Daily Archives: November 25, 2020

भारतवंशजः न्यूसिलान्ट् संसत्सदस्यः संस्कृते सत्यशपथमग्रहीत्।

वेल्लिङ्टण्- न्यूसिलान्ट् संसदे चितः भारतवंशजः संस्कृते सत्यशपथमग्रहीत्। गौरव् शर्मा नामकः न्यूसिलाण्ट् संसत्सदस्यः एव गतदिने संसदि संस्कृते शपथं स्वीकृत्य इतिहासपात्रमभवत्। हिमाचलप्रदेशस्थः भवति ३३ वयस्कः गौरव् शर्मा। हामिल्टण् पश्चिमप्रान्तात् लेबर् पार्टीति दलस्य प्रत्याशित्वेन सदस्यत्वमाप।

न्यूसिलान्ट् संसदं प्रति चितः कनिष्ठः सदस्यः इतिरूपेणापि प्रसिद्धिमाप गौरव् शर्मा। न्यूसिलान्टस्य गोत्रवंशीयानां मावोरी इति भाषायामपि केतन शपथम् अग्रहीषुः। संस्कृतं सर्वासां भाषाणां जननीरूपा भाषा इत्यतः शपथग्रहणाय संस्कृतं स्वीकृतवानिति स अब्रवीत्।