Daily Archives: January 27, 2022

स्टुटन्ट् पोलीस् कैडट् संघे धर्माधिष्ठितः वेषः नावश्यकः, हिजाब् नानुवदनीयमिति सर्वकारः।

तिरुवनन्तपुरम्- केरला पोलीस् इति आरक्षिदलस्याधीने समायोजितायां स्टुडन्ट् पोलीस् कैडट् इति पद्धत्यां धर्मपरः वेषः नानुवदनीय इति राज्यसर्वकारः असूचयत्। लिङ्गनिरपेक्षं गणवस्त्रमेव कैडट् छात्राणां वेषः। अस्मिन् धर्मपरः चिह्नः नानुवदनीयः।

हिजाब् तथा दीर्घहस्तनिचोलश्च अनुवदनीयः इति सूचयन्ती काचन छात्रा उच्चन्यायालयं समुपगता आसीत्। वस्तुतेयं परीक्ष्य आवेदनीया इति न्यायालयः सर्वकारं निरदिशत्। अस्य प्रतिवचने एव सर्वकारः स्वकीयं निर्णयमसूचयत्।

कोविड् व्यापनम्- पञ्चायत्त् तले नियन्त्रणानि शक्तीकरिष्यति। नियन्त्रितमेखलाप्रक्रमं तथा सम्पूर्णपिधानं च पुनः आयोजयिष्यति

तिरुवनन्तपुरम्-  कोविड् तृतीयतरङ्गे शक्ते जाते नियन्त्रणानि पञ्चायत् तले शक्तीकर्तुं मन्त्रिमण्डलाधिवेशने निर्णयो जातः। एतदर्थं पञ्चायत् अध्यक्षाणाम् अधिवेशनम् आयोजनीयमिति मुख्यमन्त्री निरदिशत्। पञ्चायत् तले नियन्त्रितमेखलां समुपस्थाप्य पूर्णपिधानसमं नियन्त्रणानि आयोजयितुमेव समालोचना। अद्य आयोज्यमाने कोविडवलोकनाधिवेशने अन्तिमनिर्णयो भविष्यति। अवश्यसेवामात्रम् अनूद्य पञ्चायत् तले पूर्णपिधानम् आयोज्यते चेत् रोगिणां संख्या नियन्त्रयितुं शक्यते इति मन्त्रिमण्डलाधिवेशनेन कट्वालोचितम्।