः, भाषाः ज्ञानवाहकाः – नियमसभा सामाजिकः वि.आर् सुनिलकुमार्।

इरिञ्ञालक्कुटा – विद्याभ्यासाजिल्लास्तरीयं संस्कृतदिनाचरणं समुद्घाटयन् कोटुङ्ङल्लूर् नगरसभावेदिकायां भाषमाणः कोटुङ्ङल्लूर् नियमसभाङ्गः वि.आर्. सुनिलकुमार् वर्यः न्यगादीत् यत् सर्वाः भाषाः पठनीयाः ताः सर्वा अपि विज्ञानवाहिन्यः सन्ति।  केरलेषु श्रीमता चट्टम्पिस्वामिना संस्कृतभाषा जनकीयं कर्तुं प्रयत्नाः कृताः इति। विद्याभ्यासजिल्लाधिकारी श्रीमति एम्.के. उषा घटनायाः अध्यक्षपदमलञ्चकार। वक्तारेषु  श्रोतृषु च विज्ञानस्य स्फुलिङ्गमुद्पादयति संस्कृतभाषेति अध्यक्षया प्रोक्तम्। केरलसर्वकारीयशिक्षाविभागस्य विशिष्टसंस्कृताधिकारी डो. टि.डी सुनीतिदेवी संस्कृतदिनसन्देशम् अयच्छत्। वि.बि माधवन् नम्पूतिरिवर्यः मुख्यप्रभाषकः आसीत्। सुप्रसिद्धः नृत्तकलाकारः डो. आर्.एल्.वि. रामकृष्णवर्यः विशिष्टातिथिरासीत्। राज्यस्तरीय-संस्कृतकौण्सिल् कार्यदर्शिः श्री सुनिल्कुमार् आशंसाभाषणमकरोत्।

     प्रमुखः संस्कृतपण्डितः कारुमात्रा विजयन् वर्यः गुरुश्रेष्ठपुरस्कारेण समादृतः। संस्कृतं विना मलयालभाषा अस्थिरहितशरीरमिव भवेदिति विजयन् महाशयः उक्तवान्। नगरसभाध्यक्षः श्री जैत्रन् वर्यः आचार्यपुरस्कारसमर्पणं निरवहत्। अध्यापनासेवनात् विरामं प्राप्ताः श्रीमति विजयमणी, श्रीमति पद्मिनी, श्रीमति देवकी, पि.एल्. चाक्कोमास्टर् वर्याः अस्मिन्  सम्मेलने समादृताः।

     विद्याभ्यासजिल्ला कौण्सिल् कार्यदर्शी श्री बिजु के.डि. सम्मेलनस्य स्वागतभाषणं कृतवान्। इ.टि टैसन् वर्यः, लक्ष्मीनारायणः, एम्.वि. दिनकरः, टि.बि.सुनिल्, सुनिल्कुमार्, टि.एस्. सजीवन्, एम्.बि. अशोक्कुमार्, पि.एस् उण्णिकृष्णन् प्रभृतयः भाषितवन्तः।

अधिकदृश्यानि

राज्यस्तरीयः संस्कृतदिनसमारोहः २०१९ सेप्तम्बर् १९ दिनाङ्के पालक्काट् नगरे।

पालक्काट्- भारतस्य सांस्कृतिकं मूल्यं परम्परारूपेण संक्रम्यमाणा भाषा भवति संस्कृतम्। संस्कृतम् आधारीकृत्यैव भारते प्रान्तीयभाषाः विकसिताः पल्लविताः कुसुमिताश्च अभवन्। एषा चिरपुरातना अपि नित्यनूतना भवति। अत एव समाजः अद्य संस्कृतमाधुर्यमनुभवितुं व्यग्रो/स्ति।

     संस्कृतशिक्षाविकासाय केरलराज्यसर्वकारेण बह्यः योजनाः प्रवृत्तिपथमानीताः। प्रथमकक्ष्यातःआरभ्य संस्कृतं पठितुं सौविध्यम् अद्य केरलेष्वेव विद्यते। संस्कृतदिनाचरणमपि बहोः वर्षादारभ्य समुचितरूपेण आयोज्यते सर्वकारेण।

     श्रावणपूर्णिमातिथिरेव संस्कृतदिनत्वेन आचर्यते। १९६९ तमे वर्षे यदा  एं.सी. चग्ला वर्यः केन्द्रीयमानवसंसादनमन्त्रिपदव्याम् आसीनः तदा प्रभृत्येव संस्कृतदिनाचरणस्य प्रारम्भः अभवत्। आकाशवाण्यां संस्कृतवार्ताप्रसारः संस्कृतदिनाचरणं च सममेव प्रारभत। वाजपेयी सर्वकारः २०००-०१ वर्षः संस्कृतवर्षत्वेन समाचरत्। तदा प्रभृति संसकृतदिनाचरणं संस्कृतसप्ताहाचरणरूपेण पर्यणमयत्।

     अस्य वर्षस्य राज्यस्तरीयः संस्कृतदिनसमारोहः २०१९ सेप्तम्बर् १९ दिनाङ्के पालक्काट् श्री. एं.पी. केशवप्पणिक्कर् नगरे (कृष्णकृपा सभागृहं, वटक्कन्तरा) आयोज्यते। केरल विधानसभासामाजिकस्य षाफी परम्बिल् वर्यस्य आध्यक्ष्ये पालक्काट् लोकसभासामाजिकः वी.के. श्रीकण्ठन् वर्यः अस्य उद्घाटनं विधास्यति। सार्वजनीन शिक्षा निदेशकः डो. जीवन् बाबू ऐ.ए.एस्. वर्यः स्वागतं तथा संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवी वर्या कृतज्ञतां च व्याहरिष्यति। राज्य-शैक्षिकानुसन्धान-प्रशिक्षण परिषदः निदेशकः डो.जे.प्रसाद् वर्यः संस्कृतगिनसंन्देशं विधास्यति। पण्डितसमादरणे अभिनयतिलकं श्री. पी.के.जी. नम्ब्यार्, पद्मश्री डो. पी.आर्. कृष्णकुमार्, श्री. एन्.पी. नटराजशर्मा, डो. एन्. एम्. इन्दिरा प्रभृतयः समादरिष्यन्ते।

     मध्याह्ने स्स्कृतगानमालिका, संस्कृतं ह्रस्वचलचित्राणि प्रभृतयः सांस्कृतिककार्यक्रमाः भविष्यन्ति।

 

हिन्दीभाषायाः प्रचारणम्- अमित्षावर्यस्य प्रस्तावना अपसरणीया इति ममता बानर्जीवर्या।

कोल्कत्ता- राष्ट्रे हिन्दीभाषायाः उपयोगः व्यापनीयः इति केन्द्रिय गृहमन्त्रिणः अमित्षा वर्यस्य प्रस्तावनां निरस्य पश्चिमवंगमुख्यमन्त्री ममता बानर्जीवर्या तथा द्राविड-मुन्नेट्टकषकम् अध्यक्षः एं.के. स्टालिन् वर्य़प्रभृतयः राजनैतिकनेतारश्च रंगमागताः।

हिन्दी दीनाचरणाय आशंसामर्पयन्ती ममता बानर्जीवर्या ट्विट्टर् द्वारा एव अमित्षा वर्यस्य वादः निराकृतवती। सर्वासां भाषाणां संस्कृतीनां च आदरः अवश्यमेव, परं मातृभाषा न विस्मर्तव्या इति सा ट्वीट्टर् मध्ये असूचयत्। एकं राष्ट्रम् एका भाषा इत्याशयं संसूच्य पूर्वं अमित्षा वर्येण ट्वीट्टर् प्रकाशिता आसीत्। तदा हिन्दी भाषायाः एव तादृशी शक्तिरस्तीत्यपि तेन सूचितमासीत्।

हिन्दी भाषाप्रचारणे बलात्कारः नानुवदनीय इति एं.के. स्टालिन् वर्यः अवदत्। एतत् राष्ट्रस्य एकतायै प्रतिबन्धः, अतः अमित्षावर्येण प्रस्तावना अपसरणीय इत्यपि स अवदत्।

अद्य श्रीनारायणजयन्तीसमारोहः, आकेरलं जनाः गुरोः स्मरणायां जयन्तीमाचरन्ति।

तिरुवनन्तपुरम्-  अद्य गुरुदेवजयन्ती। विविधैः आध्यात्मिककार्यक्रमैः सर्वत्र गुरुजयन्तीसमारोहः प्रवर्तते। केरलीयः समाजपरिष्कर्ता नवोत्थाननायकश्चासीत् गुरुदेवः इति केरलीयैः व्यवह्रियमाणः श्रीनारायणगुरुदेवः।

     केरलेषु अनुवर्तितानि सवर्णाधिपत्यम् अस्पृश्यतादीनि सामाजिकासमत्वानि विरुध्य केरलीयान् नवोत्थानं प्रति नीतवान् असौ। जातिव्यवस्थां विरुद्धेषु प्रमुखः भवत्ययम्। ब्राह्मणाधिपत्यकाले विद्यालयान् मन्दिराणि च स्वयं संस्थाप्य अवर्णानाम् उन्नमनाय स प्रायतत। अहिंसापरा तत्त्वचिन्ता तस्य मुखमुद्रा आसीत्।

     १८५६ तमे वर्षे चेम्पषन्त्यां भूजातः असौ १९२८ सेप्तम्बर् २० तमे दिनाङ्के स्वकीये ७२ तमे वयसि स ऐहिकं देहं तत्याज।

     एका जातिः एको धर्मः एको देवः इत्यासीत्    तस्य सिद्धान्तः।स्वकीयानाम् आदर्शानां प्रचारणाय डो. पल्पूवर्यस्य प्रेरणया अयं १९०३ तमे वर्षे श्रीनारायणधर्मपरिपालनयोग इति संघटनां संस्थापयामास।

“जातिभेदं मतद्वेषं विना यत्र नराः समे।

सोदरत्वेन तिष्ठन्ति मातृकास्थानमप्यदः।।” इति तस्य वचनम् अद्यापि केरलेषु मुखरितं वर्तते।

अद्य श्रावण(तिरुवोण)महामहः

स्नेहस्य साहोदर्यस्य ऐश्वर्यस्य एकतायाश्च सनदेशम् उद्घोषयन् अस्माकं देशीयोत्सम् अद्य आघुष्यते। अस्मिन्नसरे सर्वेभ्यो नववाणीपरिवारस्य शुभकामनाः