Monthly Archives: January 2022

राज्यस्तरीय‌ः संस्कृतदिवससमारोहः।

तिरुवनन्तपुरम्- केरल-राज्यस्तरीयः संस्कृतदिवससमारोहः २०२२ जनुवरी १८ दिनाङ्के तिरुवनन्तपुरं मणक्काट् सर्वकारीय उच्चविद्यालये सम्पत्स्यते। तद्दिने प्रातः ९-३० वादने केरलीयशिक्षामन्त्री वि-शिवन् कुट्टि वर्यः कार्यक्रमस्य उद्घाटनं निर्वक्ष्यति। संस्कृतसमितेः राज्यस्तरीय-निर्वाहकसमित्यङ्गानि तिरुवनन्तपुरं जिल्लातः उपजिल्लाकार्यकर्तारश्च भागं गृहीष्यन्ते।
कोविड् मानदण्डम् अनुवर्तते इत्यतः अस्मिन् वर्षे कार्यक्रमस्य वैपुल्यं नानुवर्तते। परिमितानि अङ्गान्येव कार्यक्रमे भागं स्वीकरिष्यन्ति। कार्यक्रममिममभिलक्ष्य समायोजिते साहित्यमत्सरे भागं गृहीतानां कृते साक्ष्यपत्राणि पारितोषिकान् च समारोहे वितरिष्यन्ति।
मत्सरे भागं गृहीत्वा सम्मानितानां नामानि एवम्-
समस्यापुरणमत्सरः
प्रथमस्थानम्- रमा टी-के-, टी-डी-एच़्-एस्-एस्- आलप्पुषा।
द्वितीयस्थानम्- श्रीजा -टी-, एच्-एस्- पेरिङ्ङोट्, पालक्काट्।
तृतीयस्थानम्- रमेश् नम्पीशन्, देवतार् एच्०एस० तानूर्।

कवितामत्सरः-
प्रथमः – रम्या पुलियन्नूर्, षेणायी स्मारक एच्०एस्० पय्यन्नूर्-
द्वितीयः-रणजित् के, जि-यु-पि-एस्- वट्टोली, वटकरा।
तृतीयः-ऊर्मिला- जी-यु०पि०एस्० कुट्टूर् कण्णूर्।

ह्रस्वचलचित्रमत्सरः
प्रथमः-अतिजीवनम्- फा० जि-के-एं- एच्-एस्- कणियारम्, वयनाट्।
द्वितीयः-एकं सत् -जी-वी०एच्-एस्- वेल्लनाट्, तिरुवनन्तपुरम्।
तृतीयः-मम सौभाग्यम् -पि-एस्-एन्-एं० यु-पिय स्कूल्, वेलियन्नूर्, नेटुमङ्ङाट्, तिरुवनन्तपुरम्।

ह्रस्वचलचित्रमत्सरे भागं गृहीतानां सर्वेषां विद्यालयानां कृते साक्ष्यपत्राणि दास्यन्ति।

STD: 10 First Bell Classes – Chapter – 9

Chapter – 9 – 1

Chapter – 9 – 2

STD:10 First bell Classes – Chapter – 8

Chapter – 8 – 1

Chapter – 8 – 2

Chapter – 8 – 3

STD:10 First Bell classes: Chapter-7

Chapter – 7- 1

Chpter – 7 – 2

Chapter – 7 – 3

शक्नुयाद्रोगवारणम् (भागः २१८) – 15-01-2022

EPISODE – 218

नूतना समस्या –

“शक्नुयाद्रोगवारणम्”

ഒന്നാംസ്ഥാനം

“അശ്നീയാത്സാത്വികം ഭോജ്യം
സന്ത്യജേത്താമസം തഥാ
പ്രാപ്നുയാദ്ദൈഹികം സ്വാസ്ഥ്യം
ശക്നുയാദ്രോഗവാരണം.”

Aparna

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २१८) – 15-01-2022

EPISODE – 218

 

प्रश्नोत्तरम्।

 

 

 

 

  1. विजयः – विनय! ———पूर्वं जनार्दनाचार्यः स्वर्गस्थः इति वार्ता।(क) सप्ताहात्  (ख) सप्ताहस्य  (ग) सप्ताहेन
  2. विनयः – एवं वा ? बहु वृद्धः ——-सः। (क) आसन्  (ख) आस्तां  (ग) आसीत्
  3. सः बहु शास्त्राणि ——–स्म। (क) जानामि   (ख) जानाति  (ग) जानन्ति
  4. सम्यक् ———स्म आचार्यः। (क) पाठयति  (ख) पाठयामि  (ग) पाठयसि
  5. विजयः – किन्तु भवान् तु न ——–स्म। (क) पठामि  (ख) पठति  (ग) पठसि
  6. विनयः – तदा तु बाल्ये वयं विद्यालयं न ——-स्म। (क) गच्छामः  (ख) गच्छन्ति  (ग) गच्छथ
  7. त्वमपि आम्रफलं ——-स्म सदा। (क) खादामि  (ख) खादति  (ग) खादसि
  8. मम मित्राणि अपि ——-स्म। (क) अटन्ति  (ख) अटतः  (ग) अटति
  9. विजयः – सत्यम्। मम गृहे भगिन्यौ अम्बां ——-स्म। (क) वदति  (ख) वदतः  (ग) वदन्ति
  10. पिता तु कोपेन  ——–स्म। (क) ताडयामि  (ख) ताडयसि  (ग) ताडयति

