नीलमणि फुक्कन् दामोदर् मौसो च ज्ञानपीठपुरस्कारेण भूषितौ।

नवदिल्ली- असमी कविः नील्मणी फूकन् कोङ्कण आख्यायिकाकारः दामोदर् मौसो च ज्ञानपीठपुरस्कारेण आदृतौ। फूकन् वर्याय गतवर्षीयपुरस्कारः तथा मौसो वर्याय एतद्वर्षीयपुरस्कारश्च प्रददाति। ११ लक्षं रूप्यकाणि काचनिर्मितं सरस्वतीशिल्पं फलकं च पुरस्काररूपेण दीयन्ते।

असमभाषाकवितासु प्रतीकात्मकतां प्रतिनिदधाति फूकन् वर्यस्य कविता। १३ सम्पुटत्वेन कविताः प्रकाशिताः। कोबिता इति कवितासमाहाराय १९८१ तमे वर्षे साहित्य अक्कादमीपुरस्कारः, १९९९ तमे वर्षे पद्मश्रीपुरस्कारश्च अनेन अवाप्तः।
कोङ्कणि भाषायाम् आख्यायिकाः कथाः पटकथाः बालसाहित्यानि च मौसो वर्येण लिखितानि सन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *