Daily Archives: November 6, 2020

केरलेषु तद्देशप्रशासनाय मतदानस्य समयक्रमः घोषितः।

तिरुवनन्तपुरम्- केरलेषु तद्देशस्वयंप्रशासनस्थापनेषु सामाजिकानां चयनार्थं निर्वाचनस्य समयक्रमः घोषितः। कोविड् मानदण्डमनुसृत्यैव निर्वाचनं भविता। छन्दाकलनाय सोपानत्रयं कल्पितम्।

प्रथमसोपाने तिरुवनन्तपुरम्, कोल्लम्, पत्तनं तिट्टा, आलप्पुषा,इटुक्की मण्डलेषु डिसम्बर् ८ दिनाङ्के निर्वाचनं भविता। द्वितीयसोपाने कोट्टयम्, एरणाकुलम्, तृशूर्, पालक्काट्, वयनाट् मण्डलेषु डिसम्बर् १० दिनाङ्के निर्वाचनं भविष्यति। तृतीयसोपाने मलप्पुरम्, कोषिक्कोट्, कण्णूर्, कासरगोड् इति चतुर्षु मण्डलेषु डिसम्बर् १४ दिनाङ्के निर्वाचनं कल्पितम्। मतगणना डिसम्बर् १६ दिनाङ्के निश्चिता।

कोविड् रोगिणां कृते पत्रालयद्वारा मतदानाय व्यवस्था कल्पिता। कोविड् काले कल्पितं निर्वाचनमित्यतः अस्य निर्वाचनस्य अतीव प्राधान्यमस्ति। निर्वाचनस्य सर्वेषु रङ्गेषु कोविड् मानदण्डः पालनीयः भवति।

निर्वाचनार्थं औद्योगिकं विज्ञापनं नवम्बर् १२ दिनाङ्के भविष्यति। नवम्बर् १२ तः स्थानाशिनः नामनिर्देशं समर्पितुं पारयन्ति। नवम्बर् १९ दिनाङ्के नामनिर्देशनस्य प्रत्यावर्तनाय व्यवस्था अस्ति।

भूमिदानं महादानम् ।

आलूर्/इरिङ्ङालक्कुटा – आजीवं संस्कृतस्य प्रचारकत्वव्रतमापन्न : आलूर चुङ्कन् गृहनाथः श्री. सि.वि. जोस् अल्पमात्र सम्पदः 4 सेन्ट्र भूमिः अङ्गन वाटिकायै समर्पितेति सर्वेषाम् आनन्दाय अलम् । स्वगृहस्य समीपे शिशूनां संरक्षणाय संवर्धनाय च संस्थैका आवश्यकीति समाजस्य अभ्यर्थनां शिरसा वहन्नयं महादानाय सन्नद्धो∫भवत् । माप्राणंं होलिक्रोस् उच्चविद्यालये संस्कृताध्यापकः भवति श्री जोस् महाशयः । ०५-११-२०२० दिनाङ्के स्वगृहसमीपे समायोजितायां लघुसभायां इरिङ्ङालक्कुटा नीयमसभामण्डलं सामाजिकः प्रोफ. के.यु. अरुणन्  महात्मने भूमेः रेखां समार्पयत् । आलूर्  ग्रामपञ्चायत्त्ध्यक्षा श्रीमति सन्ध्या नैसन्, उपाध्यक्षः श्री ए. आर् डेविस् प्रभृतयः  सन्निहिताश्चासन्।

प्रशासनं स्वाधीनं भविष्यति चेत् प्रथमं कर्तव्यं सूचयति जो बैडन् वर्यः

वाषिङ्‍टण्- डी.सी.- अमेरिका प्रशासकनिर्वाचनस्य फलप्रख्यापने पुरोगच्छति सति विजयी भविष्यति चेत् प्रथमं कर्तव्यं स्वयम् उद्घोषयति डमोक्राट्टिक् दलस्य स्थानाशी जो बैडन् वर्यः।

ट्रम्प् वर्यस्य अलीकनिर्णयानां संशोधनं विधास्यतीति बैडन् महोदयः अवदत्। अस्य भागत्वेन पारीस् समयातः प्रत्यावर्तननिर्णयं पुनरालोच्यते इत्यपि तेन निगदितम्। ७७ दिनाभ्यन्तरे पारीस् समया पुनस्स्थाप्यते।

अस्मिन्नन्तरे निर्वाचनस्य विश्वास्यता विनष्टेति रिप्पब्लिक्कन् दलस्य स्थानाशी तथा अधुनातनप्रशासकश्च डोनाल्ट् ट्रम्प् वर्यः अवोचत्। पत्रालयद्वारा आयोजिते मतदाने मृषामतानि अधिकानि इत्यारोप्य ट्रम्प् वर्यः सर्वोच्चन्यायालये व्यवहाराय गतः। अतः अमेरिका निर्वाचनस्य फलप्रख्यापने विलम्बः सुनिश्चितः अभवत्।