ഈയാഴ്ചയിലെ വിജയി

SATHI M

“അഭിനന്ദനങ്ങൾ”

शेरते ससुखं जनाः (बागः २१७) – 08-01-2022

EPISODE – 217

नूतना समस्या –

“शेरते ससुखं जनाः”

ഒന്നാംസ്ഥാനം

“വക്തവ്യം ന ച ഭാഷന്തേ
കർത്തവ്യം ന ച കുർവതേ
ഖാദവ്യം ന ച ഖാദന്തേ
ശേരതേ സസുഖം ജനാ:”

Swathi kishore

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २१७) – 08-01-2022

EPISODE – 217

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पिता – नलिनि! अद्य भवत्याः सख्यः —–खलु। (क) अस्ति  (ख) स्तः  (ग) सन्ति
  2. अहं प्रश्नान्  ——–। (क) पृच्छामि  (ख) पृच्छावः  (ग) पृच्छामः
  3. भवत्यः उत्तरं  ——। (क) वदतु  (ख) वदन्तु  (ग) वदति
  4. नलिनी – भवान् कष्टकरं प्रश्नं मा ——–। (क) पृच्छतु   (ख)  पृच्छतां   (ग)  पृच्छन्तु
  5. भोः आगच्छन्तु । वयमेव जयं ——–। (क) प्राप्नोमि   (ख) प्राप्नुवः  (ग) प्राप्नुमः
  6. पिता – प्रथमः प्रश्नः।——कन्दुकं उपरि क्षिपामि। (क) अहं  (ख) आवां  (ग) वयं
  7. किमर्थं सः अधः पतति। माया ——। (क) वदानि  (ख) वदतु  (ग) वदन्तु
  8. माया – कन्दुकं ग्रहणार्थं  तत्र कोsपि नास्ति। अतः अधः ——-। (क) पतति  (ख) पततः  (ग) पतन्ति
  9. पिता – समीचीनम्। रामः ——अनुजः।(क) कृष्णः  (ख) कृष्णस्य   (ग) कृष्णाय
  10. कृष्णस्य पिता शिवः। रामस्य पिता —–? (क) किम्  (ख) केन  (ग) कः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • MAYA P R
  • SATHI M
  • ADIDEV C S
  • THANISHK

“അഭിനന്ദനങ്ങൾ”

ओटक्कुषल् पुरस्कारं सारा जोसफ् महाभागायै दास्यति

तृशूर्- महाकवेः जि शङ्करक्कुरुप् वर्यस्य स्मरणार्थं गुरुवायूर् न्यासेन समायोजिताय ओटक्कुषल् पुरस्काराय अस्मिन् वर्षे सारा जोसफ् महाभागा अर्हा अभवत्। मातृभूमिः इति साप्ताहिक्यां खण्डशः प्रकाशितं बुधिनि इति नोवल् एव ५१ तमं ओटक्कुषल् पुरस्काराय ताम् अर्हामकरोत्।

३०००० रूप्यकाणि प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। महाकवेः शङ्करक्कुरुप् वर्यस्य ४४ तमे चरमवार्षिके -फिब्रवरि-२ दिनाङ्के डो एं लीलावतीवर्या पुरस्कारं दास्यति।

काश्मीरेषु माता वैष्णोदेवीमन्दिरे अपघातः, सम्मर्द्दे 12 मरणानि, 14 जनाः रुग्णाः।

श्रीनगरम्- जम्मू काश्मीरे कत्रा स्थले माता वैष्णोदेवी मन्दिरे सञ्जाते अपघाते 12 जनाः मृताः, तत्र महान् जनसम्मर्द्दः सञ्जातः। सम्मर्दे संलग्नाः 12 जनाः एव मृताः। 14 जनाः रुग्णाः अभवन्। मृतानां सङ्ख्याः इतोप्यधिका भवेदिति सूचना अस्ति। नववत्सरप्रभाते एव एषा घटना समापन्ना। रुग्णाः नरैना चिकित्सालयं नीताः।

     नववत्सरमभिलक्ष्य प्रार्थनार्थमागताः एव अपघाते पतिताः। अनुमतिं विना जनाः संभूय आगताः। एतदेव दुरन्तकारणम् इति अधिकारिभिः निगदितम्। रक्षाप्रवर्तनानि अनुवर्तन्ते इति आरक्षिभिः सूचितम्।

     अपघातानन्तरं मन्दिरे तार्थाटनं तात्कालिकतया स्थगितम्। प्रधानमन्त्री नरेन्द्रमोदी वर्यः साक्षादागत्यैव रक्षाप्रवर्तनानि अवलोकयतीति केन्द्रमन्त्री जितेन्द्र जेयिन् वर्यः अवदत्।