प्रश्नोत्तरम् (भागः २२०) – 29-01-2022
EPISODE – 220
प्रश्नोत्तरम्।
- पुत्रः – अम्ब ! कोsपि भिक्षुकः ——–। (क) आगतवान् (ख) आगतवन्तौ (ग) आगतवन्तः
- माता – भवान् एव —–एकं नाणकं ददातु। (क) तस्य (ख) सः (ग) तस्मै
- पुत्रः – अहं पठामि भोः,भवति एव ——ददातु। (क) भिक्षुकाय (ख) भिक्षुकः (ग) भिक्षुकस्य
- माता – ——कार्यं न रोचते।अहमेव करोमि सर्वं कार्यम्। (क) भवान् (ख) भवते (ग) भवतः
- पुत्रः – भिक्षुकः नाणकं नेच्छति। ओदनम् ——-। (क) इच्छामि (ख) इच्छसि (ग) इच्छति
- माता – अहं भिक्षुकाय ——–। भवान् जलं पूरयतु। (क) ददामि (ख) ददाति (ग) ददासि
- पुत्रः – जलं पूरयामि। खादितुं ——–अपि किमपि ददातु। (क) मम (ख) मह्यम् (ग) माम्
- माता – भवते भोजनमेव ददामि। पञ्चनिमेषान् ——–। (क) तिष्ठसि (ख) तिष्ठामि (ग) तिष्ठतु
- पुत्रः – प्रातः ——भवती यत् दत्तवती तत् मह्यम् अपि ददातु। (क) भगिन्यै (ख) भगिनी (ग) भगिन्याः
- माता – भवान् केवलं खादति,न पठति,न वा कार्यं ——। (क) कुर्वन्ति (ख) कुरुतः (ग) करोति
ഈയാഴ്ചയിലെ വിജയി
MAYA P R
“അഭിനന്ദനങ്ങൾ”
१ आगतवान्
२ तस्मै
३ भिक्षुकाय
૪ भवते
५ इच्छति
६ ददामि
७ मह्यम्
८ तिष्ठतु
९ भगिन्यै
१० करोति