Daily Archives: November 1, 2020

नववाणी नवा न वा ? (भागः १५६) – 07-11-2020

EPISODE – 156

नूतना समस्या –

“नववाणी नवा न वा ?”

ഒന്നാംസ്ഥാനം

“സ്വവാസം തു സ്വയം ജ്ഞാത്വാ
പ്രവാസീവാഗതാ ഹിതാ
ഭവാനന്ദാ സുവാക്ധന്യാ
നവവാണീ നവാ ന വാ?”

Narayanan N
“അഭിനന്ദനങ്ങള്‍”

 

एषुत्तच्छन् पुरस्कारः सक्करिया महोदयाय।

तिरुवनन्तपुरम्- साहित्यरंगे केरलीयसर्वकारेण दीयमाना परमोन्नतबहुमतिः भवति एषुत्तच्छन् पुरस्कारः। मलयालभाषापितुः तुञ्चत्त् एषुत्तच्छन् वर्यस्य नाम्नि संस्थापितः अयं पुरस्कारः अस्मिन् वर्षे विख्यातकथाकाराय सक्करियावर्याय दीयते। साहित्यरंगे समग्रयोगदानमभिलक्ष्यैवायं पुरस्कारः। पञ्चलक्षं रूप्यकाणि फलकं च पुरस्कारे अन्तर्भवति। सांस्कृतिकविभागमन्त्री ए.के.बालन् वर्यः पुरस्कारमघोषयत्।

     केरल्यां श्रद्धेयः लेखकः भवति सक्करिया। तेन लिखिताः सर्वाः अपि कथाः श्रेष्ठाः सन्ति। केन्द्र साहित्य अक्कादमी पुरस्कारः, केरल साहित्य अक्कादमी पुरस्कारः, ओ.वी. विजयन् पुरस्कारः, केरल साहित्य अक्कादम्यां विशिष्टाङ्गत्वम् इत्यादयः निरवधिकाः अङ्गीकाराः सक्करियावर्यं प्रापन्।

     1945 जूण् 5 दिनाङ्के कोट्टयं मीनच्चिल् तालूक् पैका मध्ये अयं भूजातः। कुञ्ञच्चन् त्रेस्यक्कुट्टी च पितरौ। बंगलूरु एं इ.एस् कलाशालायां तथा काञ्ञिरप्पल्ली डोमनिक् कलाशालायां च अयम् अध्यापकः आसीत्।

    नवम्बर् प्रथमं दिनं ऐक्यकेरलसंस्थापनदिवसं भवति। अस्मिन्नेव दिने कैरलीसाहित्यस्य परमोन्नतः अयं पुरस्कारः घोषितः।

PRASNOTHARAM (भागः १५६) – 07-11-2020

EPISODE – 156

 

प्रश्नोत्तरम्।

 

 

 

 

  1. बालकः क्रीडनकं ———। (क) गृह्णामि  (ख) गृह्णासि (ग) गृह्णाति 
  2. जनन्यः शिशुं ——–। (क) गृह्णन्ति (ख) गृह्णीथ  (ग) गृह्णीमः
  3. यूयं चोरं ——-। (क) गृह्णीमः (ख) गृहणन्ति (ग) गृह्णीथ
  4. आवाम् आसन्दं ——। (क) गृह्णीथः (ख) गृह्णीवः (ग) गृह्णीतः
  5. भवती किं ——-? (क) गृह्णाति  (ख) गृह्णासि (ग) गृह्णाणि
  6. ते किं किं ——। (क) गृह्णीमः  (ख) गृह्णीथ (ग) गृह्णन्ति
  7. त्वं शुकं न ——। (क) गृह्णामि (ख) गृह्णासि (ग) गृह्णाति
  8. छात्रः लेखनीं ——–। (क) गृह्णाति  (ख) गृह्णासि (ग) गृह्णामि
  9. वयं प्रसादं ——-।(क) गृह्णन्ति (ख) गृह्णीमः (ग) गृह्णीथ
  10. अहं मार्जारं ——-। (क) गृह्णाति  (ख) गृह्णासि (ग) गृह्णामि

ഈയാഴ്ചയിലെ വിജയി

NIVEDHYA K R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  1. Nivedhya K R
  2. Leena K S
  3. Dawn Jose
  4. Hariprasad K M
  5. Leena Davis

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”